SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ २२४ सूत्रकृताङ्ग सूत्रम् १/११/-/५३२ वृ. अथैवंभूतं भावमार्गं किं वर्धमानस्वाम्येवोपदिष्टवान् उतान्येऽपीत्येतदाशङ्कयाह-ये बुद्धाः-तीर्थकृतोऽतीतेऽनादिके कालेऽनन्ताः समतिक्रान्ताः तेसर्वेऽप्येवंभूतं भावमार्गमुपन्यस्तवन्तः, तथा ये चानागता भविष्यदनन्तकालभाविनोऽनन्ता एव तेऽप्येवमेवोपन्यसिष्यन्ति चशब्दाद्वर्तमानकालभाविनश्च संख्येया इति। ' न केवलमुपन्यस्तवन्तोऽनुष्ठितवंतश्चेत्येतद्दर्शयति-शमनं शान्तिः-भावमार्गस्तेषामतीतानागतवर्तमानकालभाविनाबुद्धानां प्रतिष्ठानम्-आधारोबुद्धत्वस्यान्यथानुपपत्तेः, यदिवा शान्तिःमोक्षः स तेषां प्रतिष्ठानम्-आधारः, ततस्तदवाप्तिश्च भावमार्गमन्तरेण न भवतीत्यतस्ते सर्वेऽप्येनं भावमार्गमुक्तवन्तोऽनुष्ठितवन्तश्च गम्यते। शान्तिप्रतिष्ठानत्वेदृष्टान्तमाह- भूतानां स्थावरजङ्गमानांयथा 'जगती' त्रिलोकी प्रतिष्ठानं एवं ते सर्वेऽपि बुद्धाः शान्तिप्रतिष्ठाना इति । प्रतिपन्नभावमार्गेण च यद्विधेयं तद्दर्शयितुमाहमू. (५३३) अहणं वयमावन्नं, फासा उञ्चावया फुसे। न तेसु विणिहण्णेजा, वाएण व महागिरी ॥ वृ. 'अथ' भावमार्गप्रतिपत्यनन्तरं साधु प्रतिपन्नव्रतं सन्तं स्पर्शा-परीषहोपसर्गरूपाः 'उच्चावचा गुरुलघवोनानारूपावा 'स्पृरोयुः' अभिद्रवेयुः, सच साधुस्तैरभिद्रुतः संसारस्वभावमपेक्षमाणः कर्मनिर्जरा च न तैरनुकूलप्रतिकूलैर्विहन्यात्, नैव संयमानुष्ठानान्मनागपि विचलेत्, किमिव?, महावातेनेव महागिरिः-मेरुरिति। परीषहोपसर्गजयश्चाभ्यासक्रमेण विधेयः, अभ्यासवशेन हि दुष्करमपि सुकरं भवति, अत्रच दृष्टान्तः, तद्यथा-कश्चिद्गोपस्तदहर्जातंतर्णकमुक्षिप्यगवान्तिकंनयत्यानयतिच, ततोऽसावनेनैव चक्रमेण प्रत्यहं प्रवर्द्धमानमपि वत्समुत्क्षिपन्नभ्यासवशादिहायनं त्रिहायणमप्युत्क्षिपति, एवं साधुरप्यभ्यासात् शनैः शनैः परिषहोपसर्गजयं विधत्त इति । मू. (५३४) संवुडे से महापने, धीरे दत्तेसनं चरे । निव्वुडे कालमाकंखी, एवं केवलिणो मयं ॥ वृ.साम्प्रतमध्ययनार्थमुपसंजिहीर्षुरुक्तशेषमधिकृत्याह-ससाधुःएवंसंवृताश्रवद्वारतया संवरसंवृतो महती प्रज्ञा यस्यासौ महाप्रज्ञः-सम्यग्दर्शनज्ञानवान्, तथा धी:-बुद्धिस्तया राजत इतिधीरः परीषहोपसर्गाक्षोभ्योवास एवंभूतः सन् परेण दत्ते सत्याहारादिके एषणांचरेत्रिविधयाप्येषणया युक्तः सन् संयममनुपालयेत्, तथा निर्वृत इव निर्वृतः कषायोपशमाच्छीतीभूतः 'कालं' मृत्युकालं यावदभिकाङक्षेत् एतत्' यत्मयाप्राक्प्रतिपादितं तत् 'केवलिनः' सर्वज्ञस्य तीर्थकृतो मतं ॥ एतच्च जम्बूस्वामिनमुद्दिश्य सुधर्मस्वाम्याह । तदेतद्यत्त्वया मार्गस्वरूपं प्रश्नितं तन्मया न स्वमनीषिकया कथितं, किं तर्हि ?, केवलिनो मतमेतदित्येवं भवता ग्राह्यं । इति परिसमाप्तयर्थे, ब्रवीमीति पूर्ववत् । अध्ययनं-११ समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता शीलावाचार्य विरचिता प्रथमश्रुतस्कन्धस्य एकादेशअध्ययन टीका परिसमाता। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy