SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः-१, अध्ययनं-१२, २४३ त्यादिक्रियावादं भाषितुमर्हतीति द्वितीयवृत्तस्यान्ते क्रिया। यश्च ‘लोकं' चराचरं वैशाखस्थानस्थकटिस्थकरयुग्मपुरुषाकारंचशब्दादलोकंचानन्ताकाशास्तिकायमानं जाना, यश्च जीवानाम् 'आगतिम्' आगमनं कुतः समागता नारकास्तिर्यञ्चो मनुष्या देवाः ? कैर्वा कर्मभिरिकादित्वेनोत्पद्यन्ते ? एवं यो जानाति, तथा 'अनागतिं च' अनागमनंच, कुत्र गतानां नागमनं भवति? चकरात्तद्गमनोपायंच सम्यग्दर्शनज्ञानचारितरात्मकं यो जानाति, तत्रानागति-सिद्धिरशेषकर्मच्युतिरूपा लोकाग्राकाशदेशस्थानरूपा वा ग्राह्या, सा च सादिरपर्यवसाना। यश्च 'शाश्वतं' नित्यं सर्ववस्तुजातं द्रव्यास्तिकनयाश्रयाद् 'अशाश्वतं' वाऽनित्यं प्रतिक्षणविनाशरूपं पर्यायनयाश्रयणात्, चकारान्नित्यानित्यं चोभयाकारं सर्वमपि वस्तुजातंयो जानाति, तथा ह्यागमः-'नेरइयादव्वट्ठयाए सासयाभावट्ठयाए असासया" एवमन्येऽपितिर्यगादयो द्रष्टव्याः ।अथवा निर्वाणं-शाश्वतं संसार:-अशाश्वतस्तद्गतानांसंसारिणां स्वकृत-कर्मवशगानामितश्चेतश्च गमनादिति। तथा 'जातिम्' उत्पत्तिं नारकतिर्यमनुष्यामरजन्मलक्षणां “मरणंच' आयुष्कक्षयलक्षणं, तथा जायन्त इति जनाः-सत्त्वास्तेषामुपपातं यो जानाति, स च नारकदेवयोर्भवतीति, अत्र च जन्मचिन्तायामसुमतामुत्पत्तिस्थानं योनिर्भणनीया, सा च सचित्ताऽचित्ता मिश्रा च तथा शीता उष्णा मिश्रा च तथा संवृता विवृता मिश्रा चेत्येवं सप्तविंसतिविधेति । ___ मरणं-पुनस्तिर्यमनुष्ययोः, च्यवनं-ज्योतिष्कवैमानिकानाम् उद्वर्तना-भवनपतिव्यन्तरनारकाणामिति किञ्चमू. (५५५) अहोऽवि सत्ताण विउट्टणं च, जो आसवं जाणति संवरं च । दुक्खं च जो जाणति निज्जरंच, सो भासिउमरिहइ किरियवाद ।। वृ. “सत्त्वानां' स्वकृ तकर्मफलभुजामधस्तानारकादौ दुष्कृतकर्मकारिणां विविधां विरूपां वा कुट्टनां-जातिजरामरणरोगशोककृतांशरीरपीडां, चशब्दात्तदभावोपायंयोजानाति, इदमुक्तं भवति-सर्वार्थसिद्धादारतोऽधःसप्तर्मी नरकभुवं यावदसुमन्तः सकर्माणो विवर्तन्ते, तत्रापि ये गुरुतरकर्माणस्तेऽप्रतिष्ठाननरकयायिनो भवन्तीत्येवं यो जानीते । तथा आश्रवत्यष्टप्रकारं कर्म येन सआश्रवः सच प्राणातिपातरूपोरागद्वेषरूपोवा मिथ्यादर्शनादिको वेतितंतथा 'संवरम्' आश्रवनिरोधरूप यावदशेषयोगनिरोधस्वभावं, चकारात्पुण्यपापेच योजानीते तथा 'दुःखम्' असातोदयरूपंतत्कारणं च यो जानाति 'सुखं च तद्विपर्ययभूतं यो जानाति, तपसा यो निर्जरां च, इदमुक्तं भवति । यः कर्मबन्धहेतून् तद्विपर्यासहेतूंश्च तुल्यतया जानाति, तथाहि॥१॥ यथाप्रकारा यावन्तः, संसारावेशहेतवः । तावन्तस्तद्विपर्यासा, निर्वाणावेशहेतवः ।। स एव परमार्थतो 'भाषितुं' वक्तुमर्हति, किं तद् ? इत्याह-क्रियावादम्, अस्तिजीवोऽस्ति पुण्यमस्ति पापमस्ति च पूर्वाचरितस्य कर्मणः फलमित्येवंरूपं वादमिति । तथाहि-जीवाजीवाश्रवसंवरबन्धपुण्यपापनिर्जरामोक्षरूपा नवापि पदार्था : श्लोकद्वयेनोपात्ताः, तत्र य आत्मानं जानातीत्यनेनजीवपदार्थः, लोकमित्यनेनाजीवपदार्थः, तथागत्यनागतिःशाश्वतेत्यादिनाऽनयोरेव Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy