SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः- १, अध्ययनं-१२, २३९ तथागताः-तीर्थकरत्वं केवलज्ञानंच गताः, 'श्रमणाः' साधवो 'ब्राह्मणाः' संयतासंयताः,लौकिकी वा वाचोयुक्तिः, किम्भूतास्त एवमाख्यान्तीति सम्बन्धः, तथा तथेति वा क्वचित्पाठः । यथासमाधिमार्गोव्यवस्थितस्तथा तथा कथयन्ति, एतच्च कथयन्ति-यथायत्किञ्चित्संसारान्तर्गतानामसुमतां दुःखम्-असातोदयस्वभावं, तप्रतिपक्षभूतं च सातोदयपादितंसुखं,तत्स्वयम्आत्मना कृतं, नान्येन कालेश्वरादिना कृतमिति, तथा चोक्तम्॥१॥ “सव्वो पुव्वकयाणं कम्माणं पावए फलविवागं। अवराहेसु गणेसुय निमित्तमित्तं परो होइ" एतच्चाहुस्तीर्थकरगणधरादयः, तद्यथा-विद्या-ज्ञानं चरणं-चारित्रं क्रिया तत्प्रधानो मोक्षस्तमुक्तवन्तो, न ज्ञानक्रियाभ्यां परस्परनिरपेक्षाभ्यामिति, तथा चोक्तम् - ॥१॥ “क्रियांच सज्ज्ञानवियोगनिष्फलां, क्रियाविहीनांच विबोधसम्पदम्। निरस्यता क्लेशसमूहशान्यते त्वया शिवायालिखितेव पद्धतिः॥ मू. (५४६) ते चक्खु लोगसिह नायगा उ, मग्गाणुसासंति हितं पयाणं । तहा तहा सासयमाहु लोए, जंसी पया माणव! संपगाढा ।। वृ. किञ्च-'ते' तीर्थकरगणधरादयोऽतिशयज्ञानिनोऽस्मिन् लोके चक्षुरिव चक्षुर्वर्तन्ते, यथा हि चक्षुर्योग्यदेशावस्थितान् पदार्थान् परिच्छिनत्ति एवं तेऽपि लोकस्य यथावस्थितपदार्थाविष्करणंकारयन्ति, तथाऽस्मिन्लोके ते नायकाः-प्रधानाः,तुशब्दोविशेषणे, सदुपदेशदानतो नायका इति, एतदेवाह-‘मार्ग' ज्ञानादिकं मोक्षमार्ग 'अनुशासति' कथवन्ति प्रजना-प्रजायन्त इति प्रजाः-प्राणिनस्तेषां, किम्भूतं?। हितं, सद्गतिप्रापकमनर्थनिवारकंच, किञ्च-चतुर्दशरज्ज्वात्मके लोके पञ्चास्तिकायात्मके वा येन येन प्रकारेण द्रव्यास्तिकनयाभिप्रायेण यद्वस्तु शाश्वतं तत्तथा 'त आहुः' उक्तवन्तः, यदिवा लोकोऽयं प्राणिगणः संसारान्तर्वर्ती यथा यथा शाश्वतो भवति तथा ततैवाहुः, तद्यथायथा यथा मिथ्यादर्शनाभिवृद्धिस्तथा तथा शाश्वतो लोकः, तथाहि-तत्र तीर्थकराहारकवाः सर्व एव कर्मबन्धाः सम्भाव्यन्त इति । तथाचमहारम्भादिभिश्चतुर्भिस्थानैर्जीवानरकायुष्कंयावनिवर्तयन्ति तावत्संसारानुच्छेद इति, अथवा यथा यथा रागद्वेषादिवृद्धिस्तता तथा संसारोऽपि शाश्वत इत्याहुः, यथा यथा च कर्मोपचयमात्रा तथातथैव संसारभिवृद्धिरिति। दुष्टमनोवाक्कायाभिवृद्धौ वा संसाराभिवृद्धिरवगन्तव्या, तदेवं संसारस्याभिवृद्धिर्भवति । 'यस्मिंश्च' संसारे, प्रजायन्त इति 'प्रजाः' जन्तवः, हे मानव!, मनुष्याणामेवप्रायश उपदेशार्हत्वात्मानवग्रहणं, सम्यगनारकतिर्यङनरामरभेदेन 'प्रगाढाः' प्रकर्षेण व्यवस्थिता इति । लेशतो जन्तुभेदप्रदर्शनद्वारेण तत्पर्यटनमाहमू. (५४७) जे रक्खसा वा जमलोइया वा, जे वा सुरा गंधव्वा य काया। आगासगामी य पुढोसिया जे, पुणो पुणो विपरियासुवेति ॥ वृ. 'ये' केचन व्यन्तरभेदा राक्षसात्मानः, तदग्रहणाच्च सर्वेऽपि व्यन्तरा गृह्यन्ते तथा यमलौकिकात्मानः, अम्बादयस्तदुपलक्षणात्सर्वे भवनपतयः तथा ये च ‘सुराः' सौधर्मादिवैमानिकाः, चशब्दाज्योतिष्काः सूर्योदयः, तथा ये 'गान्धर्वा' विद्याधरा व्यन्तरविशेषा वा, तद Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy