________________
सूत्रकृताङ्ग सूत्रम् १/१२/-/५५५ स्वभावोपदर्शनं कृतं तथाऽऽश्रवसंवरी स्वरूपेणैवोपात्तौ, दुःखमित्यनेन तु बन्धपुण्यपापानि गृहीतानि, तदविनाभावित्वाद्दुःखस्य, निर्जरायास्तु स्वाभिधानेनैवोपादानं, तत्फलभूतसय च मोक्षस्योपादानं द्रष्टव्यमिति, तदेवमेतावन्त एव पदार्थास्तदभ्युपगमेन चास्तीत्यादिकः क्रियावादोऽभ्युपगतो भवतीति, यश्चैतान् पदार्थान् 'जानाति' अभ्युपगच्छति स परमार्थतः क्रियावादं जानाति
ननु चापरदर्शनोक्तपदार्थपरिज्ञानेन सम्यकग्वादित्वं कस्मान्नाभ्युपगम्यते ?, तदुक्तपदार्थानामेवाघटमानत्वात्, तथाहि नैयायिकदर्शनेन तावत्प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवादजल्पवितण्डाहेत्वाभासच्छलजातिनिग्रहस्थानानीत्येते षोडश पदार्था अभिहिताः, तत्र हेयोपादेय प्रवृत्तिरूपतया येन पदार्थपरिच्छित्तिः क्रियते तठप्रमीयतेऽनेनेति प्रमाणं तच्च प्रत्यक्षानुमानोपमानशाब्दभेदाच्चतुर्द्धा, तत्रेन्दियार्थसंनिकर्षोत्पन्नं ज्ञानमव्यपदेश्यमव्यभिचारि व्यवसायात्मकं प्रत्यक्षं, तदत्रेन्द्रियार्थयोर्यः संबन्धस्तस्माद्यदुत्पन्नं, नाभिव्यक्तं, ज्ञानं, नसुखादिकम्, अव्यपदेश्यमिति व्यपदेश्यत्वे शाब्दप्राप्तेः, अव्यभिचारि तद्विद्विचन्द्रज्ञानवद्यभिचरतीति, व्यवसायात्मकमिति निश्चयात्मकं प्रत्यक्षं, तत्रास्य प्रत्यक्षता न बुध्यते, तथाहि यत्रात्माऽर्थग्रहणं प्रति साक्षाद्व्याप्रियते तदेव प्रत्यक्षं, तच्चावधिमनः पर्यायकेवलात्मकम् एतच्चापरोपाधिद्वारेण प्रकृतेरनुमानवत्परोक्षमिति, उपचारप्रत्यक्षं तु स्यात्, न चोपचारस्तत्त्वचिन्तायां व्याप्रियत इति ।
अनुमानमपि पूर्ववच्छेषवत्सामान्यतोदृष्टमिति त्रिधा, तत्र कारणात्कार्यानुमानं पूर्ववत् कार्यात्कारणानुमानं शेषवत् सामान्यतोदृष्टं तु चूतमेकं विकसितं दृष्ट्वा पुष्पिताश्चता जगतीति यदिवा देवदत्तादौ गतिपूर्विकां स्थानात् स्थानन्तरावाप्तिं दृष्ट्वा ऽऽदित्येऽपि गत्यनुमानमिति, तत्राप्यन्यथानुपपत्तिरेव गमिका, न कारणादिकं, तया विना कारणस्य कार्यं प्रति व्यभिचारात्, यत्र तु सा विद्यते तत्र कार्यकारणादिव्यतिरेकेणापि गम्यगमकभावो दृष्टः, तद्यथा- भविष्यति शकटोदयः, कृत्तिकादर्शनादिति, तदुक्तम्
॥१॥
२४४
"अन्यथाऽनुपपन्नत्वं, यत्र तत्र त्रयेण किम् ? ।
नान्यथाऽनुपपन्नत्वं यत्र तत्र त्रयेण किम् ? ॥
अपिच- प्रत्यक्षस्याप्रामाण्ये तत्पूर्वकस्यानुमानस्याप्रामाण्यमिति । प्रसिद्धसाधर्म्यासाध्यसाधनमुपमानं, यथा गौर्गवयस्तथा, अत्र च सज्ज्ञासञ्ज्ञि संबन्धप्रतिपत्तिरुपमानार्थः, अत्रापि सिद्धायामन्यथाऽनुपपत्तावनुमानलक्षणत्वेन तत्रैवान्तर्भावात्पृथकप्रमाणत्वमनुपपन्नमेव, अथ नास्त्यनुपपत्तिस्ततो व्यचिचारादप्रमाणतोपमानस्य । शाब्दमपि न सर्व प्रमाणं, किं तर्हि ?, आप्तप्रणीतस्यैवागमस्य प्रामाण्यं, न चार्हद्व्यतिरेकेणापरस्याप्तता युक्तियुक्तेति एतच्चान्यत्र निर्लोठितमिति । किञ्च-सर्वमप्येतत्त्पमाणमात्मनो ज्ञानं ज्ञानं चात्मनोगुणः पृथक्पदार्थतयाऽभ्युपगन्तुं न युक्तो, रूपरसादीनामपि पृथक्पदार्थताऽऽपत्तेः, अथ प्रमेयग्रहणेनेन्द्रियार्थतया तेऽप्याश्रिताः, सत्यमाश्रिताः, न तु युक्तियुक्ताः, तथाहि द्रव्यव्यतिरेकेण तेषामभावात् तद्ग्रहणे च तेषामपि ग्रहणं सिद्धमेवेति न युक्तं पृथगुपादानम् ।
प्रमेयं त्वात्मशरीरेन्द्रियार्थबुद्धिमनः प्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गाः, तत्रात्मा सर्वस्य द्रष्टपभोक्ता चे च्छाद्वेषप्रयनसुखदुःखज्ञानानुमेयः, स च जीवपदार्थतया गृहीत एवास्माभिरिति, शरीरं तु तस्य भोगायतनं, भोगायतनानीन्द्रियाणि, भोक्तव्या इन्द्रियार्थाः, एतदपि शरीरादिकं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org