________________
सूत्रकृताङ्ग सूत्रम् १/१/१/६ द्रव्यगुणकर्मसामान्यविशेषसमवायाः षट् पदार्था' इति, तथा नैयायिकाः प्राणप्रमेयादीनां पदार्थानामन्वयव्यतिरेकपरिज्ञानान्निःश्रेयसाधिगम इति व्यवस्थिताः, तथा मीमांसकाःचोदनालक्षणो धर्मो, न च सर्वज्ञः कश्चिद्विद्यते, मुक्त्यभावश्चेत्येवमाश्रिताः, चार्वाकास्त्वेवमभिहितवन्तो, यथा-नास्तिकश्चित्परलोकयायी भूतपञ्चकाद्यतिरिक्तो जीवाख्यः पदार्थो, नापि पुण्यपापे स्त इत्यादि । एवं चाङ्गीकृत्यैते लोकायतिकाः 'मानवाः' पुरुषाः 'सक्ता' गृद्धा अध्युपपन्नाः 'कामेषु' इच्छामदनरूपेषु, तथा चोचुः
119 ||
२०
'एतावानेव पुरुषो, यावानिन्द्रियगोचरः । भद्रे ! वृकपदं पश्य, यद्वदन्त्यबहुश्रुताः ॥
एवं ते तन्त्रान्तरीयाः स्वसमयार्थवासितान्तःकरणाः सन्तो भगवदर्हदुक्तं ग्रन्थार्थमज्ञातपरमार्था समतिक्रम्य स्वकीयेषु ग्रन्थेषु सिताः संबद्धाः कामेषु च सक्ता इति साम्प्रतं विशेषेण सूत्रकार एव चार्वाकमतमाश्रित्याऽऽह
मू. (७)
संति पंच महब्भूया, इहमेगेसिमाहिया । पुढवी आउ तेऊ वा वाउ आगासपंचमा ।।
वृ. 'सन्ति' विद्यन्ते महान्ति च तानि भूतानि च महाभूतानि, सर्वलोकव्यापित्वात्महत्त्वविशेषणम्, अनेन च भूताभाववादिनिराकरणं द्रष्टव्यम्, 'इह' अस्मिन् लोके 'एकेषां' भूतवादिनाम् ‘आख्यातानि' प्रतिपादितानि तत्तीर्थकृता तैर्वा भूतवादिभिर्बार्हस्पत्यमतानुसारिभिराख्यातानि स्वयमङ्गीकृतान्यन्येषां च प्रतिपादितानि । तानि चामूनि, तद्यथा - पृथिवी कठिनरूपा, आपो द्रवलक्षणाः, तेज उष्णरूपं, वायुश्चलनलक्षणः, आकाशं शुषिरलक्षणमिति, तच्च पञ्चमं येषां तानि तथा, एतानि साङ्गोपाङ्गानि प्रसिद्धत्वात् प्रत्यक्षप्रमाणावसेयत्वाच्च न कैश्चिदपह्नोतुं शक्यानि ।
ननु च साङ्ख्यादिभिरपि भूतान्यभ्युपगातान्येव, तथाहि सांख्यास्तावदेवमूचुः सत्त्वरजस्तमोरूपाठप्रधानान्नमहान्, बुद्धिरित्यर्थ, महतोऽहङ्कारः - अहमितिप्रत्ययः, तस्मादप्यहङ्कारात्षोडशको गण उत्पद्यते स चायम् - पञ्च स्पर्शनादीनि बुद्धीन्द्रियाणि, वाक्पाणिपादपायूपस्थरूपाणि पञ्च कर्मेन्द्रियाणि,एकादशं मनः, पञ्च तन्मात्राणि, तद्यथा - गन्धरसरूपस्पर्शशब्दतन्मात्राख्यानि, तत्र गन्धतन्मात्रात्पृथिवी गन्धरसरूपस्पर्शवती, रसतन्मात्रादापो रसरूपस्पर्शवत्यः, रूपतन्मात्रात्तेजो रूपस्पर्शवत्, स्पर्शतन्मात्राद्वायुः स्पर्शवान्, शब्दतन्मात्रादाकाशं गन्धरसरूपस्पर्शवर्जितमुत्पद्यत इति ॥
तथा वैशेषिका अपि भूतान्यभिहितवन्तः, तद्यथा- पृथिवीत्वयोगात्पृथिवी, सा च परमाणुलक्षणा नित्या, द्वयणुकादिप्रक्रमनिष्पन्नकार्यरूपतया त्वनित्या, चतुर्दशभिर्गुणै रूपरसगन्धस्पर्शसंख्या परिमाणपृथकत्वसंयोगविभागपरत्वापरत्वगुरुत्वद्रवत्ववेगाख्यैरुपेता, तथाऽप्त्वयोगादापः, ताश्च रूपरसस्पर्शसंख्यापरिमाणपृथकत्वसंयोगविभागपरत्वापरत्वगुरुत्वस्वाभाविकद्रवत्वस्नेहवेगवत्यः, तासु च रूपं शुक्लमेव रसो मधुर एव स्पर्श शीत एवेति, तेजस्त्वाभिसंबन्धात्तेजः, तच्च रूपस्पर्शसंख्या परिमाणपृथकत्वसंयोगविभागपरत्वापरत्वनैमित्तिकद्रवत्ववेगाख्यैरेकादशभिर्गुणैर्गुणवत् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org