SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः -१, अध्ययनं-१४, २६३ ग्रन्थो-धनधान्यहिरण्यद्विपदचतुष्पदादि 'विहाय' त्यक्त्वा प्रव्रजितः सन् सदुत्थानेनोत्थाय च ग्रहणरूपामासेवनारूपांच शिक्षांकुर्वाणः-सम्यगासेवमानः सुष्टुशोभनंनवभिर्ब्रह्मचर्यगुप्तिभिर्गुप्तमाश्रित्य ब्रह्मचर्यं 'वसेत्', यदिवा 'सुब्रह्मचर्य' मिति संयमस्तद् आवसेत्-तं सम्यक् कुर्यात् । आचार्यान्तिके यावज्जीवं वसमानो यावदभ्युद्यविहारं न प्रतिपद्यते तावदाचार्यवचनस्यावपातो-निर्देशस्तत्कार्यवपातकारी-वचननिर्देशकारी सदाऽऽज्ञाविधायी, विनीयते-अपनीयते कर्म येन स विनयस्तं सुष्टु शिक्षेद्-विदध्यात् ग्रहणासेवनाभ्यां विनयं सम्यक् परिपालयेदिति । तथा यः ‘छेको' निपुणः स संयमानुष्ठाने सदाचार्योपदेशे वा विविधं प्रमादं न कुर्यात्, यथा हि आतुरः सम्यग्वैद्योपदेशं कुर्वन् श्लाघां लभते रोगोपशमं च एवं साधुरपि सावद्यग्रन्थपरिहारी पापकर्मभेषजस्थानभूतान्याचार्यवचनानिविदधदपरसाधुभ्यः साधुकारमशेषकर्मक्षयंचावाप्नोतीति मू. (५८१) जहा दियापोतमपत्तजातं, सावासगा पविउं मन्नमाणं । तमचाइयं तरुणमपत्तजातं, ढंकाइ अव्वत्तगमहरेज्जा ।। वृ. यः पुनराचार्योपदेशमन्तरेण स्वच्छन्दतया गच्छान्निर्गत्य एकाकिविहारितां प्रतिपद्यते सचबहुदोषभाग् भवतीत्यस्यार्थस्य दृष्टान्तमाविर्भावयन्नाह-'यथे'तिदृष्टान्तोपप्रदर्शनार्थः 'यथा' येन प्रकारेण 'द्विजपोतः' पक्षिशिशुरव्यक्तः। तमेव विशिनष्टि-पतन्ति-गच्छन्ति तेनेति पत्रं-पक्षपुटं न विद्यते पत्रजातं-पक्षोद्भवो यस्यासावपत्रजातस्तं तथा स्वकीयादावासकात्-स्वनीडात् प्लवितुम्-उत्पतितुं मन्यमानं तत्र तत्र पतन्तमुपलभ्य तं द्विजपोतं 'अचाइयंति पक्षाभावाद्गन्तुमसमर्थमपत्रजातमितिकृत्वा मांसपेशीकल्पं 'ढकादयः' क्षुद्रसत्त्वाःपिशिताशिनः अव्यक्तगमं गमनाभावे नंष्टुमसमर्थः 'हरेयुः' चञ्चादिनोक्षिप्य नयेयुव्यापदियेयुरिति । मू. (५८२) एवं तु सेहंपि अपुट्ठधम्म, निस्सारियं वुसिमं मन्नमाणा। दियस्स छायं व अपत्तजायं, हरिंसणं पावधम्मा अनेगे॥ वृ.एवंद्दष्टान्तं प्रदर्श्यदान्तिकंप्रदर्शयितुमाह-एव' मित्युक्तप्रकारेण, तुशब्दःपूर्वस्माद्विशेषं दर्शयति, पूर्वं ह्यसंजातपक्षत्वादव्यक्ता प्रतिपादिता इह त्वपुष्टधर्मतयेत्ययं विशेषो, यथा द्विजपोतमसंजातपक्षं स्वनीडानिर्गतं क्षुद्रसत्त्वा विनाशयन्ति एवं शिक्षकमभिनवप्रव्रजितं सूत्रार्थानिष्पन्नमगीतार्थम् । 'अपुष्टधर्माणं' सम्यगपरिणतधर्मपरमार्थं सन्तमनेके पापधर्माणः पाषण्डिकाः प्रतारयन्ति, प्रतार्यच गच्छसमुद्रान्निसारयन्ति, निसारितंच सन्तं विषयोन्मुखतामपादितमपगतपरलोक- भयमस्माकं वश्यमित्येवं मन्यमानाः यदिवा 'बुसिमन्ति चारित्रं तद् असदनुष्ठानतोनिसारंमन्यमानाअजातपक्षं 'द्विजशावमिव' पक्षिपोतमिव ढङ्कादयः पापधर्माणो मिथ्यात्वाविरतिप्रमादकषायक-लुषितान्तरात्मानः कुतीर्थिकाः स्वजना राजादयो वाऽनेकेबहवो हृतवन्तो हरन्ति हरिष्यन्ति चेति, कालत्रयोपलक्षणार्थं भूतनिर्देश इति, तथाहि - पाषण्डिका एवमगीतार्थं प्रतारयन्ति, तद्यथा-युष्मदर्शने नाग्निप्रज्वालनविषापहारशिस्वाच्छेदादिकाः प्रत्ययाश्यन्ते, तथाऽणिमाद्यष्टगुणमैश्वर्यंचनास्ति, तथा नराजादिभिर्बहुभिराश्रितं, याऽप्यहिंसोच्यते भवदागमे साऽपि जीवाकुलत्वाल्लोकस्य दुःसाध्या, नापि भवतां स्नानादिकं शौचमस्तीत्यादिकाभिःशठोक्तिभिरिन्द्रजालकल्पाभिर्मुग्धजनं प्रतारयन्ति, स्वजनाद Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy