________________
१८
सूत्रकृताङ्ग सूत्रम् १/१/१/१
किं पुनस्तद्बुध्येतात आह- 'बन्धन' बध्यते जीवप्रदेशैरन्योऽन्यानुवेधरूपतया व्यवस्थाप्यत इति बन्धनं-ज्ञानावरणाद्यष्टप्रकारं कर्म तद्धेतवो वा मिथ्यात्वाविरत्यादयः परिग्रहारम्भादयो वा, न च बोधमात्रादभिलषितार्थावाप्तिर्भवतीत्यत क्रियां दर्शयति तच्च बंधनं परिज्ञाय विशिष्टया क्रियया-संयमानुष्ठानरूपया 'त्रोटयेद्' अपनयेदात्मनः पृथक्कुर्यात्परित्यजेद्वा, एवं चाभिहिते जम्बूस्वाम्यादिको विनेयो बन्धादिस्वरूपे विशिष्टं जिज्ञासुः पप्रच्छ-'किमाह' किमुक्तवान् बन्धनं 'वीरः’ तीर्थकृत् ?, किंवा 'जानन्' अवगच्छंस्तद्बन्धनं त्रोटयति ततो वा त्रुट्यति ?, इति श्लोकार्थ : बन्धनप्रश्नस्वरूपप्रश्नविर्वचनायाह
मू. (२)
चित्तमंतमचित्तं वा, परिगिज्झ किसामवि । अन्नं वा अनुजाणाइ, एवं दुक्खा न मुच्चइ ॥
वृ. इह बन्धनं कर्म तद्धेतवो वाऽभिधीयन्ते, तत्र न निदानमन्तरेण निदानिनो जन्मेति निदानमेव दर्शयति, तत्रापि सर्वारम्भाः दर्शयति, तत्रापि सर्वारम्भाः कर्मोपादानरूपाः प्रायश आत्मात्मीयग्रहोत्थाना इतिकृत्वाऽऽदौ परिग्रहमेव दर्शितवान्, चित्तम्उपयोगो ज्ञानं तद्विद्यते यस्य तच्चित्तवत्-द्विपदचतुष्पदादि, ततोऽन्यदचित्तवत्- कनकरजतादि, तदुभयरूपमपि परिग्रहं परिगृह्य 'कृशमपि' स्तोकमपि तृणतुषादिकमपीत्यर्थ, यदिवा कसनं कस: पिग्रहग्रहणबुद्धया जीवस्य गमन परिणाम इतियावत् ।
तदेवं स्वतः परिग्रहं परिगृह्यान्यान्वा ग्राहयित्वा गृण्हतो वाऽन्याननुज्ञाय दुःखयतीति दुःखम्-अष्टप्रकारं कर्म तत्फलं वा असातोदयादिरूपं तस्मान्न मुच्यत इति, परिग्रहाग्रह एव परमार्थतोऽनर्थमूलं भवति, तथा चोक्तम्
॥ १ ॥ ममाहमिति चैष यावदभिमानदाहज्वरः, कृतान्तमुखमेव तावदिति न प्रशान्युन्नयः यशःसुखपिपासितैरयमसावनर्थोत्तरैः, परैरपसदः कुतोऽपि कथमप्यपाकृष्यते ॥ (तथा च ) " द्वेषस्यायतनं धृतेरपचयः क्षान्तेः प्रतीपो विधि व्याक्षेपस्य सुहृन्मदस्य भवनं ध्यानस्य कष्टो रिपुः ।
दुःखस्य प्रभवः सुखस्य निधनं पापस्य वा सो निजः, प्राज्ञस्यापि परिग्रहो ग्रह इव क्लेशाय नाशाय च ॥
तथा च परिग्रहेष्वप्राप्त नष्टेषु काङ्क्षशोकौ प्राप्तेषु च रक्षणमुपभोगे चातृप्तिरित्येवं परिग्रहे सति दुःखात्मकाद्बन्धनान्न मुच्यत इति परिग्रहवतश्चावश्यंभाव्यारम्भस्तस्मिंश्च प्राणातिपात इति दर्शयितुमाह-
मू. (३)
॥२॥
सयं तिवाय पाणे, अदुवाऽन्नेहिं घायए ।
हणतं वाऽनुजाणाइ, वेरं वडूढइ अप्पणो ॥
वृ. यदिवा-प्रकारान्तरेण बन्धनमेवाह- 'सयंतीत्यादि', स परिग्रहवानसंतुष्टो भूयस्तदर्जनपरः समर्जितोपद्रवकारिणि च द्वेषमुपगतस्ततः 'स्वयम्' आत्मना 'त्रिभ्यो' मनोवाक्कायेभ्य आयुर्बलशरीरेभ्यो वा 'पातयेत्' च्यावयेत 'प्राणान्' प्राणिनः, अकारलोपाद्वा अतिपातयेत् प्राणानिति, प्राणाश्चामी
119 11
‘पञ्चेन्द्रियाणि त्रिविधं बलं च, उच्छ्वासनिश्वासमथान्यदायुः । प्राणा दशैते भगवद्भिरुक्तास्तेषां वियोजीकरणं तु हिंसा ।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org