________________
श्रुतस्कन्धः-१, अध्ययनं. १२,
२३७
मू. (५४३) संवच्छरं सुविणं लक्खणं च, निमित्तदेहं च उप्पाइयं च ।
अटुंगमेयं बहवे अहित्ता, लोगंसि जाणंति अनागताई।. वृ. 'सांवत्सर' मितिज्योतिषस्वप्नप्रतिपादको ग्रन्थः स्वप्नस्तमधीत्य ‘लक्षणं' श्रीवत्सादिकं, चशब्दादान्तरबाह्यभेदभिन्नं, 'निमित्तं वाक्प्रशस्तशकुनादिकंदेहे भवंदैहं-मषकतिलकादि, उत्पाते भवमौत्पातिकम्-उल्कापातदिग्दाहनिर्घातभूमिकम्पादिकं, तथा अष्टाङ्गंच निमित्तमधीत्य, तद्यथा
भौममुत्पातंस्वप्नमान्तरिक्षमाङ्गं स्वरं लक्षणं व्यञ्जनमित्येवंरूपंनवमपूर्वतृतीयाचारवस्तुविनिर्गतं सुखदुःखजीवितमरणलाभालाभादिसंसूचकंनिमित्तमधीत्य लोकेऽस्मिन्नतीतानिवस्तूनि अनागतानिच जानन्ति परिच्छिन्दन्ति, नचशून्यादिवादेष्वेतद्घट,तस्मादप्रमाणकेवतैरभिधीयत इति ।। मू. (५४४) केई निमित्ता तहिया भवंति, केसिंचितं विप्पडिएति नाणं।
ते विजभावं अणहिज्जमाणा, आहेसु विजापरिमोक्खमेव । वृ. एवं व्याख्याते सति आह परः-ननु व्यभिचार्यपि श्रुतमुपलभ्यते, तथाहिचतुर्दशपूर्वविदामपि षट्स्थानपतित्वमागम उदघुष्यते किं पुनरष्टाङ्गनिमित्तशास्त्रविदाम् ?, अत्र चाङ्गवर्जितानां निमित्तशास्त्राणामानुष्टुमेन छन्दसाऽर्धत्रयोदश शतानि सूत्रं तावन्त्येव सहाणि वृत्तिस्तावप्रमाणलक्षा परिभाषेति, अङ्गस्य त्वर्धत्रयोदशसहस्राणि सूत्रं, तत्परिमाणलक्षा वृत्तिरपरिमितं वार्तिकमिति, तदेवमष्टाङ्गनिमित्तवेदिनामपि परस्परतः षट्स्थानपतितत्वेन व्यभिचारित्वमत इदमाह
'केई'त्यादि, छान्दसत्वात्प्राकृतसैल्या वा लिङ्गव्यत्ययः, कानिचिनिमित्तानि 'तथ्यानि' सत्यानि भवन्ति, केषाञ्चित्तुनिमित्तानां निमित्तवेदिनांवा बुद्धिवैकल्यात्तथाविधक्षयोपशमाभावेन तत् निमित्तज्ञानं 'विपर्यासं' व्यत्ययमेति, आर्हतानामपि निमित्तव्यभिचारः समुपलभ्यते, किं पुनस्तीथिकानां?, तदेवं निमित्तशस्त्रस्य व्यभिचारमुपलभ्य ते' अक्रियावादिनो विद्यासद्भावं' विदायमनधीयानाः सन्तो निमित्तंतथा चान्यथाचभवतीतिमत्वा ते आहेसु विजापलिभोक्खमेव' विद्यायाः श्रुतस्य व्यभिचारेण तस्य परिमोक्षं-परित्यागमाहुः उक्तवन्तः ।
यदिवा-क्रियाया अभावाद्विद्यया-ज्ञानेनैवमोक्ष-सर्वकर्मच्युतिलक्षणमाहुरिति।कचिञ्चरमपादस्यैवं पाठः, 'जाणामु लोगंसि वयंति मंद'त्ति, विद्यामनधीत्यैव स्वयमेव लोकमस्मिन् वा लोकेभावान्स्वयंजानीमः, एवं मंदाः' जडावदन्ति, न चनिमित्तस्यतथ्यता, तथाहिकस्यचित्क्वचित्क्षुतेऽपि गच्छतः कार्यसद्धिदर्शनात्, सच्छकुनसद्भावेऽपि कार्यविधातदर्शनाद्, अतो निमित्तबलेनादेशविधायिनां मृषावाद एव केवलमिति, नैतदस्ति, न हि सम्यगधीतस्य श्रुतस्यार्थे विसंवादोऽस्ति, यदपि षट्स्थानपतितत्वमुदघोष्यते तदपि पुरुषाश्रितक्षयोपशमवशेन, न च प्रमाणाभासव्यभिचारे सम्यकप्रमाणव्यभिचाराशङ्का कर्तुंयुज्यते।
तथाहि-मरुमरीचिकानिचयेजलग्राहि प्रत्यक्षव्यभिचरतीतिकृत्वा किंसत्यजलग्राहिणोऽपि प्रत्यक्षस्य व्यभिचारो युक्तिसंगतो भवति?, न हि मशकवर्तिरग्निसिद्धावुपदिश्यमाना व्यभिचारिणीति सत्यघूमस्यापि व्यभिचारो, न हि सुविवेचितं कार्यं कारणं व्यभिचरतीति, ततश्च प्रमातुरयमपराधोनप्रमाणस्य, एवं सुविवेचितं निमित्तश्रुतमपिन व्यभिचरतीति, यश्चक्षुतेऽपि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org