SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ २४० सूत्रकृताङ्ग सूत्रम् १/१२/-/५४७ ग्रहणंच प्राधान्यख्यापनार्थं, तथा 'कायाः' पृथिवीकायादयः षडपि गृह्यन्त इति । पुनरन्येन प्रकारेण सत्त्वान्संजिधृक्षुराह-ये केचन 'आकाशगामिनः' संप्राप्ताकाशगमनलब्धयश्चतुर्विधदेवनिकायविद्याधरपक्षिवायवः, तथायेच पृथिव्याश्रिताः' पृथिव्यप्तेजोवनस्पतिद्वित्रिचतुष्पञ्चेन्द्रियास्ते सर्वेऽपि स्वकृतकर्मभिः पुनः पुनर्विविधम्-अनेकप्रकारं पर्यासंपरिक्षेपम-रहट्टघटीन्येन परिभ्रमणमुप-सामीप्येन यान्ति-गच्छन्तीति ॥ मू. (५४८) जमाहु ओहं सलिलं अपारगं, जाणाहिणं भवगहणं दुमोक्खं । जंसी विसन्ना विसयंगणाहिं, दुहओऽवि लोयं अनुसंचरंति ॥ वृ.किञ्चान्यत्-'यं' संसारसागरम्आहुः उक्तवन्तस्तीर्थकरगणधरादयस्तद्विदः, कथमाहुः -स्वयम्भूरमणसलिलौधवदपारं, यथा स्वयम्भूरमणसलिलौघोन केनचिज्जलचरेण स्थलचरेणवा लवयितुंशक्यते एवमयमपि संसारसागरः सम्यग्दर्शनमन्तरेण लवयितुं न शक्यत इति दर्शयति'जानीहि' अवगच्छणमिति वाक्यालङ्कारे, भवगहनमिदं-चतुरशीतियोनिलक्षप्रमाणं यथासम्भवं सङ्खयेयासङ्घयेयानन्तस्थितिकं दुःखेन मुच्यत इति दुर्मोक्षं-दुरुत्तरमस्तिवादिनामपि, किं पुनास्तिकानाम् ? पुनरपि, भवगहनोपलक्षितं संसारमेव विशिनष्टि। ___ 'यत्र' यस्मिन् संसारे सावद्यकर्मानुष्ठायिनः कुमार्गपतिता असत्समवसरणग्राहिणो 'विषण्णा' अवसक्ता विषयप्रधानाअङ्गना विषयाङ्गनास्ताभिः, यदिवा विषयाश्चाङ्गनाश्चविषयाङ्गनास्ताभिर्वशीकृताः सर्वत्रसदनुष्ठानेऽवसीदन्ति, तएवं विषयाङ्गनादिके पङ्केविषण्णा 'द्विधाऽपि' आकाशाश्रितंपृथिव्याश्रितंचलोकं, यदिवा स्थावरजङ्गमलोकं अनुसंचरन्ति' गच्छन्ति, यदिवा'द्विधाऽपि' इति लिङ्गमात्रप्रव्रज्ययाऽविरत्या रागद्वेषाभ्यां वा लोकं-चतुर्दशरज्ज्वात्मकं स्वकृतकमप्ररिता 'अनुसञ्चरन्ति' बम्भ्रम्यन्त इति । मू. (५४९) न कम्मुणा कम्म खति बाला, अकम्मुणा कम्म खति धीरा। मेघाविणो लोभमयावतीता, संतोसिणो नो पकरेंति पावं ॥ वृ.किञ्चान्यत्-तेएवमसत्समवसरणाश्रितामिथ्यात्वादिभिर्दोषैरभिभूताःसावद्येतरविशेषानभिज्ञाः सन्तः कर्मक्षपणार्थमभ्युद्यता निर्विवेकतया सावद्यमेव कर्म कुर्वते, न च 'कर्मणा' सावद्यारम्भेण 'कर्म' पापं 'क्षपयन्ति' व्यपनयन्ति, अज्ञानत्वाद्वाला इव बालास्त इति, यथा च कर्मक्षिप्यतेतथा दर्शयति-'अकर्मणातु आश्रवनिरोधेनतु अन्तशःशैलेश्यवस्थायांकर्मक्षपयन्ति 'वीराः' महासत्त्वाः सद्वैद्या इव चिकित्सयाऽऽमयानिति । मेधा-प्रज्ञा सा विद्यते येषां ते मेघाविनः-हिताहितप्राप्तिपरिहाराभिज्ञा लोभमयंपरिग्रहमेवातीताः परिग्रहातिक्रमाल्लोभातीताः-वीतरागाइत्यर्थः, सन्तोषिणः' येन केनचित्सन्तुष्टा अवीतरागा अपीति, यदिवा यत एवातीतलोभा अत एव सन्तोषिण इति, त एवंभूता भगवन्तः 'पापम्' असदनुष्ठानापादितं कर्म 'न कुर्वन्ति' नाददति । क्वचित्पाठः, लोभभयादतीता लोभश्चभयंचसमाहारद्वन्द्वः, लोभाद्वाभयंतस्मादतीताः सन्तोषिण इति, न पुनरुक्ताशङ्का विधेयेति, अतोलोभातीतत्वेनप्रतिषेधांशो दर्शितः, सन्तोषिण इत्यनेन च विध्यंश इति, यदिवा लोभातीतग्रहणेन समस्तलोभाभावः संतोषिण इत्यनेन तु सत्यप्यवीतरागत्वे नोत्कटलोभा इति लोभाभावं दर्शयन्नपरकषायेभ्यो लोभस्य प्राधान्यमाह, ये Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy