________________
श्रुतस्कन्धः-१, अध्ययनं-१३,
२५१
वृ. 'यथा' येन प्रकारेण यथा पद्धत्त्या सूत्रं व्यवस्थितं 'तथा' तेनैव प्ररकारेण ‘अर्थो' व्याख्येयोऽ- नुष्ठेयश्च, एतद्दर्शयति-'चरणम्' आचरणमनुष्ठातव्यं, यदिवा सिद्धान्तसूत्रस्य चारित्रमेवाचरणम् अतो यथासूत्रं तथा चारित्रमेतदेव चानुष्ठेयमेतच्च याथातथ्यमिति ज्ञातव्यं । पूर्वार्धस्यैव भावार्थं गाथापश्चार्धेन दर्शयितुमाह -
यद्वस्तुजातं 'प्रकृतं' प्रस्तुतं यमर्थमधिकृत्य सूत्रमकारि तस्मिन्नर्थे 'सति' विद्यमाने यथावद्व्याख्यायमाने संसारोत्तारणकारणत्वेन प्रशस्यमाने वा याथातथ्यमिति भवति, विवक्षिते त्वर्थे 'असति' अविद्यमाने संसारकारणत्वेनवा जुगुप्सायांसत्यां सम्यगननुष्ठीयमानेवा याथातथ्यं नभवति, इदमुक्तं भवति-यदि सूत्रं येन प्रकारेण व्यवस्थितं तथैवार्थोयदिभवति व्याख्यायतेऽनुष्टीयतेच संसारनिस्तरणसमर्थश्च भवति ततोयाथातथ्यमिति भवति, असति त्वर्थेऽक्रियमाणे च संसारकारणत्वेन जुगुप्सिते वान भवति याथातथ्यमिति गाथातात्पर्यार्थः । एतदेव द्दष्टान्तगर्भ दर्शयितुमाह - नि. [१२५] आयरियपरंपरएण आगयं जो उछेयबुद्धीए ।
कोवेइ छेयवाई जमालिनासं स नासिहिति ।। आचार्या-सुधर्मस्वामिजम्बूनामप्रभावार्यरक्षिताद्यास्तेषांप्रणालिका-पारम्पर्यंतेनागतंयद्व्या ख्यानं-सूत्राभिप्रायः, तद्यथा-व्यवहारनयाभिप्रायेण क्रियमाणमपि कृतंभवति, यस्तु कुतर्कदामातमानसोमिथ्यात्वोपहतद्दष्टितया छेकबुद्धया' निपुणबुद्धया कुशाग्रीयशेमुषीकोऽहमितिकृत्वा 'कोपयति' दूषयति-अन्यथा तमर्थं सर्वज्ञप्रणीतमपि व्याचष्टे-कृतं कृतमित्येवं ब्रूयात्, वक्तिचन हि मृत्पिण्डक्रियाकाल एव घटो निष्पद्यते, कर्मगुणव्यपदेशानामनुपलब्धः।
सएवं छेकवादी' निपुणोऽहमियेवंदादी पण्डिताभिमानी ‘जमालिनाशं' जमालिनिह्वववत् सर्वज्ञमतविकोपको ‘विनङ्क्षयति' अरहट्टघटीयन्त्रन्यायेन संसारचक्रवाले बंभ्रमिष्यतीति, न चासौ जानाति वराको यथा अयं लोको घटार्था क्रिया मृत्खननाद्या घटएवोपचरति, तासांच क्रियाणां क्रियाकालनिष्ठाकालयोरेककालत्वात् क्रियमाणमेव कृतं भवति, श्यते चायं व्यवहारो लोके, तद्यथा-अद्यैव देवदत्ते निर्गतेकान्यकुब्जं देवदत्तोगत इतिव्यपदेशः, तथा दारुणि छिद्यमाने प्रस्थकोऽयं व्यपदेश इत्यादि । साम्प्रतमन्यथावादिनोऽपायदर्शनद्वारेणोपदेशं दातुकाम आहनि. [१२६] न करेति दुक्खमोक्खं उज्जममाणोऽवि संजमतवेसुं।
तम्हा अत्तुक्करिसो वजेअव्वो जतिजणेणं ।। वृ. यो हि दुर्गृहीतविद्यालवदध्मातः सर्वज्ञवचनैकदेशमप्यन्यथा व्याचष्टे स एवंभूतः सन् संयमतपस्सूधमं कुर्वाणोऽपि शारीरमानसानां दुःखानामसातोदयजनितानां मोक्ष-विनासं न करोति आत्मवर्गामातमानसो, यत एवं तस्मादात्मोत्कर्षः- अहमेव सिद्धान्तार्थवेदी नापरः कश्चित्मत्तुल्योऽस्तीत्येवंरूपोऽभिमानोवर्जनीयः-त्याज्यो यतिजनेन' साधुलोकेन, अपरोऽपि ज्ञानिना जात्यादिको मदो न विधेयः किं पुननिमदः?, तथा चोक्तम् - ॥१॥ "ज्ञानं मददर्पहरं माद्यति यस्तेन तस्य को वैद्यः ? ।
अगदो यस्य विषायति तस्य चिकित्सा कथं क्रियते? ॥ गतो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रालापकनिष्पन्नस्य निक्षेपस्यावसरः, स च सूत्रे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org