________________
२२
सूत्रकृताङ्ग सूत्रम् १/१/१/८ नि. [३३] तत्किं तेषांसंयोगेऽपि स्वातन्त्र्यं एवाऽऽहोस्वित्परस्परापेक्षया पारतन्त्र्ये इति?, किंचातः?,न तावत्स्वातन्त्र्ये यत आह-'अण्णगुणाणंचे तिचैतन्यादन्ये गुणा येषां तान्यन्यगुणानि, तथाहिआधारकाठिन्यगुणापृथिवी द्रवगुणा आपः पक्तृगुणं तेजः चलनगुणो वायुः अवगाहदानगुणमाकाशमिति।
यदिवा प्रागभिहिता गन्धादयः पृथिव्यादीनमेकैकपरिहान्याऽन्ये गुणाश्चैतन्यादिति, तदेवं पृथिव्यादीन्यन्यगुणानि, चशब्दो द्वितीयविकल्पवक्तव्यतासूचनार्थ, चैतन्यगुणे साध्ये पृथिव्यादीनामन्यगुणानां सतां चैतन्यगुणस्य पृथिव्यादीनामेकैकस्याप्यभावान्न तत्समुदायाश्चैतन्याख्यो गुणः सिद्धयतीति, प्रयोगस्त्वत्र-भूतसमुदायः स्वातन्त्र्ये सति धर्मित्वेनोपादीयते, न तस्य चैतन्याख्यो गुणोऽस्तीति साध्योधर्म, पृथिव्यादीनामन्यगुणत्वात्, यो योऽन्यगुणानां समुदायस्तत्र तत्रापूर्वगुणोत्पत्तिर्न भवतीति, यथा सिकतासमुदाये स्निग्धगुणस्य तैलस्य नोत्पत्तिरिति, घटपटसमुदाये वा न स्तम्भाधाविर्भाव इति, दृश्यते च काये चैतन्यं, तदात्मगुणो भविष्यति न भूतानामिति ।
अस्मिन्नैव साध्ये हेत्वन्तरमाह-'पञ्चिन्दियठाणाणं'ति पञ्च च तानि स्पर्शनरसनघ्राणचक्षुश्रोत्राख्यानीन्द्रियाणि तेषां स्थानानि-अवकाशस्तेषां चैतन्यगुणाभावान्न भूतसमुदाये चैतन्यम्, इदमत्र हृदयं-लोकायतिकानां हि अपरस्य द्रष्टुरनभ्यपगमादिन्द्रियाण्येव द्रष्टिणि, तेषां च यानि स्थानानि-उपादानकारणानि तेषामचिद्रूपत्वान्न भूतसमुदाये चैतन्यमिति, इन्द्रियाणां चामूनिस्थानानि, तद्यथा-श्रोत्रेन्द्रियस्याकाशंसुषिरात्मकत्वात्, घ्राणेन्द्रियस्य पृथिवी तदात्मकत्वात्, चक्षुरिन्द्रियस्य तेजस्तद्रुपत्वात्, एवं रसनेन्द्रियस्यापः स्पर्शनेन्द्रियस्य वायुरिति ।
प्रयोगश्चात्र-नेन्द्रियाण्युपलब्धिमन्ति, तेषामचेतनगुणारब्धत्वात्, यद्यदचेतनगुणारब्धं तत्तदचेतनं, यथा घटपटादीनि, एवमपि च भूतसमुदाये चैतन्याभाव एव साधितो भवति । पुनर्हेत्वन्तरमाह ‘नअन्नमुणियंमुणइअन्नो'त्ति इहेन्द्रियाणि प्रत्येकभूतात्मकानि, तान्येवापरस्य द्रष्टुरभावाद् द्रष्ट्ऋणि, तेषां च प्रत्येकं स्वविषयग्रहणादन्यविषये चाप्रवृत्तेर्नान्यदिन्द्रियज्ञातमन्यदिन्द्रियं जानातीति, अतो मया पञ्चापि विषया ज्ञाता इत्येवमात्मकः संकलनाप्रत्ययो न प्राप्नोति, अनुभूयते चायं, तस्मादेकेनैव द्रष्ट्रा भवितव्यम्, तस्यैव च चैतन्यं न भूतसमुदायस्येति, प्रयोगः पुनरेवं-न भूतसमुदाये चैतन्यं, तदारब्धेन्द्रियाणां प्रत्येकविषयग्राहित्वे सति संकलनाप्रत्ययाभावात्, यदि पुनरन्यगृह्णीतमप्यन्यो गृह्णीयाद्देवदत्तगृहीतं यज्ञदत्तेनापिगृह्येत, न चैतद् इष्टमिष्टं वेति।
ननु च स्वातन्त्र्यपक्षेऽयं दोषः, यदा पुनः परस्परसापेक्षाणां संयोगपारतन्त्र्याभ्युपगमेन भूतानामेव समुदितानां चैतन्याख्यो धर्म संयोगवशादाविर्भवति, यथा किण्वोदकादिषु मुद्याङ्गेषु समुदितेषुप्रत्येकमविद्यमानाऽपि मदशक्तिरिति, तदा कुतोऽस्य दोषस्यावकाश इति?, अत्रोत्तरं गाथोपात्तचशब्दाक्षिप्तमभिधीयते-यत्तावदुक्तं यथा 'भूतेभ्यः परस्परसव्यपेक्षसंयोगभाग्भ्यश्चैतन्यमुत्पद्यते,।
तत्र विकल्पयामः-किमसौ संयोगः संयोगिभ्यो भिन्नोऽभिन्नोवा?,भिन्नश्चेषष्ठभूतप्रसंगो, नचान्यत् पञ्चभूतव्यतिरिक्तसंयोगाख्यभूतग्राहकंभवतांप्रमाणमस्ति, प्रत्यक्षस्यैवैकस्याभ्युपगमात्, तेनच तस्याग्रहणात्, प्रमाणान्तराभ्युपगमेचतेनैवजीवस्यापि ग्रहणमस्तु, अथ अभिन्नो भूतेभ्यो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org