________________
श्रुतस्कन्धः - १,
अध्ययनं - उद्देशकः -
च महाभूतानि इत्यमेकोऽर्थाधिकारः । तथा चेतनाचेतनं सर्वमेवात्मविवर्त इत्यात्माऽद्वैतवादः प्रतिपाद्यत इत्यर्थाधिकारो द्वितीयः । स चासौ जीवश्च तज्जीवः कायाकारो भूतपरिणामः, तदेव च शरीरं जीवशरीरयोरैक्यमितियावदिति तृतीयोऽर्थाधिकारः । तथाऽकारको जीवः सर्वस्याः पुण्यपापक्रियाया इत्येवंवादीति चतुर्थोऽधिकारः । तथाऽऽत्मा षष्ठ इति पञ्चानां भूतानामात्मा षष्ठः प्रतिपाद्यत इत्ययं पञ्चमोऽर्थाधिकारः ।
१७
- तथाऽफलवादीति न विद्यते कस्याश्चित् क्रियायाः फलमित्येवंवादी च प्रतिपाद्यत इति षष्ठोऽर्थाधिकारइति । द्वितीयोद्देशके चत्वारोऽर्थाधिकाराः, तद्यथा-नियतिवादस्तथाऽज्ञानिकमतं ज्ञानवादी च प्रतिपाद्यते, कर्म चयम्-उपचयं चतुर्विधमपि न गच्छति 'भिक्षुसमये' शाक्यागमे इति चतुर्थोऽर्थाधिकारः ।
- चातुर्विध्यं तु कर्मणोऽविज्ञोपचितम्-अविज्ञानमविज्ञातयोपचितम्, अनाभोगकृतमित्यर्थ, यथामातुः स्तनाद्याक्रमणेन पुत्रव्यापत्तावप्यनाभोगान्न कर्मोपचीयते, तथा परिज्ञानं परिज्ञाकेवलेन मनसा पर्यालोचनं, तेनापि कस्यचित्प्राणिनो व्यापादनाभावात् कर्मोपचयाभाव इति, तथा ईरणमीर्या - गमनं तेन जनितमीर्याप्रत्ययं तदपि कर्मोपचयंन गच्छति, प्राणिव्यापादनाभिसन्धेरभावादिति, तथा स्वप्नान्तिकं स्वप्नप्रत्ययं कर्म नोपचीयते, तथा स्वप्नभोजने तृप्तयभाव इति ।
तृतीयोद्देशके त्वयमर्थाधिकारः, तद्यथा - आधाकर्मगतविचारस्तद्भोजिनां च दोषोपदर्शनमिति, तथा कृतवादी च भण्यते, तद्यथा-ईश्वरेण कृतोऽयं लोकः, प्रधानादिकृतो वा, यथा च ते प्रवादिन आत्मीयमात्मीयं कृतवादं गृहीत्वोत्थितास्तथा भण्यन्त इति द्वितीयोऽधिकारः, चतुर्थोद्देशकाधिकारस्त्वयं, तद्यथा-अविरतेषु-गृहस्थेषु यानि कृत्यानि - अनुष्ठानानि स्थितानि तैरसंयमप्रधानैः कर्तव्यैः 'परप्रवादी' परतीर्थिक उपमीयत इति ।
इदानीमनुगमः, स च द्वेधा सूत्रानुगमो निर्युक्त्यनुगमश्च तत्र नियुक्त्यनुगमस्त्रिविधः, तद्यथा-निक्षेपनिर्युक्त्यनुगम उपोद्घातनिर्युक्त्यनुगमः सूत्रस्पर्शिकनिर्युक्यनुगमश्च । तत्र उपोद्घातनिर्युक्यनुगमस्तु षड्विंशतिद्वारप्रतिपादकः द्गाथाद्वयादवसेयः, तञ्चेदम्- 'उद्देसे निद्देसे य' इत्यादि । सूत्रस्पर्शिकनिर्युक्त्यनुगमस्तु सूत्रे सति संभवति, सूत्रं च सूत्रानुगमे, स चावसरप्राप्त एव, तत्रास्खलितादिगुणोपेतं सूत्रमुच्चारणीयं तच्चेदम्
-: अध्ययनं-१ उद्देशकः-१ :
मू. (9)
बुज्झिजत्ति तिउट्टिज्जा, बंधणं परिजाणिया ।
किमाह बंधणं वीरो, किंवा जाणं तिउट्टई ।।
वृ. अस्य संहितादिक्रमेण व्याख्या- बुध्येतेत्यादि, सूत्रमिदं सूत्रकृताङ्गादौ वर्तते, अस्य चाचारङ्गेन सहायं संबंधः, तद्यथा आचाराङ्गेऽभिहितम् -' जीवो छक्कायपरूवणा य तेसिं वण बंधोत्ति' इत्यादि तत्सर्वं बुध्येतेत्यादि, यदिवेह केषाञ्चिद्वादिनां ज्ञानादेव मुक्त्यवाप्तिरन्येषां क्रियामात्रात्, जैनानां तूभाभ्यां निश्रेयसाधिगम इत्येतदनेन श्लोकेन प्रतिपाद्यते । तत्रापि ज्ञानपूर्विका क्रिया फलवती भवतीत्यादी बुध्यतेत्यनेन ज्ञानमुक्तं त्रोट्येदित्येनेन च क्रियोक्ता, तत्रायमर्थो'बुध्येत' अवग्छेत् बोधं विदध्यादित्युपदेशः
22
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org