________________
श्रुतस्कन्धः-१, अध्ययनं-११,
२१९
मू. (५१३) तहा गिरं समारब्भ, अत्थि पुण्णंति नो वए।
अहवा नत्थि पुण्णंति, एवमेयं महब्भयं ।। वृ. केनचिद्राजादिना कूपखननसत्रदानादिप्रवृत्तेन पृष्टः साधुः-किमस्मदनुष्ठाने अस्ति पुण्यमाहोस्विन्नास्तीति?, एवंभूतां गिरं 'समारभ्य' निशम्याश्रित्य अस्तिपुण्यं नास्ति वेत्येवमुभयथापि महाभयमिति मत्वा दोषहेतुत्वेन नानुमन्येत। मू. (५१४) दानट्ठया यजे पाणा, हम्मति तसथावरा।
तेसिं सारक्खणट्ठाए, तम्हा अस्थित्ति नो वए। वृ.किमर्थं नानुमन्येत इत्याह-अन्नपानदानार्थमाहारमुदकंच पचनपाचनादिकया क्रियया कूपखननादिकया चोपकल्पयेत, तत्र यस्माद 'हन्यन्ते' व्यापाद्यन्ते त्रसाः स्थावराश्च जन्तवः तस्मात्तेषां रक्षणार्थं' रक्षानिमित्तं साधुरात्मगुप्तो जितेन्द्रियोऽत्र भवदीयानुष्ठाने पुण्यमित्येवं नो वदेदिति। मू. (५१५) जेसिं तं उवकप्पंति, अन्नपाणं तहाविहं।
तेसिं लाभंतरायंति, तम्हा नस्थित्ति नो वए। वृ. यद्येवं नास्ति पुण्यमिति ब्रूयात्, तदेतदपि न ब्रूयादित्याह- येषां' जन्तूनां कृते 'तद्' अन्नपानादिकंकिलधर्मबुद्धया 'उपकल्पयन्ति' तथाविधंप्राण्युपमर्ददोषदुष्टं निष्पादयन्ति, तन्निषेधे चयस्मात् तेषाम्' आहारपानार्थिनांतत् 'लाभान्तरायो' विघ्नो भवेत्, तदभावेन तुतेपीड्येरन्, तस्मात्कूपखननसत्रादिके कर्मणि नास्ति पुण्यमित्येतदपि नो वदेदिति। मू. (५१६) जेय दानं पसंसंति, वहमिच्छंति पाणिणं ।
जे यणं पडिसेहंति, विचिच्छेयं करंति ते॥ वृ.एनमेवार्थंपुनरपिसमासतः स्पष्टतरं बिभणिषुराह-ये केचनप्रपासत्रादिकंदानं बहूनां जन्तूनामुपकारीतिकृत्वा 'प्रशंसन्ति' श्लाघन्ते ते परमार्थानभिज्ञाः प्रभूततरप्राणिनांतत्प्रशंसाद्वारेण 'वध' प्राणातिपातमिच्छन्ति, तद्दानस्य प्राणातिपातमन्तरेणानुपपत्तेः, येऽपिच किल सूक्ष्मधियो वयमित्येवंमन्यमानाआगमसद्भावानभिज्ञाः 'प्रतिषेधन्ति' निषेधयन्तितेऽप्यगीतार्था प्राणिनां 'वृत्तिच्छेदं' वर्तनोपायविघ्नं कुर्वन्तीति ॥ तदेवं राज्ञा वेश्वरेण कूपतडागयागसत्रदानाद्युद्यतेन पुण्यसद्भावं पृष्टैर्मुमुक्षुभिर्यद्विधेयं तद्दर्शयितुमाहमू. (५१७) दुहओवि ते न भासंति, अस्थि वा नत्थि वा पुणो ।
आयंरयस्स हेचा णं, निव्वाणं पाउणंतिते ।। वृ. यद्यस्ति पुण्यमित्येवमूचुस्ततोऽनन्तानां सत्त्वानां सूक्ष्मबादराणां सर्वदा प्राणत्याग एव स्यात्प्रीणनमात्रंतुपुनः स्वल्पानां स्वल्पकालीयमतोऽस्तीतिनवक्तव्यं नास्तिपुण्यमित्येवं प्रतिषेधेऽपितदर्थनामन्तरायः स्यादित्यतो 'द्विघापि' अस्ति नास्तिवापुण्यमित्येवं 'ते' मुमुक्षवः साधवः पुनर्नभाषन्ते, किंतुपृष्टैः सद्भिर्मीनंसमाश्रयणीयं, निर्बन्धे त्वस्माकंद्विचत्वारिंशद्दोषवर्जित आहारः कल्पते, एवंविधविषये मुमुक्षूणामधिकार एव नास्तीति, उक्तं च - ॥१॥ सत्यं वप्रेषु शीतं शशिकरधवलं वारि पीत्वा प्रकामं,
___ व्युच्छिन्नाशेषतृष्णाः प्रमुदितमनसः प्राणिसार्था भवन्ति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org