SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ २५५ श्रुतस्कन्धः - १, अध्ययनं-१३, मू. (५६३) से पेसले सुहुमे पुरिसजाए, जञ्चन्निए चेव सुउज्जुयारे । बहुपि अनुसासिएजे तहच्चा, समे हु से होइ अझंझपत्ते ॥ वृ. पुनरपि सद्गुणोत्कीर्तनायाह-यो हि कटुसंसारोद्विग्नः क्वचित्प्रमादस्खलिते सत्याचार्यादिना बह्वपि 'अनुशास्यमानः' चोद्यमानस्तथैव-सन्मार्गानुसारिण्यर्चा-लेश्या चित्तवृत्तिर्यस्य स भवति तथार्चः, यश्चशिक्षांग्राह्यमाणोऽपितथा! भवति स 'पेशलो' मिष्टवाक्यो विनयादिगुणसमन्वितः 'सूक्ष्मः' सूक्ष्मदर्शित्वात्सूक्ष्मभाषित्वाद्वा सूक्ष्मः ‘स एव पुरुषजातः' स एव परमार्थतः पुरुषार्थकारीनापरोयोऽनायुधतपस्विजनपराजितेनापिक्रोधेनजीयते, तथाऽसावेव 'जात्यन्वितः' सुकुलोत्पन्नः, सच्छीलान्वितो हि कुलीन इत्युच्यते, न सुकुलोत्पत्तिमात्रेण तथासएवसुष्टु-अतिशयेनऋजुः-संयमस्तत्करणशीलः-ऋजुकरः, यदिवा ‘उज्जुचारे'त्ति यथोपदेशंयःप्रवर्ततेन तुपुनर्वक्रतयाऽचार्यादिवचनं विलोमयति-प्रतिकूलयति, यश्च तथार्चःपेशलः सूक्ष्मभाषी जात्यादिगुणान्वितः क्वचिदवक्रः ‘समो' मध्यस्थो निन्दायां पूजायां च न रुष्यति नापितुष्यतितथा अझंझा-अक्रोधोऽमायावा तांप्राप्तोऽझंझाप्राप्तः, यदिवाऽझंझाप्राप्तैःवीतरागैः ‘समः' तुल्यो भवतीति ।। मू. (५६४) जे आवि अप्पं वसुमंतिमत्ता, संखाय वायं अपरिक्ख कुज्जा । तवेण वाहं सहिउत्तिमत्ता, अन्नं जणं पस्सति बिंबभूयं । व.प्रायस्तपस्विनां ज्ञानतपोऽवलेपो भवतीत्यतस्तमधिकृत्याह-यश्चापिकश्चिल्लघुप्रकृतिरल्पतयाऽऽत्मानं वसु-द्रव्यं तच्च परमार्थचिन्तायां संयमस्तद्वन्तमात्मानंमत्वाऽहमेवात्र संयमवान् मूलोत्तरगुणानां सम्यग्विधायी नापरः कश्चिन्मत्तुल्योऽस्तीति, तथा संख्यायन्ते-परिच्छिद्यन्ते जीवादयः पदार्था येन तज्ज्ञानं संख्येत्युच्यते तद्वन्तमात्मानं मत्वा तथा सम्यक्-परमार्थमपरीक्ष्यात्मोत्कर्षवादं कुर्यात्।। तथा तपसा-द्वादशभेदभिन्नेनाहमेवात्र सहितो-युक्तो न मत्तुल्यो विकृष्टतपोनिष्टप्तदेहोऽस्तीत्येवं मत्वाऽऽत्मोत्कर्षाभिमानीति अन्यंजनं' साधुलोकं गृहस्थलोकंवा 'बिम्बभूतं' जलचन्द्रवत्तदर्थशून्यं कूटकार्षापणवद्वालिङ्गमात्रधारिणंपुरुषाकृतिमात्रं वा ‘पश्यति' अवमन्यते तदेवं यद्यन्मदस्थानं जात्यादिकं तत्तदात्मन्येवारोप्यापरमवधूतं पश्यतीति किञ्चान्यत्मू. (५६५) एगंतकूडेण उ से पलेइ, न विज्जती मोनपयंसि गोत्ते । जे माणणद्वेण विउक्क सेज्जा, वसुमन्नतरेण अबुज्झमाणे ॥ वृ. कूटवत्कूटं यथा कूटेन मृगादिर्बद्धः परवशः सन्नेकान्तदुःखभाग्भवति एवं भावकूटेन स्नेहमयेनैकान्ततोऽसौ संसारचक्रवालं पर्येति तत्र वा प्रकर्षण लीयते प्रलीयते-अनेकप्रकारं संसारंबंभ्रमीति, तुशब्दात्कामादिना वा मोहेन मोहितो बहुवेदने संसारे प्रलीयते, यश्चैवंभूतोऽसौ 'न विद्यते' न कदाचन संभवति मुनीनामिदं मौनं तच्च तत्पदं च मौनपदं-संयमस्तत्र मौनीन्द्रे वा पदे सर्वज्ञप्रणीतमार्गे नासौ विद्यते, सर्वज्ञमतमेव विशिनष्टि-गां-वाचं त्रायते-अर्थाविसंवादनतः पालय-तीतिगोत्रंतस्मिन् समस्तागमाधारभूत इत्यर्थः । उच्चैौत्रेवा वर्तमानस्तदभिमानग्रहग्रस्तो मौनीन्द्रपदे न वर्तते, यश्च माननं-पूजनं सत्कारस्तेनार्थः-प्रयोजनं तेन माननार्धेन विविधमुत्कर्षयेदात्मानं, यो हि माननार्थेन-लाभपूजासत्कारादिना मदं कुर्यान्नासौ सर्वज्ञपदे विद्यत इति पूर्वेण संबन्धः, तथा वसु-द्रव्यं तच्चेह संयमस्तमादाय तथाऽन्यतरेण ज्ञानादिना मदस्थानेन ___www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy