________________
२४६
सूत्रकृताङ्ग सूत्रम् १/१२/-/५५५
अथ तज्जं ज्ञानं ततो जीवगुणत्वात् जीवग्रहणेनैवोपादानमिति, ज्ञानविशेषपदार्थताऽ- भ्युपगमे च पदार्थबहुत्वं स्याद्, अनेकप्रकारत्वाज्ज्ञानविशेषणामिति ।
संशयादूर्ध्व भवितव्यताप्रत्ययः सदर्थपर्यालोचनात्मकस्तर्क, यथा भवितव्यमत्र स्थाणुना पुरुषेणवेति, अयमपि ज्ञानविशेष एव, नचज्ञानविशेषाणांज्ञातुरभिन्नानांपृथक्पदार्थपरिकल्पनं समनुजानते विद्वांसः । संशयतर्काभ्यामुत्तरकालभावी निश्चयात्मकः प्रत्ययो निर्णयः, अयमपि प्राग्वन्न ज्ञानादतिरिच्यते, किञ्च-अस्य निश्चयात्मकतयाप्रत्यक्षादिप्रमाणान्तर्भावान्न पृथगनिर्देशो न्याय्य इति।तिनः कथाः-वादो जल्पो वितण्डाचेति, तत्र प्रमाणतर्कसाधनोपालम्भः सिद्धान्ताविरुद्धः पञ्चावयवोपपन्नः पक्षप्रतिपक्षपरिग्रहो वादः, स च तत्त्वज्ञानार्थं : शिष्याचार्ययोर्भवति, सएवविजिगीषुणा सार्धंछलजातिनिग्रहस्थानसाधनोपालम्भोजल्पः, स एव प्रतिपक्षस्थापनाहीनो वितण्डेति, तत्रासां तिसृणामपि कथानां भेद एव नोपपद्यते, यतस्तत्त्वचिन्तायां तत्त्वनिर्णयार्य वादो विधेयो, न छलजल्पादिना तत्त्वावगमः कर्तुपार्यते, छलादिकं हि परवञ्चनार्थमुपन्यस्यते, न च तेन तत्त्वावगति इतिः सत्यपि भेदे नैवासां पदार्थता, यतो यदेव परमार्थतो वस्तुवृत्त्या वस्त्वस्तितदेव परमार्थतयाऽभ्युपगन्तुंयुक्तम्, वादास्तु पुरुषेच्छावशेन भवन्तोऽनियता वर्तन्ते नतेषांपदार्थतति किञ्च-पुरुषेच्छानुविधायिनोवादाः कुक्कुटलावकादिष्वपि पक्षप्रतिपक्षपरिग्रहेण भवन्त्यतस्तेषामपि तत्त्वप्राप्ति स्यान्न चैतदिष्यत इति ।
___असिद्धानैकान्तिकविरुद्धा हेत्वाभासाः, हेतुवदाभासन्त इतिहेत्वाभासाः, तत्रसम्यग्धेतूनामपि न तत्त्वव्यवस्थितिः किं पुनस्तदाभासानां?, तथाहि-इह यनियतं वस्त्वस्ति तदेव तत्त्वं भवितुमर्हति, हेतवस्तुक्क चिद्वस्तुनिसाध्ये हेतवः क्वचिदहेतव इत्यनियतास्त इति । अथ छलम्' अर्थविघातोऽर्थविकल्पोपपत्त्येति, तत्रार्थविशेषे विवक्षितेऽभिहितेवक्तुरभिप्रायादर्थान्तरकल्पना वाकछलं, यथा नवःकम्बलोऽयं देवदत्तः, अत्रच नवः कम्बलोऽस्येति वक्तुरभिप्रायो विग्रहे च विशेषो न समासे, तत्रायं छलवादी नव कम्बला अस्येत्येतद्भवताऽभिहितमिति कल्पयति, न चायं तथेत्येवं प्रतिषेधयति, तत्र छलमित्यसदर्थाभिधानं, तद्यदि छलं न तर्हि तत्त्वं, तत्त्वं चेन्न तर्हि छलं, परमार्थरूपत्वात्तत्त्वस्येति, तदेवं छलं तत्त्वमित्यतिरिक्ता वाचोयुक्तिः।
दूषणाभासास्तुजातयः, तत्रसम्यग्दूषणस्यापिनतत्त्वव्यवस्थिति, अनियतत्वात्, अनियतत्त्वंच यदेवैकस्मिन् सम्यगदूषणंतदेवान्यत्रदूषणाभासं, पुरुषशक्त्यपेक्षत्वाच्च दूषणदूषणाभासव्यवस्थितेरनियतत्वमिति कुतः पुनर्दूषणाभासरूपाणांजातीनाम् ?,अवास्तवत्त्वात्तासामिति। वादकालेवादीप्रतिवादीवायेन निगृह्यतेतन्निग्रहस्थानं, तचवादिनोऽसाधनाङ्गवचनंप्रतिवादिनस्त दोषोद्भावनं विहाय यदन्यदभिधीयतेनैयायिकैस्तत्प्रलापमात्रमिति, तच्च प्रतिज्ञाहानिः प्रतिज्ञान्तरं प्रतिज्ञाविरोधइत्यादिकम्, एतच्च विचार्यमाणंननिग्रहस्थानं भवितुमर्हति,भवदपिच पुरुषस्यैवापराधकर्तुमलं, नत्वेतत्तत्वं भवितुमर्हति, वक्तृगुणदोषौ हि परार्थेऽनुमानेऽधिक्रि येतेनतुतत्त्वमिति, तदेवंन नैयायिकोक्तंतत्त्वंतत्त्वेनाश्रयितुंयुज्यते, तस्योक्तनीत्या सदोषत्वादिति।नापि वैशेषिकोक्तं तत्त्वमिति, तथाहि-द्रव्यगुणकर्मसामान्यविशेषसमवायास्तत्त्वमिति, तत्रपृथिव्यप्तेजोवायुराकाशं कालोदिगात्मामन इति नव द्रव्याणि, तदत्रपृथिव्यप्तेजोवायूनांपृथग्द्रव्यत्वमनुपपन्नं, तथाहि-त एव परमाणवः प्रयोगविसम्माभ्यां पृथिव्यादित्वेन परिणमन्तोऽपि न स्वकीयं द्रव्यत्वं त्यजन्ति, न चावस्थाभेदेन द्रव्यभेदो युक्तः, अतिप्रसङ्गादिति ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org