________________
२१८
सूत्रकृताङ्ग सूत्रम् १/११/-/५०८ कर्माण्यभिभूय मोक्षमार्गेपालयितव्ये प्रभुःसमर्थः,सएवंभूतः प्रभुः दूषयन्तीतिदोषा-मिथ्यात्वाविरतिप्रमादकषाययोगास्तान्। 'निराकृत्य' अपनीयकेनापिप्राणिनासार्धं 'नविरुध्येत'न केनचित्सह विरोधं कुर्यात, त्रिविधेनापियोगेनेतिमनसा वाचा कायेनचैवान्तशो-यावज्जीवं,परापकारक्रियया न विरोधं कुर्यादिति । उत्तरगुणानधिकृत्याहमू. (५०९) संवुडे से महापन्ने, धीरे दत्तेसणं चरे।
एसणासमिए निच्चं, वज्जयंते अनेसणं॥ वृ.आश्रवद्वाराणां रोधेनेन्द्रियनिरोधेन च संवृतःस भिक्षुर्महती प्रज्ञा यस्यासौ महाप्रज्ञोविपुलबुद्धिरित्यर्थः, तदनेन जीवाजीवादिपदार्थाभिज्ञतावेदिताभवति, धीरः' अक्षोभ्यः क्षुत्पिपासादिपरीषहैर्न क्षोभ्यते,तदेव दर्शयति
आहारोपधिशय्यादिकेस्वस्वामिना तत्संदिष्टेन वा दत्तेसत्येषणांचरतिएषणीयं गृह्णातीत्यर्थः, एषणाया एषणायां वा गवेषणग्रहणग्रासरूपायां त्रिविधायामपि सम्यगितः समितः, स साधुनित्य-मेषणासमितः सन्ननेषणां वर्जयन्' परित्यजन्संयममनुपालयेत्, उपलक्षणार्थत्वादस्य शेषाभिर-पीर्यासमित्यादिभिः समितो द्रष्टव्य इति। मू. (५१०) भूयाइं च समारंभ, तमुद्दिस्साय जंकडं।
तारिसंतुन गिण्हेजा, अन्नपाणं सुसंजए॥ वृ.अनेषणीयपरिहारमधिकृत्याह-अभूवन् भवन्ति भविष्यन्ति च प्राणिनस्तानि भूतानि प्राणिनः ‘समारभ्य' संरम्भसमारम्मारम्भैरुपतापयित्वातंसाधुम् ‘उद्दिश्य'साध्वर्थयत्कृतंतदुपकल्पितमाहारोपकरणादिकं।
'तादृशम्' आधाकर्मदोषदुष्टं 'सुसंयतः' सुतपस्वी तदन्नं पानकं वा न भुञ्जीत, तुशब्दस्यैवकारार्थत्वान्नैवाभ्यवहरेद्, एवं तेन मार्गोऽनुपालितो भवति। मू. (५११) पूईकम्मन सेविज्जा, एस धम्मे वुसीमओ।
जंकिंचि अभिकंखेजा, सव्वसो तं न कप्पए। वृ.किञ्च-आधाकर्माद्यविशुद्धकोट्यवयवेनापि संपृक्तं पूतिकर्म, तदेवंभूतमाहारादिकं 'न सेवेत' नोपभुञ्जीत, एषः-अनन्तरोक्तो धर्मः कल्पः स्वभावः 'वुसीमओ'त्ति सम्यक्संयमवतोऽयमेवानुष्ठानकल्पो यदुताशुद्धमाहारादिकं परिहरत्तीति, किञ्च
__यदप्यशुद्धतेवानभिकाङ्क्षत्-शुद्धमप्यशुद्धत्वेनाभिशङ्केत किञ्चिदप्याहरादिकंतत् सर्वशः' सर्वप्रकारमप्याहारोपकरणपूतिकर्म भोक्तुं न कल्पत इति। मू. (५१२) हनंतं नानुजाणेजा, आयगुत्ते जिइंदिए।
ठाणाइंसंति सड्ढीणं, गामेसु नगरेसुवा ।। वृ. किञ्चान्यत्-धर्मश्रद्धावतां ग्रामेषु नगरेषु वा खेटकर्बटादिपु वा स्थानानि' आश्रयाः 'सन्ति' विद्यन्ते।तत्र तत्स्थानाश्रितः कश्चिद्धर्मोपदेशेन किल धर्मश्रद्धालुतया प्राण्युपमर्दकारिणी धर्मबुद्धया कूपतडागखननप्रपासत्रादिकां क्रियां कुर्यात् तेन च तथाभूताक्रियायाः कर्ता किमत्र धर्मोऽस्तिनास्तीत्येवं पृष्टोऽपृष्टो वा तदुपरोधाद्भयाद्वातं प्राणिनोघ्नतं नानुजानीयात्, किंभूतः सन् ? -'आत्मना' मनोवाक्कायरूपेणगुप्त आत्मगुप्तः तथा 'जितेन्द्रियो' वश्येन्द्रियःसावद्यानुष्ठानं नानुमन्येत- सावद्यानुष्ठानानुमर्ति परिहर्तुकाम आह
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org