SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः-१, अध्ययनं-१२, २२५ (अध्ययनं-१२ समवसरणं वृ. उक्तमेकादशमध्ययनं, साम्प्रतं द्वादशमारभ्यते, अस्य चायमभिसंबन्धः-इहानन्तराध्ययने मार्गोऽभिहितः, स च कुमार्गव्युदासेन सम्यग्मार्गतां प्रतिपद्यते, अतः कुमार्गव्युदासं चिकीर्षुणा तत्स्वरूपमवगन्तव्यमित्यतस्तत्स्वरूपनिरूपणार्थमिदमध्ययनमायातम्, अस्य चोपक्रमादीनि चत्वार्यनुयोगद्वाराणि, तत्रोपक्रमान्तर्गतोऽर्थाधिकारोऽयं । तद्यथा-कुमाभिधायिनां क्रियाऽक्रियाऽज्ञानिकवैनयिकानां चत्वारि समवसरणानीह प्रतिपाद्यन्ते, नामनिष्पन्ने तु निक्षेपे समवसरणमित्येतनाम तन्निक्षेपार्थं नियुक्तिकृदाहनि. [११६] समवसरणेऽविछक्कं सच्चित्ताचित्तमीसगंदब्वे । खेत्तंमिजंमि खेत्ते काले जं जंमि कालंमि ॥ वृ.समवरणमिति 'सृगता' वित्येतस्य घातोः समवोपसर्गपूर्वस्य ल्युडन्तस्य रूपं, सम्यगएकीभावेनावसरणम्-एकत्र गमनं मेलापकः समवसरणंतस्मिन्नपि,न केवलं समाधौ, षड्विधो नामादिको निक्षेपः, तत्रापि नामस्थापने क्षुण्णे, द्रव्यविषयं पुनः समवसरणंनोआगमतो ज्ञशरीरभव्यशरीरव्यतिरिक्तंसचित्ताचित्तमिश्रभेदात्रिविधं,सचित्तमपि द्विपदचतुष्पदापद भेदात्रिविधमेव, तत्र द्विपदानांसाधुप्रभृतीनांतीर्थकृज्जन्मनिष्क्रमणप्रदेशादौ मेलापकः, चतुष्पदानां गवादीनां निपानप्रदेशादौ, अपदानांतुवृक्षादीनांस्वतोनास्ति समवसरणं, विवक्षयातुकाननादौ भवत्यपि, अचित्तानां तुद्यणुकाद्यभ्रादीनां तथा मिश्राणां सेनादीनांसमवसरणसद्भावोऽवगन्तव्य इति। क्षेत्रसमवसरणं तु परमार्थतो नास्ति, विवक्षया तु यत्र द्विपदादयः समवसरन्ति व्याख्यायते वा समवसरणं यत्र तत्क्षेत्रप्राधान्यादेवमुच्यते । एवं कालसमवसरणमपि द्रष्टव्यमिति। नि. [११७] भावसमोसरणं पुन नायव्वं छव्विहंमि भावंमि । अहवा किरिय अकिरिया अन्नाणी चेव वेणइया॥ वृ. इदानीं भावसमवसरणमधिकृत्याह-भावानाम्-औदयिकादीनां समवसरणम्-एकत्र मेलापकोभावसमवसरणं, तत्रौदयिको भाव एकविंशतिभेदः, तद्यथा-गतिश्चतुर्धाकषायाश्चतुर्विधाः एवंलिङ्गं त्रिविधं, मिथ्यात्वाज्ञानासंयतत्वासिद्धत्वानि प्रत्येकमेकैकविधानि, लेश्याः कृष्णादिभिदेन षििवधा भवन्ति। __ औपशमिको द्विविधः सम्यक्त्वचारित्रोपशमभेदात्।क्षायोपशमिकोऽप्यष्टादशभेदभिन्नः, तद्यथा-ज्ञानं मतिश्रुतावधिमनःपर्यायभेदाच्चतुर्धाअज्ञानंमत्यज्ञानश्रुताज्ञानविभङ्गभेदात्रिविधं, दर्शनंचक्षुरचक्षुरवधिदर्शनभेदात्रिविधमेव, लब्धिनिलाभभोगोपभोगवीर्यभेदात्पञ्चधा, सम्यक्त्वं चारित्रं चेति । जीवत्वभव्यत्वाभव्यत्वादिभेदात्पारिणामिकस्त्रिविधः। ___ सान्निपातिकस्तुद्वित्रिचतुष्पञ्चकसंयोगैर्भवति, तत्रद्विकसंयोगःसिद्धस्य क्षायिकपारिणामिकभावद्वयसद्भावादवगन्तव्यः, त्रिकसंयोगस्तु मिथ्याष्टिसम्यग्दृष्टयविरतविरतानामौदयिकक्षायोपशमिकपारिणामिकभावसद्भावादवगन्तव्यः, तथा भवस्थकेवलिनोऽप्यौदयिकक्षायिकपारिणामिकभावसद्भावाद्विज्ञेय इति, चतुष्कसंयोगोऽपि क्षायिक सम्यग्दृष्टीनामौदयिकक्षायिकक्षायोपशमिकपारिणामिकभावसद्भावात्, तथौपशमिकसम्यग्दृष्टीनामौदयि215 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy