________________
श्रुतस्कन्धः-१, अध्ययनं -१३,
२५३ वृ. किञ्च-विविधम्-अनेकप्रकारं शोधितः-कुमार्गप्ररूपणापनयनद्वारेण निर्दोषतां नीतो विशोधितः सम्यगदर्शनज्ञानचारित्राख्यो मोक्षमार्गस्तमेवंभूतं मोक्षमार्ग 'ते' स्वाग्रहग्रहग्रस्ता गोष्ठामाहिलवदनु-पश्चादाचार्यप्ररूपणातः कथयन्ति-अनुकथयन्ति।
ये चैवंभूता आत्मोत्कर्षात्स्वरुचिविरचितव्याख्याप्रकारव्यामोहिता ‘आत्मभावेन' स्वाभिप्रायेणाचार्यपारम्पर्येणायातमप्यर्थं व्युदस्यान्यथा 'व्यागृणीयुः' व्याख्यानयेयुः, ते हि गम्भीराभिप्रायं सूत्रार्थ कर्मोदयात्पूर्वापरेण यथावत्परिणामयितुमसमर्थाः पण्डितमानिन उत्सूत्रं प्रतिपादयन्ति।आत्मभावव्याकरणंचमहतेऽनायेतिदर्शयति-'स' एवंभूतः स्वकीयाभिनिवेशाद् 'अस्थानिकः' अनाधारो बहूनां ज्ञानादिगुणानामभाजनं भवतीति, ते चामी गुणाः । ॥१॥ "सुस्सूसइ पडिपुच्छइ सुणेइ गेण्हइ य ईहए आवि ।
तत्तो अपोहए वा धारेइ करेइ वा सम्मं ॥ यदिवा गुरुशुश्रूषादिना सम्यगज्ञानावगमस्ततः सम्यगनुष्ठानमतः सकलकर्मक्षयलक्षणो मोक्ष इत्येवंभूतनां गुणानामनायतनमसौ भवति, क्वचित्पाठः-'अट्ठाणिए होंति बहूनिवेस'त्ति अस्यायमर्थः-अस्थानम्-अभाजनमपात्रमसौ भवति सम्यगज्ञानादीनां गुणानां, किंभूतो? -बहुःअनर्थसंपादकत्वेनासदभिनिवेशो यस्य स बहुनिवेशः, यदिवा-गुणानामस्थानिकः-अनाधारो बहूनां दोषाणां च निवेशः-स्थानम् आश्रय इति।
किंभूताः पुनरेवं भवन्तीति दर्शयति-ये केचन दुर्गृहीतज्ञानलवालेपिनो ज्ञाने-श्रुतज्ञाने शङ्का ज्ञानशङ्का तया मृषावादं वदेयुः, एतदुक्तं भवति-सर्वज्ञप्रणीते आगमे शङ्कां कुर्वन्ति, अयं तत्प्रणीत एवनभवेद् अन्यथा वाऽस्यार्थः स्यात्, यदिवा ज्ञानशङ्कयापाण्डित्याभिमानेन मृषावादं वदेयुर्यथाऽहंब्रवीमि तथैव युज्यते नान्यथेति ।। मू. (५६०) जे यावि पुट्ठा पलिउंचयंति, आयाणमढें खलु वंचयित्ता।
असाहुणो ते इह साहुमाणी, मायण्णि एसंति अनंतघातं ।। वृ. किश्चान्यत्-ये केचनाविदितपरमार्थाः स्वल्पतया समुत्सेकिनोऽपरेण पृष्टाःकस्मादाचार्यात्सकाशादधीतं श्रुतं भवद्भिरिति, ते तु स्वकीयमाचार्यं ज्ञानावलेपेन निहनुवाना अपरंप्रसिद्ध प्रतिपादयन्ति, यदिवा मयैवैतत्स्वत उपेक्षितमित्येवंज्ञानावलेपात् 'पलिउंचयंति' त्ति निढुवते, यदिवा-सदपि प्रमादस्खलितमाचार्यादिनाऽऽलोचनादिके अवसरे पृष्टाः सन्तो मातृस्थानेनावर्णवादभयान्निह्ववते । त एवं पलिकुञ्चिका-निह्नवं कुर्वाणा आदीयत इत्यादानंज्ञानादिकं मोक्षो वा तमर्थं वञ्चयन्ति-भ्रंशयन्त्यात्मनः, खलुरवधारणे वञ्चयन्त्येव ।
एवमनुष्ठायिनश्चासाधवस्ते परमार्थतस्तत्त्वचिन्तायाम् ‘इह' अस्मिन् जगति साधुविचारे वा साधुमानिन' आत्मोत्कर्षात् सदनुष्ठानमानिनोमायान्वितास्ते ‘एष्यन्ति' यास्यन्ति अनन्तशो' बहुशो 'घातं' विनाशं संसारं वा अनवदग्रं संसारकान्तारमनुपरिवर्तयिष्यन्तीति, दोषद्वयदुष्टत्वात्तेषाम्, एकं तावत्स्वयमसाधवो द्वितीयं साधुमानिनः, उक्तंच॥१॥ “पावं काऊण सयं अप्पाणं सुद्धमेव वाहरइ।
दुगुणं करेइ पावंबीयं बालस्स मंदत्तं ॥ तदेवमात्मोत्कर्षदोषारोधिलाभमप्युहत्यानन्तसंसारभाजो भवन्त्यसुमन्त इति स्थितम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org