________________
२५२
सूत्रकृताङ्ग सूत्रम् १/१३/-/ ५५६ / नि. [१२६]
सति भवति, सूत्रं च सूत्रानुगमे, स चावसरप्राप्तः अतः सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं तच्चेदम्मू. (५५७)
आहत्तहीयं तु पवेयइस्सं, नाणप्पकारं पुरिसस्स जातं । सओ अ धम्मं असओ असीलं, संतिं असंतिं करिस्सामि पाउं ।। वृ. अस्य चानन्तरसूत्रेण सहायं संबन्धः, तद्यथा-वलयाविमुक्तेत्यभिहितं, भाववलयं रागद्वेषी, ताभ्यां विनिर्मुक्तस्यैव याथातथ्यं भवतीत्यनेन संबन्धेनायातस्यास्य सूत्रस्य व्याख्या प्रतन्यते यथातथाभावो याथातथ्यं तत्त्वं परमार्थः, तच्च परमार्थचिन्तायां सम्यगज्ञानादिकं, तदेव दर्शयति-'ज्ञानप्रकार' मिति प्रकारशब्द आद्यर्थे, आदिग्रहणाच्च सम्यग्दर्शनचारित्रे गृह्येते, तत्र सम्यग्दर्शनम्-औपशमिकक्षायिकक्षायोपशमिकं गृह्यते, चारित्रं तु व्रतसमितिकषायाणां धारणरक्षणनिग्रहादिकं गृह्यते ।
एतत्सम्यगज्ञानादिकं 'पुरुषस्य जन्तोर्यज्ज्ञातम् उत्पन्न तदहं 'प्रवेदयिष्यामि' कथयिष्यामि, तुशब्दो विशेषणे, वितथाचारिणस्तद्दोषांश्चाविर्भाविष्यामि, 'नानाप्रकारं' वा विचित्रं पुरुषस्य स्वभावम्-उञ्चावचं प्रशस्ताप्रशस्तरूपं प्रवेदयिष्यामि । नानाप्रकारं स्वभावं फलं च पश्चार्धेन दर्शयति-‘सतः' सत्पुरुषस्य शोभनस्य सदनुष्ठायिनः सम्यगदर्शनज्ञानचारित्रवतो 'धर्मं श्रुतचारित्राख्यं दुर्गतिगमनधरणलक्षणं वा तथा 'शीलम्' उद्युक्तविहारित्वं तथा 'शान्ति' निर्वृतिमशेषकर्मक्षयलक्षणां 'करिस्सामिपाउ' त्ति प्रादुष्करिष्ये प्रकटयिष्यामि यथावद् उद्भावयिष्यामि
तथा 'असतः' अशोभनस्य परतीर्थिकस्य गृहस्थस्य वा पार्श्वस्थादेर्वा, चशब्दसमुच्चितमधर्मपापं तथा 'अशीलं ' कुत्सितसीलमशान्तिं च-अनिर्वाणरूपां संसृतिं प्रादुर्भावयिष्यामीति । अत्र च सतो धर्मं शीलं शान्ति च प्रादुष्करिष्यामि असतश्चाधर्ममशीलमशान्तिं चेत्येवं पदघटना योजनीया, अनुपात्तस्य चशब्देनाक्षेपो द्रष्टव्य इति ॥
मू. (५५८) अहो य राओ अ समुट्ठिएहिं, तहागएहिं पडिलब्भ धम्मं । समाहिमाघातमजोसयंता, सत्थारमेवं फरुसं वयंति ।।
वृ. जन्तोर्गुणदोषरूपं नानाप्रकारं स्वभावं प्रवेदयिष्यामीत्युक्तं तद्दर्शयितुकाम आह'अहोरात्रम्' अहर्निशं सम्यगुत्थिताः समुत्थिता सदनुष्ठानवन्तस्तेभ्यः श्रुतधरेभ्यः, तथा 'तथागतेभ्यो' वा तीर्थभ्यो 'धर्म' श्रुतचारित्राख्यं प्रतिलभ्य संसारनिःसरणोपायं धर्ममवाप्यापि कर्मोदयान्मदभाग्यतया जमालिप्रभृतय इहात्मोत्कर्षात्तीर्थकृदाद्याख्यातं 'समाधि' सम्यग्दर्शनादिकं मोक्षपद्धतिम् ‘अजोषयन्तः' असेवन्तः सम्यगकुर्वाणा निह्नवा बोटिकाश्च स्वरुचिविरचितव्याख्याप्रकारेण निर्दोषं सर्वज्ञप्रणीतं मार्गं विध्वंसयन्ति कुमार्गं प्ररूपयन्ति ।
ब्रुवते च असौ सर्वज्ञ एव न भवति यः क्रियमाणं कृतमित्यध्यक्षविरुद्धं प्ररूपयति, तथा यः पात्रादिपरिग्रहान्मोक्षमार्गमाविर्भावयति, एवं सर्वज्ञोक्तमश्रद्दधानाः श्रद्धानं कुर्वन्तोऽप्यपरे धृतिसंहननदुर्बलतया यथाऽऽ रोपितं संयमभारं वोढुमसमर्थाः क्वचिद्विषीदन्तोऽपरेणाचार्यादिना वत्सलतया चोदिताः सन्तस्तं ' शास्तारम्' अनुशासितारं चोदकं पुरुषं वदन्ति 'कर्कश' निष्ठुरं प्रतीपं चोदयन्तीति ॥
मू. (५५९) विसोहियं ते अनुकाहयंते, जे आतभावेण वियागरेज्जा । अट्टाणिए होइ बहूगुणाणं, जे नाणसंकाइ मुसं वदेज्जा ।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org