SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ २४५ श्रुतस्कन्धः - १, अध्ययनं-१२, जीवाजीवग्रहणेनोक्तमस्माभिरिति । उपयोगो बुद्धिरित्येतच ज्ञानविशेषः, सचजीवगुणतया जीवोपादानतयोपात्त एव । सर्वविषयमन्तःकरणं युगपज्ज्ञानानुत्पत्तिलिङ्गमनः, तदपि द्रव्यमनः पौद्गलिकमजीवग्रहणेन गृहीतं, भावमनस्त्वात्मगुणत्वाज्जीवग्रहणेनेति । आत्मनः सुखदुःखसंवेदनानांनिर्वर्तनकारणंप्रवृत्तिः, सापिपृथपदार्थतया नाभ्युपगन्तुंयुक्ता, तथाहि प्रवृत्तिरित्यात्मेच्छा, सा चात्मगुण एव, आत्माऽभिप्रायतया ज्ञानविशेषत्वाद् आत्मानंदू इषयतीति दोषः, तद्यथा अस्यात्मनोनेदं शरीरपूर्वम्, अनादित्वादस्यनाप्यनुत्तरम्अनन्तत्वात्सन्ततेरितियोऽयमात्मनोऽध्यवसायः स दोषो, रागद्वेषमोहादिको वा दोषः, अयमपि दोषो जीवाभिप्रायतया तदन्तर्भावीतिन पृथग्वाच्यः प्रेत्यभावः-परलोकसद्भावोऽयमपिससाधनोजीवाजीवग्रहणेनोपात्तः, फलमपि-सुखःदुखोपभोगात्मकं,तदपिजीवगुण एतान्तर्भवतीतिनपृथगुपदेष्टव्यमिति, दुःखमित्येतदपिविविधबाधनयोगरूपमिति नफलादतिरिच्यते, जन्ममरणप्रबन्धोच्छेदरूपतया सर्वदुःखप्रहाणलक्षणो मोक्षः, स चास्माभिरुपात्त एवेति । किमित्यनवधारणात्मकः प्रत्ययः संशयः, असावपि निर्णयज्ञानवदात्मगुण एवेति, येन प्रयुक्तः प्रवर्तते तत्प्रयोजनं, तदपीच्छाविशेषत्वादात्मगुण एव, अविप्रतिपत्तिविषया-पन्नोऽर्थो दृष्टान्तः, असावपिजीवाजीवयोरन्यतरः,नचौतावताऽस्य पृथक्पदार्थता युक्ता, अतिप्रसङ्गाद्, अवयवग्रहणेन च तस्योत्तरत्र ग्रहणादिति। सिद्धान्तश्चतुर्विधः, तद्यथा-सर्वतन्त्राविरुद्धस्तन्त्रेऽधिकृतोऽर्थसर्वतन्त्रसिद्धान्तः १, यथा स्पर्शनादीनीन्द्रियाणि पशादय इन्द्रियार्थाः प्रमाणैः प्रमेयस्य ग्रहणमिति १, समानतन्त्रसिद्धः परतन्त्रासिद्धः प्रतितन्त्रसिद्धान्तो यथा साङ्ख्यानां नासत आत्मलाभो न च सतः सर्वथा विनाश इति, तथाचोक्तम्-“नासतोजायतेभावो, नाभावोजायतेसतः" इति२, यत्सिद्धावन्यस्यार्थस्यानुषङ्गेण सिद्धि सोऽधिकरणसिद्धान्तः३, यतेन्द्रियव्यतिरिक्तोज्ञाताऽऽत्माऽस्ति दर्शनस्पर्शनाभ्यामेकार्थग्रहणादिति, तत्रानुषङ्गिणोऽर्था १ इन्द्रियनानात्वं २ नियतविषयाणीन्द्रियाणि ३ स्वविषयग्रहणलिङ्गानि च ४ ज्ञातुर्ज्ञानसाधनानि ५ स्पर्शादिगुणव्यतिरिक्तं द्रव्यं ६गुणाधिकरण ७ मनियतविषयाश्चेतनाः ८ इति, पूर्वार्थसिद्धावेतेऽर्था सिध्यन्ति, नैतैर्विना पूर्वार्थ संभवतीति ३, अपरीक्षितार्थाभ्युपगमात्तद्विशेषपरीक्षणमभ्युपगमसिद्धान्तः ४, तद्यथा, किंशब्द इति विचारे कश्चिदाह-अस्तुद्रव्यं शब्दः, सतु किं नित्योऽथानित्यः?, इत्येवं विचारः,सचायं चतुर्विधोऽपि सिद्धान्तो न ज्ञानविशेषादतिरिच्यते, ज्ञानविशेषस्यात्मगुणत्वाद्गुणस्य च गुणिग्रहणेन ग्रहणाद् न पृथगुपादानमिति ४। __ अथावयवाः-प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि, तत्र साध्यनिर्देशः प्रतिज्ञा, यथा नित्यः शब्दोऽनित्यो वेति, हिनोति-गमयति प्रतिज्ञातमर्थमिति हेतुः, तद्यथा-उत्पत्तिधर्मकत्वात्, साध्यसाधर्म्यवैधर्म्यभावे दृष्टान्तः उदाहरणं, यथा घट इति, वैधर्योदाहरणं यदनित्यं न भवति तदुत्पत्तिमदपि न भवति यथाऽऽकाशमिति, तथान तथेति वा पक्षधर्मोपसंहार उपनयः, तद्यथाअनित्यः शब्दः कृतकत्वाद्घटवत्तथा चायं, अनित्यत्वाभावे कृतकत्वमपिन भवत्याकाशवत् न तथाऽयमिति, प्रतिज्ञाहेत्वोः पुनर्वचनं निगमनं, तस्मादनित्य इति, ते चामी पञ्चाप्यवयवा यदि शब्दमानंततः शब्दस्य पौद्गिलकत्वात्पुद्गलानांचाजीवग्रहणेन ग्रहणान पृथगुपादानं न्याय्यम्, ___www.jainelibrary.org Jain Education International For Private & Personal Use Only www.la
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy