SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः - १, अध्ययनं-१२, २४९ कारणत्वकल्पनेऽतिप्रसङ्गः स्यात्, अण्डजोद्भिजाङ्कुरादीनामप्यन्यत एवोत्पत्तिर्भवन्ती समुपलक्ष्यते, तदेवं व्यवस्थिते प्रधनमहदहकारादिकोत्पत्तिर्या सांख्यैः स्वप्रक्रिययाऽऽभ्युपगम्यते तत्तैर्नियुक्ति कमेव स्वदर्शनानुरागेणाभ्युपगम्यत इति। आत्मनश्चाकर्तृत्वाभ्युपगमे कृतनाशोऽकृतागमश्च स्यात् बन्धमोक्षाभावश्च, निर्गुणत्वेच ज्ञानशून्यतापत्तिरित्यतो बालप्रलापमात्रं, प्रकृतेश्चाचेतनाया आत्मार्थं प्रवृत्तियुक्तिविकलेति अथ बौद्धमतं निरूप्यतेतत्र हि पदार्था द्वादशायतनानि, तद्यथा-चक्षुरादीनि पञ्च रूपादयश्च विषयाः पञ्च शब्दायतनं धर्मायतनं च, धर्माः-सुखादयो द्वादशायतनपरिच्छेदके प्रत्यक्षानुमाने द्वे एव प्रमाणे, तत्र चक्षुरादी न्द्रियाण्यजीवग्रहणेनैवोपात्तानि, भावेन्द्रियाणि तु जीवग्रहणेनेति, रूपादयश्च विषया अजीवोपादानेनोपात्ता न पृथगुपादातव्याः, शब्दायतनं तु पौद्गलिकत्वाच्छब्दस्याजीवग्रहणेन गृहीतं, न च प्रतिव्यक्ति पृथकपदार्थता युक्तिसंगतेति, धर्मात्मकं सुखंदुःखं चयद्यसातोदयरूपंततोजीवगुणत्वाज्जीवेऽन्तर्भावः, अथ तत्कारणंकर्मततः पौद्गलिकत्वादजीव इति। प्रत्यक्षंचतेर्निर्विकल्पकमिष्यते, तच्चानिश्चयात्मकतयाप्रवृत्तिनिवृत्त्योरनङ्गमित्यप्रमाणमेव, तदप्रामाण्ये तत्पूर्वकत्वादनुमानमपीति, शेषस्त्वाक्षेपपरिहारोऽन्यत्र सुविचारित इतिनेह प्रतन्यत इत्यनया दिशा मीमांसकलोकायतमताभिहितत्त्वनिराकरणस्वबुद्धया विधेयं, तयोरत्यन्तलोकविरुद्धपदार्थानां श्रयणान्न साक्षादुपन्यासः कृत इति । तस्मात्पारिशेष्यसिद्धा अर्हदुक्ता नव सप्तवा पदार्था सत्याः तत्परिज्ञानं च क्रियावादे हेतुः नापरपदार्थपरिज्ञानमिति ॥ मू. (५५६) सद्देसुरूवेसु असज्जमाणो, गंधेसु रसेसु अदुस्समाणे । नो जीवितं नो मरणाहिकंखी, आयाणगुत्ते वलया विमुक्के ।।-तिबेमि। वृ. साम्प्रतमध्ययनार्थमुपसंजिहीर्षु सम्यग्वादपरिज्ञानफलामादर्शयन्नाह-'शब्देषु' वेणुवीणादिषुश्रुतिसुखदेषु 'रूपेषुच' नयनानन्दकारिषु 'आसङ्गमकुर्वन्' गाय॑मकुर्वाणः, अनेन रागोगृहीतः, तथा गन्धेषु' कुथितकलेवरादिषु 'रसेषुच' अन्तप्रान्ताशनादिषुअदुष्यमाणोऽमनोज्ञेषु द्वेषमकुर्वन्, इदमुक्तं भवति शब्दादिष्विन्त्रियविषयेषु मनोज्ञेतरेषु रागद्वेषाभ्यामनपदिश्यमानो 'जीवितम्' असंयमजीवितं नामिकाङक्षेत्, नापि परीषहोपसर्गरभिद्रुतो मरणमभिकाङेक्षेत्, यदिवा जीवितमरण-योरनभिलाषी संयममनुपालयेदिति ।तथा मोक्षार्थिनाऽऽदीयते गृह्यत इत्यादानंसंयमस्तेन तस्मिन्वा सति गुप्तो, यदिवा-मिथ्यात्वादिनाऽऽदीयते इत्यादनम्-अष्टप्रकारं कर्म तस्मिन्नादातव्ये मनोवाक्कायैर्गुप्तः समितश्च, तथा भाववलयं-माया तया विमुक्तो मायामुक्तः । इति परिसमाप्तयर्थे । ब्रवीमीति पूर्ववत् । नयाः पूर्ववदेव । अध्ययन-१२ समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता शीलाझाचार्य विरचिता प्रथमश्रुतस्कन्धस्य द्वादशमध्ययनटीका परिसमाप्ता । (अध्ययनं-१३ "याथातथ्यं") वृ. समाप्तं समवसरणाख्यं द्वादशमध्ययनं, तदनन्तरं त्रयोदशमारभ्यते, अस्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy