________________
२२२
सूत्रकृताङ्ग सूत्रम् १/११/-/५२४ वृ. दान्तिकं दर्शयितुमाह एव मिति तथा ढकादयो मत्स्यान्वेषणपरं ध्यानं ध्यायन्ति तदध्यायिनश्चकलुषाधमाभवन्ति एवमेव मिथ्याध्ष्टयःश्रमणा 'एके शाक्यादयोऽनार्यकर्मकारित्वात्सारम्भपरिग्रहतया अनार्याः सन्तो विषयाणां-शब्दादीनां प्राप्तिं ध्यायन्ति तद्धयायिनश्च कङ्का इव कलुषाधमा भवन्तीति ।। किञ्चमू. (५२५) सुद्धं मग्गं विराहित्ता, इहमेगे उदुम्मती।
उम्मग्गगता दुक्खं, धायमेसंति तंतहा। वृ.'शुद्धम् अवदातंनिर्दोषं मार्ग' सम्यग्दर्शनादिकंमोक्षमार्गंकुमार्गप्ररूपणाया 'विराध्य' 'दूषयित्वां ‘इह' अस्मिन संसारे मोक्षमार्गप्ररूपणप्रस्तावेवा एके' शाक्यादयः स्वदर्शनानुरागेण महामोहाकुलितान्तरात्मानो दुष्टा पापोपादानता मतिर्येषां ते दुष्टमतयः सन्त उन्मार्गेणसंसारावतरणरूपेण गताः-प्रवृत्ता उन्मार्गगता।
दुःखयतीति दुःखम्-अष्टप्रकारं कर्मासातोदयरूपं वा तदुःखं घातं चान्तशस्ते तथासन्मार्गविराधना उन्मार्गगमनं च ‘एषन्ते' अन्वेषयन्ति, दुःखमरणे शतशः प्रार्थयन्तीत्यर्थः । मू. (५२६) जहा आसाविणिं नावं, जाइअंधो दुरुहिया ।
इच्छई पारमागंतुं, अंतराय विसीयति ॥ वृ.शाक्यादीनांचापायं दिदर्शयिषुस्तावद्दष्टान्नमाह-यथा जात्यन्ध आविणी' शतच्छिद्रां नावमारुह्य पारमागन्तुमिच्छति, न चासौ सच्छिद्रतया पारगामी भवत, किं तर्हि ?, अन्तराल एव-जलमध्य एव विषीदति-निमज्जतीत्यर्थः। भू. (५२७) एवं तु समणा एगे, मिछिट्ठिी अनारिया।
सोयं कासिणमावन्ना, आगंतारो महब्भयं । वृ. दार्टान्तिकमाह-एवमेव श्रमणा ‘एके' शाक्यादयो मिथ्यादृष्टयोऽनार्या भावनोतःकर्माश्रवरूपं कृत्स्नं संपूर्णमापन्नाः सन्तस्ते महाभयं पौनःपुन्येनसंसारपर्यटनया नारकादिस्वभावं दुःखम् ‘आगन्तारः' आगमनशीला भवन्ति, न तेषां संसारोदधेराम्राविणी नावं व्यवस्थितानामिवोत्तरणं भवतीति भावः। मू. (५२८) इमंच धम्ममादाय, कासवेण पवेदितं ।
तरे सोयं महाघोरं, अत्तत्ताए परिव्वए॥ वृ.यतःशाक्यादयः श्रमणाः मिथ्यादृष्टयोऽनार्याकृत्स्नं स्रोतः समापन्नाः महाभयमागन्तारो भवन्तितत इदमुपदिश्यते-'इममितिप्रत्यक्षासन्नवाचित्वादिदमोऽनन्तरं वक्ष्यमाणलक्षणंसर्वलोकप्रकटंचदुर्गतिनिषेधेन शोभनगतिधारणात् 'धर्म' श्रुतचारित्राख्यं, चशब्दः पुनःशब्दार्थे, सच पूर्वस्माद्वयतिरेकं दर्शयति।
यस्माच्छौद्धोदनिप्रणीतधर्मस्यादातारोमहामयं गन्तारोभवन्ति,इमंपुनर्धर्मम् आदाय' गृहीत्वा 'काश्यपेन' श्रीवर्धमानस्वामिना 'प्रवेदितं' प्रणीतं 'तरेत्' लङ्घयेद्भावस्रोतः संसारपर्यटनस्वभावं,तदेव विशिनष्टि- महाघोरं' दुरुत्तरत्वान्महाभयानकं, तथाहि तदन्तर्वर्तिनो जन्तवोगर्भाद जन्मतोजन्ममरणान्मरणं दुःखाहुखमित्येवमरघट्टीघटीन्यायेनानुभवन्तोऽनन्तमपि कालमासते।तदेवंकाश्यपप्रणीतधर्मादानेन सता आत्मनस्त्राणं-नरकादिरक्षातस्मैआत्मत्राणाय परिः-समन्तात्परिव्रजेत्संयमानुष्ठायी भवेदित्यर्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org