________________
२५४
सूत्रकृताङ्ग सूत्रम् १/१३/-/५६०
मानविपाकमपदाधुना क्रोधादिकषायदोषमुद्भावयितुमाहमू. (५६१) जे कोहणे होइ जगट्ठभासी, विओसियंजे उ उदीरएज्जा ।
अंधे व से दंडपहंगहाय, अविओसिए धासति पावकम्मी । वृ.यो ह्यविदितकषायविपाकः,प्रकृत्यैव क्रोधनोभवतितथा जगदर्थभाषी' यश्च भवति, जगत्यर्था जगदा ये यथा व्यवस्थिताः पदास्तानाभाषितुं शीलमस्य जगदर्थभाषी, तद्यथाब्राह्मणंडोडमितिब्रूयात्तथा वणिज किराटमिति शूद्रमाभीरमितिश्वपाकंचाण्डालमित्यादि तथा काणं काणमिति तथा खझं कुब्जं वडभमित्यादि तथा कुष्ठिनं क्षयिणमित्यादि यो यस्य दोषस्तं तेन खरपरुषं ब्रूयात् यः स जगदर्थभाषी, यदिवा जयार्थभाषी यथैवाऽऽत्मनो जयो भवति तथैवाविद्यमानमप्यर्थं भाषते तच्छीलश्च-येन केनचिप्रकारेणसदर्थभाषणेनाप्यात्मनो जयमिच्छतीत्यर्थ:।
विओसियंतिविविधमवसितंवर्यवसितमुपशान्तंद्वन्द्वं-कलहंयः पुनरप्युदीरयेत्, एतदुक्तं भवति-कलहकारिमिर्मिथ्यादुष्कृतादिना परस्परं क्षामितेऽपितत्तब्रूयाद्येनपुनरपितेषांक्रोधोदयो भवति। साम्प्रतमेतद्विपाकंदर्शयति-यथा ह्यन्धः-चक्षुर्विकलो ‘दण्डपथं' गोदण्डमार्ग प्रमुखोज्वलं 'गृहीत्वा' आश्रित्य व्रजन सम्यगकोविदतया 'धृष्यते कण्टकश्वापदादिभिः पीङ्यते, एवमसावपि केवलं लिङ्गधार्यनुपशान्तक्रोधः कर्कशभाष्यधिकरणोद्दीपकः, तथा 'अविओसिए'त्तिअनुपशान्तद्वन्द्वः पापम् अनार्यकर्म-अनुष्ठानं यस्यासौपापकर्मा धृष्यते चतुर्गतिकेसंसारेयातनास्थानगतः पौनःपुन्येन पीड्यत इति ॥ मू. (५६२) जे विग्गहीए अन्नायभासी, न से समे होइ अझंझपत्ते ।
उवायकारी य हरीमणे य, एगंतदिट्ठी य अमाइसवे ।। वृ.किञ्चान्यत्-यः कश्चिदविदितपरमार्थो विग्रहो-युद्धंस विद्यतेयस्यासौ विग्रहिको यद्यपि प्रत्युपेक्षणादिकाः क्रिया विधत्तेतथापियुद्धप्रियः क्वचिद्भवति तथाऽन्याय्यं भाषितुंशीलमस्य सोऽन्याय्यभाषी यत्किञ्चनभाष्यस्थानभाषी गुर्वाधधिक्षेपकरो वा यश्चैवंभूतो नासौ 'समो' रक्तद्विष्टतया मध्यस्थो भवति, तथा नाप्यझञ्झां प्राप्तः-अकलहप्राप्तो वा न भवत्यमायाप्राप्तो वा, यदिवा अझञ्झाप्राप्तैः-अकलहप्राप्तैः सम्यगद्दष्टिभिरसौ समो न भवति यतः अतो नैवंविधेन भाव्यम्, अपित्वक्रोधनेनाकर्कशभाषिणा चोपशान्तयुद्धानुदीरकेण न्याय्यभाषिणाऽझञ्झाप्राप्तेन मध्यस्थेन च भाव्यमिति ।
एवमनन्तरोद्दिष्टदोषी सन्नुपपातकारी-आचार्यनिर्देशकारी-यथोपदेशं क्रियासु प्रवृत्तः यदिवा 'उपायकारि'त्ति सूत्रोपदेशप्रवर्तकः, तथा ह्रीः-लज्जा संयमो मूलोत्तरगुणभेदभिन्नस्तत्र मनो यस्यासौ ह्रीमनाः, यदिवा-अनाचारं कुर्वन्नाचार्यादिभ्यो लज्जते स एवमुच्यते, तथैकान्तेन तत्त्वेषु-जीवादिषु पदार्थेषु द्दष्टिर्यस्यासावेकान्तष्टिः, पाठान्तरं वा 'एगंतसड्ढि'त्ति एकान्तेन श्रद्धावान् मौनीन्द्रोक्तमार्गे एकान्तेन श्रद्धालुरित्यर्थः, चकारः पूर्वोक्तदोषविपर्यस्तगुणसमुच्चयार्थः
तद्यथा-ज्ञानापलिकुञ्चकोऽक्रोधीत्यादि तावदझझाप्राप्त इति, स्वत एवाह 'अमाइरूवे'त्ति अमायिनोरूपं यस्यासावमायिरूपोऽशेषच्छद्मरहित इत्यर्थः, नगुर्वादीन्छद्मनोपचरति नाप्यन्येन केनचित्सार्धं छद्मव्यवहारं विधत्त इति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org