________________
श्रुतस्कन्धः - १, अध्ययनं-१, उद्देशकः - १
१९
तथा स परिग्रहाग्रही न केवलं स्वतो व्यापादयति अपरैरपि घातयति घ्नतश्चान्यान् समनुजानीते, तदेवं कृतकारितानुमतिभिःप्राण्युपमर्दनेनजन्मान्तरशतानुबन्ध्यात्मनोवैरंवर्धयति, ततश्चदुःखपरम्परारूपान्धनान्न मुच्यत इति।प्राणातिपातस्य चोपलक्षणार्थत्वात्मृषावादादयोऽपि बन्धहेतवो द्रष्टव्या इति पुनर्बन्धनमेवाश्रित्याहमू. (४) जस्सिं कुले समुप्पन्ने, जेहिं वा संवसे नरे ।
ममाइ लुप्पई बाले, अन्ने अन्नेहि मुच्छिए ।। वृ. 'जस्सि' मित्यादि, 'यस्मिन्’ राष्ट्रकूटादौ कुले जातो ‘यैर्वा' सहपांसुक्रीडितैर्वयस्यैर्भार्यादिभिर्वा सह संवसेन्नरः, तेषु मातृपितृभ्रातृभगिनि भार्यावयस्यादिषुममायमितिममत्ववान् स्निह्यन् ‘लुप्यते' विलुप्यते, ममत्वजनितेन कर्मणा नारकतिर्यमनुष्यामरलक्षणे संसारेभ्रम्यमाणो बाध्यते-पीड्यते। कोऽसौ ? - 'बालः' अज्ञः, सदसद्विवेकरहितत्वाद्, अन्येष्वन्येषुच मूर्छितो' गृद्धोऽध्यु-पपन्नो, ममत्वबहुल इत्यर्थ, पूर्वंतावन्मातापित्रोस्तदनुभार्यायांपुनः पुत्रादौ स्नेहवानिति साम्प्रतं यदुक्तं प्राक् ‘किं वा जानन् बन्धनं त्रोटयतीति,' अस्य निर्वचनमाहमू. (५) वित्तं सोयरिया चेव, सव्वमेयं न ताणइ ।
संखाए जीविअंचेवं, कम्मुणा तिउट्टइ। वृ. 'वित्तं' द्रव्यं, तच्च सचित्तमचित्तं वा, तथा ‘सोदर्या' भ्रातृभगिन्यादयः, सर्वमपि च 'एतद्' वित्तादिकं संसारान्तर्गतस्यासुमतोऽतिकटुकाः शारीरमानसीवेदनास्समनुभवतोन त्राणाय' रक्षणाय भवतीत्येतत् ‘संख्याय' ज्ञात्वा तथा 'जीवितंच' प्राणिनांस्वल्पमिति संख्याय-ज्ञपरिज्ञया
प्रत्याख्यानपरिज्ञयातुसचित्ताचित्तपरिग्रहप्राण्युपघातस्वजनस्नेहादीनि बन्धनस्थानानि प्रत्याख्याय 'कर्मणः' सकाशात् 'त्रुट्यति' अपगच्छत्यसौ, तुरवधारणे, त्रुट्येदेवेति, यदिवा'कर्मणा' क्रियया संयमानुष्ठानरूपया बन्धनात्रुट्यति, कर्मणः पृथग्भवतीत्यर्थअध्ययनार्थाधिकाराभिहितत्वात्स्वसमयप्रतिपादनानन्तरं परसमयप्रतिपादनाभिधित्सयाऽऽह
एए गंथे विउक्कम्म, एगे समणमाहणा।
अयाणंता विउस्सित्ता, सत्ता कामेहि माणवा ।। वृ. “एतान्' अनन्तरोक्तान् ग्रन्थान् ‘व्युत्क्रम्य' परित्यज्य स्वरुचिविरचितार्थेषु ग्रन्थेषु सक्ताः ‘सिताः' बद्धाः, एके, न सर्वे इति संबन्धः । ग्रन्थातिक्रमश्चैतेषां तदुक्तार्थानभ्युपगमात्, अनन्तरग्रन्थेषु चायमर्थोभिहितः तद्यथा-जीवास्तित्वे सति ज्ञानावरणीयादिकर्मबन्धनं, तस्य हेतवो मिथ्यात्वा- विरतिप्रमादादयः परिग्रहारम्भादयश्च, तत्रोटनं च सम्यग्दर्शनाधुपायेन, मोक्षसद्भावश्चेत्येवमादिकः तदेवमेके श्रमणाः' शाक्यादयो बार्हस्पत्यमतानुसारिणश्च ब्राह्मणाः 'एतान्' अर्हदुक्तान् ग्रन्थानतिक्रम्य परमार्थमजानाना विविधम्-अनेकप्रकारम् उत्-प्राबल्येन् सिता-बद्धाः स्वसम- येष्वभिनिविष्टाः । तथा च शाक्या एवं प्रतिपादयन्ति, यथासुखदुःखेच्छाद्वेषज्ञानाधारभूतो नास्त्यात्मा कश्चित्, किंतु विज्ञानमेवैकं विवर्तत इति, क्षणिकाः सर्वसंस्कारा इत्यादि, तथा सांख्या एवं - व्यवस्थिताः-सत्त्वरजस्तमसां साम्यावस्था प्रकृति, प्रकृतेर्महान्, महतोऽहङ्कारः तस्माद्गणश्च षोडशकः।
तस्मात्षोडशकादपि पञ्च भूतानि, चैतन्यं पुरुषस्यस्वरूपमित्यादि, वैशेषिकाः पुनराहु:
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org