________________
२१४
सूत्रकृताङ्ग सूत्रम् १ /११ / ४९६ / नि. [११५]
- तथा 'धृति' रिति धरणं धृति सम्यगदर्शने सति चारित्रावस्थानं माषतुषादाविव विशिष्टज्ञानाभावाद्विवक्षयैवमुच्यते ५, तथा 'सुगति' रिति शोभना गतिरस्मात् ज्ञानाच्चारित्राच्चेति सुगतिः, 'ज्ञानक्रियाभ्यां मोक्ष' इति न्यायात्सुगतिशब्देन ज्ञानक्रिये अभिधीयेते, दर्शनस्य तु ज्ञानविशेषत्वादत्रैवान्तर्भावोऽवगन्तव्यः ६, तथा 'हित' मिति परमार्थतो मुक्त्यवाप्तिस्तत्कारणं वा हितं, तच्च सम्यग्दर्शनज्ञानचारित्राख्यमवगन्तव्यमिति ७, अत्र च संपूर्णानां सम्यग्दर्शनादीनां मोक्षमार्गत्वे सति यद्वयस्तसमस्तानां मोक्षमार्गत्वेनोपन्यासः स प्रधानोपसर्जनविवक्षया न दोषायेति, तथा 'सुख' मिति सुखहेतुत्वात्सुखम-उपशमश्रेण्यामुपशामकं प्रत्यपूर्वकरणानिवृत्तिबादरसूक्ष्मसंपरायरूपा गुणत्रयावस्था ८ |
,
- तथा 'पथ्य' मिति पथि- मोक्षमार्गे हितं पथ्यं तच्च क्षपक श्रेण्यां पूर्वोक्तं गुणत्रयं ९, तथा 'श्रेय' इत्युपशमश्रेणिमस्तकावस्था, उपशान्तसर्वमोहावस्थेत्यर्थः १०, तथा निर्वृतिहेतुत्वान्निवृति क्षीणमोहावस्थेत्यर्थः, मोहनीयविनाशेऽवश्यं निर्वृतिसद्भावादितिभावः ११, तथा 'निर्वाण'मिति घनघातिकर्मचतुष्टयक्षयेण केवलज्ञानावाप्ति १२, तथा 'शिवं' मोक्षपदं तत्करणशीलं शैलेश्यवस्थागमनमिति १३, एवमेतानि मोक्षमार्गत्वेन किञ्चिद्भेदाद् भेदेन व्याख्यातान्यभिधानानि, यदिवैते पर्यायशब्दा एकार्थिका मोक्षमार्गस्येति । गतो नामनिष्पन्नो निक्षेपः, तदनन्तरं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारयितव्यं तच्चेदम्
मू. (४९७)
कयरे मग्गे अक्खाए, माहणेणं मईमता ? । जं मग्गं उज्जु पावित्ता, ओहं तरति दुत्तरं ॥
वृ. विचित्रत्वात्रिकालविषत्वाच्च सूत्रस्यागामुकं प्रच्छकमाश्रित्य सूत्रमिदं प्रवृत्तम्, अतो जम्बूस्वामी सुधर्मास्वामिनमिदमाह, तद्यथा- 'कतरः किंभूतो 'मार्ग' अपवर्गावाप्तिसमर्थोऽस्यां त्रिलोक्याम्‘आख्यातः’प्रतिपादितो भगवता त्रैलोक्योद्धरणसमर्थेनैकान्तहितैषिण मा हनेत्येवमुपदेशप्रवृत्तिर्यस्यासौ माहनः - तीर्थकृत्तेन तमेव विशिनष्टि-मति-लोकालोकान्तर्गतसूक्ष्मव्यवहितविप्रकृष्टातीतनागतवर्तमानपदार्थाविर्भाविका केवलज्ञानाख्या यस्यास्त्यसौ मतिमांस्तेन,
-यं प्रशस्तं भावमार्गं मोक्षगमनं प्रति 'ऋजु' प्रगुणं यत्रवस्थितपदार्थस्वरूपनिरूपणद्वारेणावक्रं सामान्यविशेषनित्यानित्यादिस्याद्वादसमाश्रयणात्, तदेवंभूतं मार्गं ज्ञानदर्शनतपश्चारित्रात्मकं 'प्राप्य' लब्ध्वा संसारोदरविवरवर्ती प्राणी समग्रसामग्रीकः 'ओध' मिति भवौधं संसारसमुद्रं तरत्यत्यन्तदुस्तरं, तदुत्तरणतमग्र्या एव दुष्प्रापत्वात्, तदुक्तम्- "माणुस्सखेत्तजाईकुलरुवारोगमा - उयं बुद्धी । सवणोग्गहसद्धासञ्जमो य लोयंमि दुलहाई ।। इत्यादि । तं मग्गं नुत्तरं सुद्धं, सव्वदुक्खविमोक्खणं ।
मू. (४९८)
जाणासि णं जहा भिक्खू !, तं णो बूहि महामुनी ॥
वृ. स एव प्रच्छकः पुनरप्याह-योऽसौ मार्गः सत्त्वहिताय सर्वज्ञेनोपदिष्टोऽशेषैकान्तकौटिल्यवक्र रहितस्तं मार्ग, नास्योत्तरः प्रधानोऽस्तीत्यनुत्तरस्तं शुद्धः - अवदातो निर्दोषः पूर्वापरव्याहतिदोषापगमात्सावद्यानुष्ठानोपदेशाभावाद्वा तमिति, तथा सर्वाणि - अशेषाणि बहुभिर्भवैरुपचितानि दुःखकारणत्वाद्दुः खानि कर्माणि तेभ्यो 'विमोक्षणं' विमोचकं तमेवंभूतं मार्गमनुत्तरं निर्दोषं सर्वदुःखक्षयकारणं । हे भिक्षो ! तथा त्वं जानीषे 'ण' मिति वाक्यालङ्कारे तथा तं मार्गं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org