________________
श्रुतस्कन्धः - १, अध्ययनं - ११,
सर्वज्ञप्रणीतं 'नः अस्माकं हे महा मुने ! 'ब्रूहि' कथयेति । मू. (४९९)
वृ.
जइनो केइ पुच्छिज्जा, देवा अदुव माणुसा । तेसिं तु कयरं मग्गं, आइक्खेज ? कहाहि नो । यद्यप्यस्माकमसाधारणगुणोपलब्धेर्युष्मत्प्रत्ययेनैव प्रवृत्ति स्यात् तथाप्यन्येषां मार्गः किंभूतो मयाऽऽख्येय इत्यभिप्रायवानाह यदा कदाचित् 'नः' अस्मान् 'केचन' सुलभबोधयः संसारोद्विग्नाः सम्यग्मार्गं पृच्छेयुः, केते ? 'देवाः' चतुर्निकायाः तथा मनुष्याः तथा मनुष्याःप्रतीताः, बाहुल्येन तयोरेव प्रश्नसद्- भावात्तदुपादानं, तेषां पृच्छतां कतरं मार्गमहम् 'आख्यास्ये' कथयिष्ये, तदेतदस्माकं त्वं जानानः कथयेति ॥
मू. (५००)
जइ वो केइ पुच्छिज्जा, देवा अदुव माणुसा । तेसिमं पडिसाहिज्जा, मग्गसारं सुणेह मे ॥
वृ. एवं पृष्टः सुधर्मस्वाम्हायह-यदि कदाचित् 'वः' युष्मान् केचन देवा मनुष्या वा संसारभ्रान्तिपराभग्नाः सम्यगमार्गं पृच्छेयुस्तेषां पृच्छताम् 'इम' मिति वक्ष्यमाणलक्षणं षडजीवनिकायप्रतिपादनगर्भं तद्रक्षाप्रवणं मार्गं 'पडिसाहिज्जे 'ति प्रतिकथयेत् ।
'मार्गसारम्' मार्गपरमार्थं यं भवन्तोऽन्येषां प्रतिपादयिष्यन्ति तत् 'मे' मम कथयतः श्रृणुत यूयमिति पाठान्तरं वा "तेसिं तु इमं मग्गं आइक्खेज्ज सुणेह मे' त्ति उत्तानार्थम् । पुनरपि मार्गामिष्टवं कुर्वन्सुधर्मस्वाम्याहपू. (५०१)
२१५
अनुपुव्वेण महाघोरं, कासवेण पवेइयं । जमादाय इओ पुव्वं, समुद्दं ववहारिणो ॥
वृ. यथाऽहम् ‘अनुपूर्वेण’ अनुपरिपाट्या कथयामि तथा शृणुत, यदिवा यथा चानुपूर्व्या सामग्या वा मार्गोऽवाप्यते तच्छृणुत, तद्यथा- 'पढमिल्लुगाण उदए' इत्यादि तावद्यावत् 'बारसविहे कसाए खविए उवसामिएव जोगेहिं । लब्भइ चरित्तलंभो" इत्यादि, तथा 'चत्तारि परमंगाणी' त्यादि किंभूतं मार्ग ? तमेव विशिनष्टि कापुरुषः संग्रामप्रवेशवत् दुरध्यवसेयत्वात् 'महाघोरं महाभयानकं 'काश्यपो' महावीरवर्धमानस्वामी तेन 'प्रवेदितं ' प्रणीतं मार्गं कथयिष्यामीति, अनेन स्वमनीषिकापरिहारमाह, यं शुद्धं मार्गम् 'उपादाय' गृहीत्वा 'इत' इति सन्मार्गोपादानात् 'पूर्वम्' आदावेवानुष्ठितत्वाद्दुस्तरं संसारं महापुरुषास्तरन्ति, अस्मिन्नेवार्थे दृष्टान्तमाह
व्यवहारः-पण्यक्रयविक्रयलक्षणो विद्यते येषां ते व्यवहारिणः -सांयात्रिकाः, यथा ते विशिष्टलाभार्थिनः किञ्चन्नगरं यियासवो यानपात्रेण दुस्तरमपि समुद्रं तरन्ति एवं साधवोऽप्यात्यन्तिकैकान्तिकावाधसुखैषिणः सम्यग्दर्शनादिना मार्गेण मोक्षं जिगमिषवो दुस्तरं भवौघं तरन्तीति अतरिंसु तरंतेगे, तरिस्संति अनागया ।
मू. (५०२)
तं सच्चा पडिवक्खामि, जंतवो तं सुणेह मे ॥
वृ. मार्गविशेषणायाह-यं मार्गं पूर्वं महापुरुषाचीर्णमव्यभिचारिणमाश्रित्य पूर्वस्मिन्ननादिके काले बहवोऽनन्ताः सत्त्वा अशेषकर्मकचवरविप्रमुक्ता भवीघं-संसारम् 'अतार्षुः ' तीर्णवन्तः, साम्प्रतमप्येके समग्रसामग्रीकाः संख्येयाः सत्वास्तरन्ति, महाविदेहादौ सर्वदा सिद्धिसद्भावाद्वर्तमानत्वं न विरुध्यते, तथाऽनागते च काले अपर्यवसानात्मकेऽनन्ता एव जीवास्तरिष्यन्ति । तदेवं कालत्रयेऽपि संसारसमुद्रोत्तारकं मोक्षगमनैककारणं प्रशस्तं भावमार्गमुत्पन्नदिव्य
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org