SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः-१, अध्ययनं-११, २२३ क्वचित्पश्चार्धस्यान्यथा पाठः-“कुजा भिक्खू गिलाणस्स, अगिलाए समाहिए' "भिक्षु' साधुः ग्लानस्य वैयावृत्यम् 'अग्लानः' अपरिश्रान्तः कुर्यात्सम्यक्समाधिना ग्लानस्य वा समाधिमुत्पाद-यनिति कथं संयमानुष्ठाने परिव्रजेदित्याह - मू. (५२९) विरए गामधम्मेहिं, जे केई जगई जगा। तेसिं अत्तुवमायाए, थामं कुव्वं परिव्वए । वृ.ग्रामधर्मा-शब्दादयोविषयास्तेभ्यो विरतामनोन्नेरेष्वरक्तद्विष्टाः सन्त्येके केचन 'जगति' पृथिव्यां संसारोदरे 'जगा' इतिजन्तवोजीवितार्थिनस्तेषांदुःखद्विषामात्मोपमया दुःखमनुत्पादयन् तद्रक्षणे सामर्थ्य कुर्यात् तत् कुर्वंश्च संयमानुष्ठाने परिव्रजेदिति। मू. (५३०) अइमानं च मायं च, तं परिन्नाय पंडिए। सव्वमेयं नि राकिञ्चा, निव्वाणं संघए मुनी। वृ.संयमविघ्नकारिणामपनयनार्थमाह-अतीवमानोऽतिमानश्चारित्रमतिक्रम्ययो वर्तते चकारादेतद्देश्यः क्रोधोऽपिपरिगृह्यते, एवमतिमायां, चशब्दादतिलोभंच, तमेवंभूतं कषायव्रातं संयमपरिपन्थिनं ‘पण्डितो' विवेकी परिज्ञाय सर्वमेनं संसारकारणभूतं कषायसमूहं निराकृत्य निर्वाणमनुसंधयेत्, सति च कषायकदम्बके न सम्यक् संयमः सफलतां प्रतिपद्यते, तदुक्तम् - ॥१॥ “सामन्नमनुचरंतस्स, कसाया जस्स उक्कडा होति । मण्णामि उच्छुपुष्फंव, निष्फलं तस्स सामण्णं ॥ -तन्निष्फलत्वे च न मोक्षसंभवः, तथा चोक्तम् - ॥१॥ “संसारादपलायनप्रतिमूवो रागादयो मे स्थितास्तृष्णा बन्धनबध्यमानमखिलं किं वेत्सि नेदं जगत् । ___ मृत्यो! मुञ्च जराकरेण परुषं केशेषु मा मा ग्रही रेहीत्यादरमन्तरेण भवतः किं नागमिष्याम्यहम् ? ॥ इत्यादि । तदेवमेवंभूतकषायपरित्यागादच्छिन्नप्रशस्तभावानुसंधनया निर्वाणानुसंधानमेवश्रेय इति । मू. (५३१) संघए साहुधम्मंच, पावधम्मं निराकरे। उवहाणवीरिए भिक्खू, कोहंमानंन पत्थए। वृ. किञ्च-साधूनां धर्मः क्षान्त्यादिको दशविधः सम्यग्दर्शनज्ञानचारित्राख्यो वा तम् 'अनुसंधयेत्' वृद्धिमापादयेत्, तद्यथा-प्रतिक्षणमपूर्वज्ञानग्रहणेन ज्ञानंतथा शङ्कादिदोषपरिहारेण सम्यग्जीवादिपदार्थाधिगमेन च सम्यग्दर्शनम् अस्खलितमूलोत्तरगुणसंपूर्णपालनेन प्रत्यहमपूर्वाभिग्रहग्रहणेन चारित्रं वृद्धिमापादयेदिति। पाठान्तरंवा ‘सद्दहे साधुधम्मंच' पूर्वोक्तविशेषणविशिष्टंसाधुधर्ममोक्षमार्गत्वेन श्रद्दधीत निशङ्कतया गृह्णीयात्, चशब्दात्सम्यगनुपालयेच्च, तथापापं-पापोपादानकारणंधर्मप्राण्युपमर्दैन प्रवृत्तं निराकुर्यात्, तथोपधानं-तपस्तत्र यथाशक्त्या वीर्यं यस्य सभवत्युपधानवीर्यः, तदेवंभूतो भिक्षु क्रोधं मानं च न प्रार्थयेत् न वर्धयेद्वेति। मू. (५३२) जे य बुद्धा अतिकता, जे य बुद्धा अणागया। संति तेसिं पइट्टाणं, भूयाणं जगती जहा। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy