________________
सूत्रकृताङ्ग सूत्रम् १/१३/-/५५६/नि. [१२२] चायमभिसंबन्धः-इहानन्तराध्ययने परवादिमतानि निरूपितानि तन्निराकरणं चाकारि, तच्च याथातथ्येन भवति, तदिह प्रतिपाद्यते इत्यनेन संबन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि भवन्ति, तत्राप्युपक्रमद्वारान्तर्गतोऽर्थाधिकारोऽयं, तद्यथा
शिष्यगुणदीपना, अन्यच्च - अनन्तराध्ययनेषु धर्मसमाधिमार्गसमवसरणाख्येषु यदवितथं याथातथ्येन व्यवस्थितं यच्च विपरीतं वितथं तदपि लेशतोऽत्र प्रतिपादयिष्यत इति । नामनिष्पन्ने तु निक्षेपे याथातथ्यमिति नाम, तदधिकृत्य नियुक्तिकृदाह
नि. [१२२]
नामतहं ठवणतहं दव्वतहं चेव होइ भावतहं । दव्वतहं पुण जो जस्स सभावो होति दव्वस्स ।। भावहं पुण नियमा नायव्वं छव्विहंमि भावंमि । अहवाऽवि नाणदंसणचरित्तविनएन अज्झप्पे ।
नि. [१२३]
२५०
-
वृ. अस्याध्ययनस्य याथातथ्यमिति नाम, तच्च यथातथाशब्दस्य भावप्रत्ययान्तस्य भवति, तत्र तथाशब्दोल्लङ्घनेन तथाशब्दस्य निक्षेपं कर्तुनिर्युक्तिकारस्यायमभिप्रायः इह यथाशब्दोऽयमनुवादे वर्तते, तथाशब्दश्च विधेयार्थे, तद्यथा-यथैवेदं व्यवस्थितं तथैवेदं भवता विधेयमिति, अनुवादविधेययोश्च विधेयांश एव प्रधानभावमनुभवतीति, यदिवा-याथातथ्यमिति तथ्यमतस्तदेव निरूप्यत इति । तत्र तथाभावस्तथ्यं यथावस्थितवस्तुता, तन्नामादि चतुर्धा, तत्र नामस्थापने सुगमे, द्रव्यतथ्यं गाथापश्चार्धेन प्रतिपादयति, तत्र द्रव्यतथ्यं पुनर्यो 'यस्य' सचित्तादेः स्वभावो द्रव्यप्राधान्याद्यद्यस्य स्वरूपं, तद्यथा - उपयोगलक्षणो जीवः कठिनलक्षणा पृथिवी द्रवलक्षणा आप इत्यादि, मनुष्यादेर्वायो यस्य मार्दवादि स्वभावोऽचित्तद्रव्याणांच गोशीर्षचन्दनकम्बलरलादीनां द्रव्याणां स्वभावः तद्यथा
॥१॥
उन्हे करेइ सीयं सीए उपहत्तणं पुण करेइ । कंबलरयणादीनं एस सहावो मुणेयव्वो ।
भावतथ्यमधिकृतयाह-भावतथ्यं पुनः 'नियमतः ' अवश्यंभावतया षड्विधे औदयिकादिके भावे ज्ञातव्यं, तत्र कर्मणामुदयेन निर्वृत्त औदयिकः कर्मोदयापादितो गत्याद्यनुभावलक्षणः, तथा कर्मोपशमेन निर्वृत्त औपशमिकः कर्मानुदयलक्षण इत्यर्थः, तथा क्षयाज्जातः क्षायिकःअप्रति-पातिज्ञानदर्शनचारित्रलक्षणः, तथा क्षयादुपशमाच्च जातः क्षायोपशमिको- देशोदयोपशमलक्षणः, परिणामेन निर्वृत्तः पारिणामिको जीवाजीवभव्यत्वादिलक्षणः, पञ्चानामपि भावानां द्विकादि- संयोगान्निष्पन्नः सान्निपातिक इति ।
"
यदिवा-‘अध्यात्मनि' आन्तरं चतुर्धा द्रष्टव्यं तद्यथा - ज्ञानदर्शनचारित्रविनयतथ्यमिति, तत्र ज्ञानतथ्यं मत्यादिकेन ज्ञानपञ्चकेन यथास्वमवितथो विषयोपलम्भः दर्शनतथ्यं शङ्काद्यतिचाररहितं जीवादितत्त्वश्रद्धानं चारित्रतथ्यं तु तपसि द्वादशविधे संयमे सप्तदशविधे सम्यगनुष्ठानं, विनयतथ्यं द्विचत्वारिंशद्भेदभिन्ने विनये ज्ञानदर्शनचारित्रतपऔपचारिकरूपे यथायोगमनुष्ठानं, ज्ञानादीनां तु वितथाऽऽ सेवनेनातथ्यमिति । अत्र च भावतथ्येनाधिकारः, यदिवा भावतथ्यं प्रशस्ताप्रशस्तभेदाद्दिधा, तदिह प्रशस्तेनाधिकारं दर्शयितुमाह -
Jain Education International
नि. [१२४] जह सुत्तं तह अत्थो चरणं चारो तहत्ति नायव्वं । संतंभि (य) पसंसाए असती पगयं दुर्गुछाए ।
For Private & Personal Use Only
www.jainelibrary.org