________________
२१६
सूत्रकृताङ्ग सूत्रम् १/११/-/५०२
ज्ञानैस्तीर्थकृद्भिरुपदिष्टं, तं चाहं सम्यक् श्रुत्वाऽवधार्य च युष्माकं शुश्रूषूणां 'प्रतिवक्ष्यामि' प्रतिपादयिष्यामि, सुधर्मस्वामी जम्बूस्वामिनं निश्रीकृत्यान्येषामपि जन्तूनां कथयतीत्येतद्दशयितुमाह-हे जन्तवोऽभिमुखीभूयतंचारित्रमार्गममकथयतः शृणुत यूयं, परमार्थकथनेऽत्यन्तमादरोत्पादनार्थमेवमुपन्यास इति। मू. (५०३) पुढवीजीवा पुढो सत्ता, आउजीवा तहाऽगणी।
वाउजीवा पुढो सत्ता, तणरुक्खा सबीयगा ।। वृ. चारित्रमार्गस्य प्राणातिपातविरमणमूलत्वात्तस्य च तत्परिज्ञानपूर्वकत्वादतो जीवस्वरूपनिरूपणार्थमाह-पृथिव्येवेपृथिव्याश्रिता वाजीवाः पृथ्वीजीवाः, तेच प्रत्येकशरीरत्वात् 'पृथक् प्रत्येकं सत्त्वा' जन्तवोऽवगन्तव्याः, तथा आपश्चजीवाः, एवमग्निकायाश्च, तथाऽपरे वायुजीवाः, तदेवं चतुर्महाभूतसमाश्रिताः पृथक् सत्त्वाः प्रत्येकशरीरिणोऽवगन्तव्याः, एत एव पृथिव्यप्तेजोवायुसमाश्रिताः सत्त्वाः प्रत्येकशरीरिणः, वक्ष्यमाणवनस्पतेस्तु साधारणशरीरत्वेनापृथकत्वमप्यस्तीत्यस्थार्थस्य दर्शनाय पुनः पृथक्सत्त्वग्रहणमिति।
वनस्पतिकायस्तु यः सूक्ष्मः स सर्वोऽपि निगोदरूपः साधारणो बादरस्तु साधारणोऽसाधारणश्चेति, तत्र प्रत्येकशरीरिणोऽसाधारणस्य कतिचिद्भेदान्निर्दिदिक्षुराह-तत्र तृणानिदर्भवीरणादीनि वृक्षाः-चूताशोकादयः सह बीजैः-शालिगोधूमादिभिर्वर्तन्त इति सबीजकाः, एते सर्वेऽपि वनस्पतिकायाः सत्त्वा अवगन्तव्याः, अनेन च बौद्धादिमतनिरासः कृतोऽवगन्तव्य इति । एतेषां च पृथिव्यादीनां जीवानां जीवत्वेन प्रसिद्धिस्वरूपनिरूपणमाचारे प्रथमाध्ययने शस्त्रपरिज्ञाख्ये न्यक्षेण प्रतिपादितमिति नेह प्रतन्यते। मू. (५०४) अहावरा तसा पाणा, एवं छक्काय आहिया।
एतावए जीवकाए, नावरे कोइ विजई।। ... वृ. षष्ठजीवनिकायप्रतिपादनायाह-तत्र पृथिव्यप्तेजोवायुवनस्पतय एकेन्द्रियाः सूक्ष्मबादरपर्याप्तापर्याप्तकभेदेन प्रत्येकं चतुर्विधाः, 'अथ' अनन्तरम् 'अपरे' अन्ये त्रसन्तीति त्रसाः-द्वित्रिचतुष्पञ्चेन्द्रियाः कृमिपिपीलिकाभ्रमरमनुष्यादयः, तत्र द्वित्रिचतुरिन्द्रियाः प्रत्येक पर्याप्तकापर्याप्तकभेदात्षड्विधाः, पञ्चेन्द्रियास्तु संझ्यसंज्ञिपर्याप्तकापर्याप्तकभेदाञ्चतुर्विधाः ।
तदेवमनन्तरोक्तया नीत्या चतुर्दशभूतग्रात्मकतया षड्जीवनिकाया व्याख्यातास्तीर्थकरगणधरादिभिः, 'एतावान्' एतभेदात्मक एव संक्षेपतो 'जीवनिकायो' जीवराशिर्भवति, अण्डजोद्भिज्जसंस्वेदजादेरत्रैवान्तर्भावान्नापरो जीवराशिर्विद्यते कश्चिदिति।तदेवंषड्जीवनिकायं प्रदर्श्य यत्तत्र विधेयं तद्दर्शयितुमाहमू. (५०५) सव्वाहिं अनुजुत्तीहिं, मतिमं पडिलेहिया।
सव्वे अक्कंतदुक्खा य, अतो सव्वे न हिंसया॥ वृ.सर्वायाःकाश्चनानुरूपाः-पृथिव्यादिजीवनिकायसाधनत्वेनानुकूला युक्तयः-साधनानि, यदिवा असिद्धविरुद्धानैकान्तिकपरिहारेण पक्षधर्मत्वसपक्षसत्त्वविपक्षव्यावृत्तिरूपतयायुक्तिसंगता युक्तयः अनुयुक्तयस्ताभिरनुयुक्तिभिः ‘मतिमान्' सद्विवेकी पृथिव्यादिजीवनिकायान् 'प्रत्युपेक्ष्य' पर्यालोच्य जीवत्वेन प्रसाध्य तथा सर्वेऽपि प्राणिनः ‘अकान्तदुःखा' दुःखद्विषः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org