________________
२४८
सूत्रकृताङ्ग सूत्रम् १/१२/-/५५५
एव सत्प्रत्ययो भविष्यति किं तया ?, असत्पक्षे तु शशविषाणादिष्वपि सत्तायोगात्सप्रत्ययः स्यादिति, तथा चोक्तम्॥१॥ "स्वतोऽर्था सन्तु सत्तावत्सत्तया किं सदात्मनाम् ? ।
असदात्मसु नैषा स्यात्सर्वथाऽतिप्रसङ्गतः ॥ इत्यादि । एतदेवदूषणमपरसामान्येऽप्यायोजयं, तुल्ययोगक्षेमत्वात्। किञ्च-अस्माभिरपि सामान्यविशेषरूपत्वाद्वस्तुनः कथञ्चित्तदिष्यतएवेति, तस्यचकथञ्चित्तदव्यतिरेकाद्रव्यग्रहणेनैव ग्रहणमिति । अथ विशेषाः, ते चात्यन्यव्यावृत्तिबुद्धिहेतुत्वेन परैराश्रीयन्ते, तत्रेदं चिन्त्यते या तेषु विशेषबुद्धि सा नापरविशेषहेतुकाऽऽश्रयिततव्या, अनवस्थाभयात्, स्वतः समाश्रयणेच तद्वद् द्रव्यादिष्वपि विशेषबुद्धि स्यात्किं द्रव्यादिव्यतिरिक्तैर्विशेषैरिति ?, द्रव्याव्यतिरिक्तास्तु विशेषाअस्माभिरप्याश्रीयन्ते, सर्वस्य सामान्यविशेषात्मकत्वादिति। एतत्तुप्रक्रियामात्रं, तद्यथानित्यद्रव्यवृत्तयोऽन्त्या विशेषाः, नित्यद्रव्याणिचचतुर्विधाः परमाणवो मुक्तात्मानो मुक्तमनांसि च, इति नियुक्तिकत्वादपकर्णयितव्यमिति।
समवायस्तु-अयुतसिद्धानामाधाराधेयभूतानां य इह प्रत्ययहेतुः स समवाय इत्युच्यते, असावपि नित्यश्चैकश्चाश्रीयते, तस्य च नित्यत्वात्समवायिनोऽपि नित्याआपघेरन्, तदनित्यत्वे च तस्याप्यनित्यत्वापत्तिः, तदाधाररूपत्वात्तस्य, तदेकत्वाच्च सर्वेषां समवायिनामेकत्वापत्ति, तस्यचानेकत्वमिति।किञ्च-अयंसमवायःसम्बन्धः, तस्यच द्विष्ठत्वादयुतसिद्धत्वमेव दण्डदण्डिनोरिव, वीरणानांचकटोत्पत्तौ तद्रूपतया विनाशः कटरूपतयोत्पत्तिरनवयरूपतया व्यवस्थानमिति दुग्धदघ्नोरिवेत्येवं वैशेषिकमतेऽपि न सम्यक् पदार्थावस्थितिरिति ।
साम्प्रतंसाङ्ख्यदर्शनतत्त्वनिरूपणंप्रक्रम्यते-तत्रप्रकृत्यात्मसंयोगात्सृष्टिरुपजायते, प्रकृतिश्च सत्त्वरजस्तमसां साम्यावस्था ततोमहान्महतोऽहङ्कारः अहङ्कारादेकादशेन्द्रियाणिपञ्चतन्मात्राणि तन्मात्रेभ्यः पञ्च भूतानीति, चैतन्यं पुरुषस्य स्वरूपं, सचाकर्ता निर्गुणो भोक्तेति । तत्र परस्परविरुद्धानां सत्त्वादीनां गुणानां प्रकृत्यात्मनां नियामकं गुणिनमन्तरेणैकत्रावस्थानं न युज्यते, कृष्ण-सितादिगुणानामिव, नच महदादिविकारेजन्ये प्रकृतिवैषम्योत्पादने कश्चिद्धेतुः, तद्व्यतिरिक्त-वस्त्वन्तरानभ्युपगमाद्, आत्मनश्चाकर्तृत्वेनाकिश्चित्करत्वात्, स्वभाववैषभ्याभ्युपगमे तु निर्हेतुकत्वापत्तेर्नित्यं सत्त्वमसत्त्वं वा स्यादिति, उक्तंच॥१॥ “नित्यं सत्त्वमसत्त्वं वाऽहेतोरन्यानपेक्षणात् ।
अपेक्षातो हि भावानां, कादाचित्कत्वसंभवः॥ अपिच-महदहङ्कारौ संवेदनादभिन्नौ पश्यामः, तथाहि-बुद्धिरध्यवसायोऽहङ्कारश्चाहं सुख्यह दुःखीत्येवमात्मकः प्रत्ययः, तयोश्चिद्रूपतयाऽऽत्मगुणत्वं, न जडरूपायाः प्रकृतेर्विकारावेताविति अपिच-येयं तन्मात्रेभ्यो भूतोत्पत्तिरिष्यते, तद्यथा-गन्धतन्मात्रात्पृथिवी रसतन्मात्रादापः रूपतन्मात्रात्तेजः स्पर्शतन्मात्राद्वायुः शब्दतन्मात्रादाकाशमिति, साऽपिन युक्तिक्षमा, यतोयदिबाह्यभूताश्रयेणैतदभिधीयते, तदयुक्तं, तेषां सर्वदा भावात्, न कदाचिदनीशंजगदितिकृत्वा, अथ प्रतिशरीराश्रयणादेतदुच्यते, तत्र किल त्वगस्थि कठिनलक्षणा पृथ्वी श्लेष्मासृगद्रवलक्षणाआपःपक्तिलक्षणं तेजः प्राणापानलक्षणो वायुः शुषिरलक्षणामाकाशमिति, तदपि न युज्यते, यतोऽत्रापि केषाञ्चिच्छरीराणां शुक्रासृकप्रभवोत्पत्ति, नतत्र तन्मात्राणांगन्धोऽपि समुपलक्ष्यते, अष्टस्यापि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org