________________
२१७
श्रुतस्कन्धः - १, अध्ययनं-११, सुखलिप्सवश्च मन्वानो मतिमान् सर्वानपि प्राणिनो न हिंस्यादिति ।
युक्तयश्चतत्प्रसाधिकाःसंक्षेपेणेमाइति-सात्मिकापृथिवी, तदात्मनां विद्रुमलवणोपलादीनां समानजातीयाङ्कुरसद्भावाद्, अर्थोविकाराङ्कुरवत्।तथा सचेतनमम्भः, भूमिखननाविकृतस्वभावसंभवाद्, दर्दुरवत् ।तथा सात्मकं तेजः, तद्योग्याहारवृद्धया वृद्धयुपलब्धेः, बालकवत्। तथा सात्मको वायुः, अपराप्रेरितनियततिरश्चीनगतिमत्त्वात्, गोवत् ।
तथा सचेतना वनस्पतयः, जन्मजरामरणरोगादीनां समुदितानां सद्भावात्, स्त्रीवत्, तथा क्षतसंरोहणाहारोपादानदौहृदसद्भावस्पर्शसंकोचसायाह्नस्वापप्रबोधाश्रयोपसर्पणादिभ्यो हेतुभ्यो वनस्पतेश्चैतन्यसिद्धि । द्वीन्द्रियादीनांतुपुनः कृम्यादीनां स्पष्टमेव चैतन्यं, तद्वेदनाश्चौपक्रमिकाः स्वाभाविकाश्च समुपलभ्य मनोवाक्कायैः कृतकारितानुमतिभिश्च नवकेन भेदेन तत्पीडाकारिण उपमर्दानिवर्तितव्यमिति॥ मू. (५०६) एयंखु नाणिणो सारं, जंन हिंसति कंचण।
अहिंसा समयं चेव, एतावंतं विजाणिया। वृ.एतदेवसमर्थयन्नाह-खुशब्दोवाक्यालङ्कारेऽवधारणेवा, एतदेव' अनन्तरोक्तंप्राणातिपातनिवर्तनं ज्ञानिनो' जीवस्वरूपतद्वधकर्मबन्धवेदिनः 'सारं परमार्थतः प्रधानं, पुनरप्यादरख्यापनार्थमेतदेवाह-यत्कञ्चन प्राणिनमनिष्टदुःखं सुखैषिणं न हिनस्ति, प्रभूतवेदिनोऽपि ज्ञानिन एतदेवसारतरंज्ञानं ययाणातिपातनिवर्तनमिति, ज्ञानमपितदेव परमार्थतो यत्परपीडातोनिवर्तनं, तथा चोक्तम् - ॥१॥ “किं ताए पढियाए? पयकोडीए पलालभूयाए।
जस्थित्तियं न नायं परस्स पीडा न कायव्वा ॥ तदेवमहिंसाप्रधानः समय-आगमः संकेतोवोपदेशरूपस्तमेवंभूतमहिंसासमयमेतावन्तमेव विज्ञाय किमन्येन बहुना परिज्ञानेन ?, एतावतैव परिज्ञानेन मुमुक्षोर्विवक्षितकार्यपरिसमाप्तेरतो न हिंस्यात्कञ्चनेति। मू. (५०७) उटुंअहे य तिरियं, जे केइ तसथावरा।
सव्वत्थ विरतिं विजा, संति निव्वाणमाहियं ।। वृ. साम्प्रतं क्षेत्रप्राणातिपातमधिकृत्याह-ऊर्ध्वमघस्तिर्यक्च येकेचनत्रसाः-तेजोवायुद्वीन्द्रियादयः तथा स्थावराः-पृथिव्यादयः, किंबहुनोक्तेन? , सर्वत्र' प्राणिनित्रसस्थावरसूक्ष्मबादरभेदाभिन्ने 'विरतिं' प्राणातिपातनिवृत्तिं 'विजानीयात्' कुर्यात् ।
परमार्थत एवमेवासौ ज्ञाता भवति यदि सम्यक् क्रियत इति, एषैवच प्राणातिपातनिवृत्ति परेषामात्मनश्च शान्तिहेतुत्वाच्छान्तिवतते, यतो विरतिमतो नान्ये केचन बिभ्यति, नाप्यसौ भवान्तरेऽपि कुतश्चिबिभेति, अपिच-निर्वाणप्रधानैककारणत्वान्निर्वाणमपि प्राणातिपातनिवृत्तिरेव, यदिवाशान्तिः-उपशान्ततानिवृतिः-निर्वाणं विरतिमांश्चातरौद्रध्यानाभावदुपशान्तिरूपो निर्वृतिभूतश्च भवति। मू. (५०८) पभूदोसे निराकिच्चा, न विरुज्झेज केणई।
मणसा वयसा चेव, कायसा चेव अंतसो॥ वृ. किञ्चान्यत्-इन्द्रियाणां प्रभवतीति प्रमुर्वश्येन्द्रिय इत्यर्थः, यदिवा संयमावारकाणि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org