________________
२३८
-
सूत्रकृताङ्ग सूत्रम् १/१२/-/५४४ कार्यसिद्धिदर्शनेन व्यभिचारः शङ्कयते सोऽनुपपन्नः, तथाहि -
कार्याकूतात् क्षुतेऽपि गच्छतो या कार्यसिद्धि साऽपान्तराले इतरशोभननिमित्तबलात्संजातेत्येवमवगन्तव्यं, शोभननिमित्तप्रस्थितस्यापीतरनिमित्तबलात्कार्यव्याघात इति, तथा च श्रुति-किल बुद्धः स्वशिष्यानाहूयोक्तवान्, यथा 'द्वादशवार्षिकमत्र दुर्भिक्षं भविष्यतीत्यतो देशान्तराणि गच्छत यूयं तेतद्वचनादच्छन्तस्तेनैव प्रतिषिद्धाः, यथा ‘मा गच्छतयूयम्, इहाद्यैव पुण्यवान् महासत्त्वः संजातस्तत्प्रभावात्सुभिक्षं भविष्यति' तदेवमन्तराऽपरनिमित्तसद्भावात्तद्व्यभिचारशङ्केति स्थितम्। मू. (५४५) ते एवमक्खंति समिच लोगं, तहा तहा समणा माहणा य।
सयंकडं नन्नकडं च दुक्खं, आहंसु विजाचरणं पमोक्खं। वृ.साम्प्रतंक्रियावादिमतंदुदूषयिषुस्तन्मतमाविष्कुर्वन्नाह-ये क्रियातएवज्ञाननिरपेक्षायाः दीक्षादिलक्षणाया मोक्षमिच्छन्ति ते एवमाख्यान्ति, तद्यथा-'अस्ति माता पिता अस्ति सुचीर्णस्य कर्मणः फल'मिति, किं कृत्वा त एवं कथयन्ति ?-क्रियात एव सर्वं सिध्यतीति स्वाभिप्रायेण 'लोकं स्थावरजङ्गमात्मकं समेत्य' ज्ञात्वा, किल वयं यथावस्थितवस्तुनो ज्ञातार इत्येवमभ्युपगम्य सर्व मस्त्येवेत्येवं सावधारणं प्रतिपादयन्ति, न कथञ्चिन्नास्तीति, कथमाख्यान्ति?।
"तथा तथा' तेन प्रकारेण, यथा यथा क्रिया तथा तथा स्वर्गनरकादिकं फलमिति, तेच श्रमणास्तीर्थिका ब्राह्मणा वा क्रियात एव सिद्धिमिच्छन्ति, किञ्च-यत् किमपि संसारे दुःखं तथा सुखं च तत्सर्वं स्वयमेवात्मना कृतं, नान्येन कालेश्वरादिना, न चैतदक्रियावादे घटते, तत्र ह्यक्रियत्वादात्मनोऽकृतयोरेवसुखदुःखयोः संभवः स्यात्, एवंच कृतनाशाकृताभ्यागमौस्याताम्, अत्रोच्यते, सत्मस्त्यात्मसुखदुःखादिकं, न त्वस्त्येव । . तथाहि-यद्यस्त्येव इत्येवं सावधारणमुच्यतेततश्चनकथञ्चिन्नास्तीत्यापन्नम्, एवंचसति सर्वसर्वात्मकमापद्येत, तथाचसर्वलोकस्य व्यवहारोच्छेदः स्यात, नच ज्ञानरहितायाः क्रियायाः सिद्धि, तदुपायपरिज्ञानाभावात्, न चोपायमन्तरेणोपेयमवाप्यत इति प्रतीतं, सर्वा हि क्रिया ज्ञानवत्येव फलवत्युपलक्ष्यते, उक्तञ्च॥१॥ “पढमं नामंतओ दया, एवं चिट्ठति सव्वसंजए।
अन्नाणी किं काही, किंवा नाही छेवपावयं ॥ इत्यतो ज्ञानस्यापि प्राधान्यं, नापि ज्ञानादेव सिद्धिः, क्रियारहितस्य ज्ञानस्य पङ्गोरिव कार्यसिद्धेरनुपपत्तेरित्यालोच्याह-'आहंसुविजाचणं पमोक्खंति, न ज्ञाननिरपेक्षायाः क्रियायाः सिद्धि, अन्धस्येव, नापि क्रियाविकलस्य ज्ञानस्य पङ्गोरिव, इत्येवमवगम्य 'आहुः उक्तवन्तः तीर्थकरगणधरादयः, कमाहुः?, मोक्षं, कथं?, विद्या च-ज्ञानंचरणंच-क्रिया ते द्वे अपि विद्येते कारणत्वेन यस्येति विगृह्यार्शआदित्वान्मत्वर्थीयोऽच्, असौ विद्याचरणो मोक्षः-ज्ञानक्रियासाध्य इत्यर्थः, तमेवंसाध्यं-मोक्ष प्रतिपादयन्ति।
यदिवाऽन्यथापातनिका, केनैतानि समवसरणानिप्रतिपादितानि? यच्चोकतं यच्च वक्ष्यते इत्येतदाशङ्कयाह-'ते एवमक्खंती' त्यादि, अनिरुद्धा-क्वचिदप्यस्खलिताप्रज्ञायतेऽनयेतिप्रज्ञाज्ञानं येषांतीर्थकृतांतेऽनिरुद्धप्रज्ञाः, त एवम्' अनन्तरोक्तया प्रक्रियया सम्यगाख्यान्ति-प्रतिपादयन्ति 'लोकं चतुर्दशरज्ज्वात्मकंस्थावरजङ्गमाख्यंवा ‘समेत्य केवलज्ञानेन करतलामलकन्यायेन ज्ञात्वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org