SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः - १, अध्ययनं-१, उद्देशकः - १ २१ ___ तत्ररूपशुक्लंभास्वरंच, स्पर्शउष्णएवेति, वायुत्वयोगाद्वायुः, स चानुष्णशीतस्पर्शसंख्यापरिमाणपृथकत्वसंयोगविभागपरत्वापरत्ववेगाख्यैर्नवभिर्गुणैर्गुणवान् हृत्कम्पशब्दानुष्णशीतस्पर्शलिङ्गः, आकाशमिति पारिभाषिकी संज्ञा एकत्वात्तस्य, तञ्च संख्यापरिमाणपृथकत्वसंयोगविभागशब्दाख्यैः षड्भिर्गुणैर्गुणवत् शब्दलिङ्गंचेति, एवमन्यैरपिवादिभिर्भूतसद्भावाश्रयणे किमिति लोकायतिकमतापेक्षया भूतपञ्चकोपन्यास इति ?, उच्यते सांख्यादिभिर्हि प्रधानात्साहङ्कारिक तथा कालदिगात्मादिकं चान्यदपि वस्तुजातमभ्युपेयते, लोकायतिकैस्तु भूतपञ्चकव्यतिरिक्तं नात्मादिकं किञ्चिदभ्युपगभ्यते इत्यतस्तन्मताश्रयणेनैव सूत्रार्थो व्याख्यायत इति ।। एए पंच महब्भूया, तेब्भो एगोत्ति आहिया। अह तेसिं विनासेणं, विनासो होइ देहिणो ।। वृ. यथा चैतत् तथादर्शयितुमाह-एएपंच महब्भूया' इत्यादि, ‘एतानि' अनन्तरोक्तानि पृथिव्यादीनि पञ्च महाभूतानि यान तेभ्यः' कायाकारपरिणतेभ्यः ‘एकः' कश्चिच्चिद्रूपो भूताव्यतिरिक्त आत्मा भवति, न भूतेभ्यो व्यतिरिक्तोऽपरः कश्चित्परपरिकल्पितः परलोकानुयायी सुखदुःखभोक्ता जीवाख्यः पदार्थोऽस्तीत्येवमाख्यातवन्तस्ते, तथा हि एवं प्रमाणयन्ति । नपृथिव्यादिव्यतिरिक्त आत्माऽस्ति, तद्ग्राहकप्रमाणाभावात्, प्रमाणंचात्र प्रत्यक्षमेव, नानुमानादिकं, तत्रेन्द्रियेण साक्षादर्थस्य सम्बन्धाभावाद्यभिचारसंभवः, सतिच व्यभिचारसंभवे सशे च बाधासंभवे तल्लक्षणमेव दूषितं स्यादिति सर्वत्रानाश्वासः, तथा चोक्तम् - ॥१॥ “हस्तस्पर्शादिवान्धेन, विषमे पथि धावता । अनुमानप्रधानेन, विनिपातो न दुर्लभः॥" अनुमानंचात्रोपलक्षणमागमादीनामपि, साक्षादर्थसंबन्धभावाद्धस्तस्पर्शनेनेव प्रवृत्तिरिति सत्मात्प्रत्यक्षमेवैकं प्रमाणं, तेन च भूतव्यतिरिक्तस्यात्मनो न ग्रहणं, यत्तु चैतन्यं तेषूपलभ्यते, तद्भूतेष्वेव कायाकारपरिणतेष्वभि व्यज्यते, मद्याङ्गेषु समुदितेषु मदशक्तिवदिति, तथा-न भूतव्यतिरिक्तं चैतन्यं, तत्कार्यत्वात्, घटादिवादिति । तदेवं भूतव्यतिरिक्तस्याऽऽत्मनोऽभावाद्भूतानामेवचैतन्याभिव्यक्ति, जलस्य बुबुदाभिव्यक्तिवदिति । केषाञ्चिल्लोकायतिकानामाकाशस्यापि भूतत्वेनाभुयपगमाद्भूतपञ्चकोपन्यासो न दोषायेति । ननु च यदि भूतव्यतिरिक्तोऽपरः कश्चिदात्माख्यः पदार्थो न विद्यते, कथं तर्हि मृत इति व्यपदेश इत्याशङ्कयाह-अथैषांकायाकारपरिणतौ चैतन्याभिव्यक्तौ सत्यांतर्ध्वं तेषामन्यतमस्य 'विनाशे' अपगमे वायोस्तेजश्चोभयोर्वा ‘देहिनो' देवदत्ताख्यस्य 'विनाशः' अपगमो भवति, ततश्च मृत इतिव्यपदेशःप्रवर्तते, न पुनर्जीवापगम इति भूताव्यतिरिक्तचैतन्यवादिपूर्वपक्ष इति अत्र प्रतिसमाधानार्थं नियुक्तिकृदाहनि. [३३] पंचण्हं संजोए अन्नगुणाणं च चेयणाइगुणो। पंचिंदियठाणाणं न अन्नमुणियं मुणइ अन्नो। वृ. 'पञ्चानां पृथिव्यादीनां भूतानां संयोगे' कायाकारपरिणामेचैतन्यादिकः आदिशब्दात् भाषाचक्रमणादिकश्च गुणोन भवतीतिप्रतिज्ञा, अन्यादयस्त्वत्र हेतुत्वेनोपात्ताः,दृष्टान्तस्त्वभ्यह्यः, सुलभत्वात्तस्य नोपादानं । तत्रेदं चार्वाकः प्रष्टव्यः-यदेतद्भूतानां संयोगे चैतन्यमभिव्यज्यते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy