SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्ग सूत्रम् १/-///नि. [२८] तन्त्रौधनिष्पन्नेऽध्ययनं, तस्य च निक्षेप आवश्यकादौ प्रबन्धेनाभिहित एव, नामनिष्पन्ने तु समय इति नाम, तन्निक्षेपार्थं नियुक्तिकार आह अध्ययनं -१ - "समयः " १६ नि. [२९] नामं ठवणा दविए खेत्ते काले कुतित्थसंगारे । कुलगणसंकरगंडी बोद्धव्वो भावसमए य ॥ वृ. नामस्थापनाद्रव्यक्षेत्रकालकुतीर्थसंगारकुलगणसंकरगण्डीभावभेदात् द्वादशधा समयनिक्षेपः, तत्र नामस्थापने क्षुण्णे, द्रव्यसमयो द्रव्यस्य सम्यगयनं परिणतिविशेषः स्वभाव इत्यर्थ, तद्यथा - जीवद्रव्यस्योपयोगः पुद्गलद्रव्यस्य मूर्तत्वं धर्माधर्माकाशानां गतिस्थित्यवगाहदानलक्षणः, अथवा यो यस्य द्रव्यस्यावसरो द्रव्यस्योपयोगकाल इति, तद्यथावर्षासु लवणममृतं शरदि जलं गोपयश्च हेमन्ते । शिशिरे चामलकरसो घृतं वस्ते गुडश्चान्ते ॥ 119 11 119 11 - क्षेत्रसमयः - क्षेत्रम् - आकाशं तस्य समयः-स्वभावः, यथा - एगेणवि से पुन्ने दोहिवि पुन्ने सयंपि माएजा । लक्खसएणवि पुन्ने कोडिसहस्संपि माएजा ॥ यदिवा देवकुरुप्रभृतीनां क्षेत्राणामीदृशोऽनुभावो यदुत तत्र प्राणिनः सुरूपा नित्यसुखिनो निर्वैराश्च भवन्तीति, क्षेत्रस्य वा परिकर्मणावसरः क्षेत्रसमय इति, कालसमयस्तु सुषमादेरनुभावविशेषः, उत्पलपत्रशतभेदाभिव्यङ्गयो वा कालविशेषः कालसमय इति, अत्र च द्रव्यक्षेत्रकालप्राधान्यविवक्षया द्रव्यक्षेत्रकालसमयता द्रष्टव्येति, कुतीर्थसमयः पाखण्डिकानामात्मीयात्मीय आगमविशेषः तदुक्तं वाऽनुष्ठानमिति, संगारः संकेतस्तद्रूपः समयः संगारसमयः, सिद्धार्थसारथिदेवेन पूर्वकृतसंगारनुसारेण गृहीतहरिशवो बलदेवः प्रतिबोधित इति, कुलसमयः-कुलाचारो यथा शकानां पितृशुद्धि आभीरकाणां मन्थनिकाशुद्धि, गणसमयो यथा मल्लानामयमाचारो - यथा यो ह्यनाथो मल्लो भ्रियते स तैः संस्क्रियते, पतितश्चध्यित इति, संकरसमयस्तु संकरो - भिन्नजातीयानां मीलकस्तत्र च समयः एकवाक्यता, यथा वाममार्गादावनाचारप्रवृत्तावपि गुप्तिकरणमिति, गण्डीसमयो यथा शाक्यानां भोजनावसरे गण्डीताडनमिति, भावसमयस्तु नोआगमत इदमेवाध्ययनम् अनेनैवात्राधिकारः, शेषाणां तु शिष्यमतिविकासार्थमुपन्यास इति ।। साम्प्रतं प्रागुपन्यस्तोद्देशार्थाधिकाराभिधित्सयाऽऽह नि. [३०] नि. [३१] नि. [३२] यथा महपंचभूय एकप्पए य तज्जीवतस्सरीरे य । तहय अगारगवाती अत्तच्छट्टो अफलवादी ॥ बी निर्यइवाओ अन्नाणिय तहय नाणवाईओ । कम्मं चयं न गच्छइ चउव्विहं भिक्खुसमयंमि ॥ तइए आहाकम्मं कडवाई जह य ते य वाईओ । किच्चुवमा य चउत्थे परप्पवाई अविरएसु ।। वृ. अस्याध्ययनस्य चत्वार उद्देशकाः, तत्राद्यस्य षडर्थाधिकार आद्यगाथयाऽभिहिताः, तद्यथा पञ्च भूतानि पृथिव्यप्तेजोवाय्वाकाशाख्यानि महान्ति च तानि सर्वलोकव्यापित्वात् भूतानि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy