SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः - १, अध्ययनं - ११, चतुष्टयं मार्गादिष्वायोज्यं, आदिग्रहणादन्यच्चापि समाध्यादावायोज्यमिति । सम्यगमिध्यात्वमार्गयोः स्वरूपनिरूपणायाह नि. [११२] सम्मप्पणिओ मग्गो णाणे तह दंसणे चरित्ते य । चरगपरिव्वायादीचिण्णो मिच्छत्तमग्गोउ || वृ. सम्यगज्ञानं दर्शनं चारित्रं चेत्ययं त्रिविधोऽपि भावमार्गः 'सम्यग्द्दष्टिभिः' तीर्थकरगणधरादिभिः सम्यग्वा यथावस्थितवस्तुतत्त्वनिरूपणया प्रणीतस्तैरेव सम्यगाचीर्ण इति, चरकपरिव्राजकादिभिस्तु 'आचीर्ण' आसेवितो मार्गो मिथ्यात्वमार्गोऽप्रशस्तमार्गो भवतीति । तुशब्दोऽस्य दुर्गतिफल- निबन्धनत्वेन विशेषणार्थ इति । नि. [११३] इड्ढिरससायगया छज्जीवनिकायघायनिरया । जे उवदिसंति मग्गं कुमग्गमग्गस्सिता ते उ । २१३ वृ. स्वयूथ्यानामपि पार्श्वस्थादीनां षड्जीवनिकायोपमर्दकारिणां कुमार्गाश्रितत्वं दर्शयितुमाह-ये केचन अपुष्टधर्माणः शीतलविहारिणः ऋद्धिरससातगौरवेण 'गुरुकाः' गुरुकर्माण आधाकर्माद्युपभोगाभ्युपगमेन षड्जीवनिकायव्यापादनरताश्च अपरेभ्यो 'मार्ग' मोक्षमार्गमात्मानुचीर्णमुपदिशन्ति, तथाहि शरीरमिदमाद्यं धर्मसाधनमिति मत्वा कालसंहननादिहानेश्चाधाकर्माद्युप - भोगोऽपि न दोषायेत्येवं प्रतिपादयन्ति, ते चैवं प्रतिपादयन्तः कुत्सितमार्गास्तीर्थिकास्तन्मा-र्गाश्रिता भवन्ति । तुशब्दादेतेऽपि स्वयूथ्या एतदुपदिशन्तः कुमार्गाश्रिता भवन्तीति किंपुनस्तीर्थिका इति । नि. [११४] तवसंजमप्पहजा गुणधारी जे वयंति सब्भावं । सव्वजगज्जीवहियं तमाहु सम्मप्पनीयमिणं ॥ वृ. प्रशस्तशास्त्रप्रणयनेन सन्मार्गाविष्करणायाह-तपः- सबाह्याभ्यन्तरं द्वादशप्रकारं तथा संयमः-सप्तदशभेदःपञ्चाश्रवविरमणादिलक्षणस्ताभ्यां प्रधानास्तपः संयमप्रधानाः, तथाऽष्टादशशीलाङ्गसहस्राणि गुणास्तद्धारिणो गुणधारिणो ये सत्साधवस्त एवंभूता यं 'सद्भावं परमार्थं जीवाजीवादिलक्षणं 'वदन्ति' प्रतिपादयन्ति, किंभूतं ! - सर्वस्मिन् जगति ये जीवास्तेभ्यो हितंपथ्य तद्रक्षणतस्तेषां सदुपदेशदानतो वा तं सन्मार्गं सम्यङ्गार्गज्ञाः 'सम्यग्' अविपरीतत्वेन प्रणीतम् 'आहुः' उक्तवन्त इति । नि. [११५] पंथो मग्गो नओ विहा धिती सुगती हियं ( तह) सुहं च । पत्थं सेयं निव्वुइ निव्वाणं सिवकरं चेव ॥ वृ. - साम्प्रतं सन्मार्गस्यैकार्थिकान् दर्शयितुमाह-देशाद्विवक्षितदेशान्तरप्राप्तिलक्षणः पन्थाः, स चेह भावमार्गाधिकारे सम्यकत्वावाप्तिरूपोऽवगन्तव्यः १, तथा 'मार्ग' इति पूर्वस्माद्विशुध्ध्या विशिष्टतरो मार्गः, स चेह सम्यगज्ञानावाप्तिरूपोऽवगन्तव्यः २, तथा 'न्याय' इति निश्चयेनायनंविशिष्टस्थानप्राप्तिलक्षणं यस्मिन् सति स न्यायः, स चेह सम्यकचारित्रावाप्तिरूपोऽवगन्तव्यः, सत्पुरुषाणामयं न्याय एव यदुत अवाप्तयोः सम्यग्दर्शनज्ञानयोस्तत्फलभूतेन सम्यकचारित्रेण योगो भवतीत्यतो न्यानशब्देनात्र चारित्रयोगोऽभिधीयत इति ३, तथा 'विधि' रिति विधानं विधिः सम्यगज्ञानदर्शनयोर्यौगपद्येनावाप्ति ४ । For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy