________________
श्रुतस्कन्धः - १, अध्ययनं-१२,
२४१
च लोभातीतास्तेऽवश्यं पापं न कुर्वन्ति इति स्थितम् ।। मू. (५५०) ते तीयउप्पन्नमणागयाइं, लोगस्स जाणंति तहागयाई ।
नेतारो अन्नेसि अनन्ननेया, बुद्धा हु ते अंतकडा भवंति ।। वृ.येचलोभातीतास्ते किम्भूता भवन्ति इत्याह-'ते' वीतरागाअल्पकषायावा 'लोकस्य' पञ्चास्तिकायात्मकस्य प्राणिलोकस्य वाऽतीतानि-अन्य-जन्माचरितानि उत्पन्नानि-वर्तमानावस्थायीनि अनागतानि-चभवान्तरभावीनि सुखदुःखादीनि 'तथागतानि यथैव स्थितानितथैव अवितथं जानन्ति, न विभङ्गज्ञानिन इव विपरीतं पश्यन्ति, तथाह्यागमः
“अनगारेणं भंते ! माई मिच्छादिट्ठी रायगिहनयरे समोहए वाणारसीए नयरीए रूवाई जाणइ पासइ?, जाव से से दंसणे विवज्जासे भवती" त्यादि, ते चातीतानागतवर्तमानज्ञानिनः प्रत्यक्षज्ञानिनश्चतुर्दशपूर्वविदो वा परोक्षज्ञानिनः 'अन्येषां संसारोत्तितीषूणां भव्यानां मोक्षप्रति नेतारः सदुपदेशंवा प्रत्युपदेष्टारोभवन्ति, नचते स्वयम्बूद्धत्वादन्येन नीयन्ते-तत्त्वावबोधंकार्यन्त इत्यनन्यनेयाः, हिताहितप्राप्तिपरिहारं प्रति नान्यस्तेषां नेता विद्यत इति भावः।
तेच 'बुद्धाः' स्वयंबुद्धास्तीर्थकरगणधरादयः, हुशब्दश्चशब्दार्थे विशेषणे वा, तथाच प्रदर्शित एव, तेच भवान्तकराः संसारोपादानभूतस्य वा कर्मणोऽन्तकरा भवन्तीति ।
यावदद्यापि भवान्तंन कुर्वन्ति तावप्रतिषेध्यमंशं दर्शयितुमाहमू. (५५१) ते नेव कुव्वंति न कारवंति, भूताहिसंकाइ दुगुंछमाणा।
सया जता विप्पनमंति धीरा, विण्णत्ति धीराय हवंति एगे। वृ. 'ते' प्रत्यक्षज्ञानिनः परोक्षज्ञानिनो वा विदितवेद्याः सावद्यमनुष्ठानं भूतोपमर्दाभिशङ्कया पापं कर्म जुगुप्समानाः सन्तोन स्वतः कुर्वन्ति, नाप्यन्येन कारयन्ति, कुर्वन्तमप्यपरं नानुमन्यन्ते तथा स्वतोन मृषावादंजल्पन्ति नान्येन जल्पयन्ति नाप्यपरंजल्पन्तमनुजानन्ति, एवमन्यान्यपि महाव्रतान्यायोज्यानीति । तदेवं 'सदा' सर्वकालं 'यताः' संयताः पापानुष्ठानान्निवृत्ता विविधंसंयमानुष्ठानं प्रति प्रणमन्ति' प्रह्वीभवन्ति ।
केते?-धीराः' महापुरुषाइति।तथैके केचन हेयोपादेयं विज्ञायापिशब्दात्सम्यकपरिज्ञाय तदेव निशङ्कं यज्जिनैः प्रवेदितमित्येवंकृतनिश्चयाः कर्मणि विदारयितव्ये वीरा भवन्ति, यदिवा परीषहोपसर्गानीकविजयाद्वीरा इति पाठान्तरं वा 'विण्णत्तिवीरा य भवंति एगे' 'एके' केचन गुरुकर्माणोऽल्पसत्त्वाः विज्ञप्तिज्ञानं, तन्मात्रेणैव वीर नानुष्ठानेन, न च ज्ञानादेवाभिलषितार्थावाप्तिरुपजायते, तथाहि॥१॥ “अधीत्य शास्त्राणि भवन्ति मूर्खा, यस्तु क्रियावान् पुरुषः स विद्वान् ।
संचिन्त्यतामौषधमातुरं हि, न ज्ञानमात्रेण करोत्यरोगम् ।। मू. (५५२) डहरे य पाणे वुड्ढे य पाणे, ते आत्तओ पासइ सव्वलोए।
उब्बेहती लोगमिणं महतं, बुद्धेऽपमत्तेसु परिव्वएज्जा। वृ. कानि पुनस्तानि भूतानि ? यच्छङ्कयाऽऽरम्भं जुगुप्सन्ति सन्त इत्येतदाशङ्कयाह-ये केचन 'डहरे'त्ति लघवः कुन्थ्वादयः सूक्ष्मावा, तेसर्वेऽपि प्राणाः-प्राणिनःयेच वृद्धाः-बादरशरी21
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org