________________
२१२
सूत्रकृताङ्ग सूत्रम् १/११/-/४९६ / नि. [१०८]
यत्र रज्ज्वा किञ्चिदतिदुर्गमतिलङ्घयते, 'दवनं'ति यानं तन्मार्गे दवनमार्ग, बिलमार्गो यत्र तु गुहाद्याकारेण बिलेन गम्यते, पाशप्रधानो मार्ग पाशमार्ग पाशकूटवागुरान्वितो मार्ग इत्यर्थः, कीलकमार्गो यत्र वालुकोत्कटे मरुकादिविषये कीलकाभिज्ञानेन गम्यते, अजमार्गो यत्र अजेनबस्त्येन गम्यते, त्त्यथा सुवर्णाभूम्यां चारुदत्तो गत इति, पक्षिमार्गे यत्र भारुण्डादिपक्षिभिर्देशान्तरमवाप्यते, छत्रमार्गो यत्र छत्रमन्तरेण गन्तुंन शक्यते, जलमार्गोयत्र नावादिना गम्यते, आकाशमार्गे विद्याधरादीनाम्, अयं सर्वोऽपि फलकादिको 'द्रव्ये' द्रव्यविषयेऽवगन्तव्य इति । खेत्तंमि जंमि खेत्ते काले कालो जहिं हवइ जो उ ।
नि. [१०९ ]
भावंमि होति दुविहो पसत्थ तह अप्पसत्थो य ॥
वृ.क्षेत्रादिमार्गप्रतिपादनायाह-क्षेत्रमार्गेः पर्यालोच्यमाने यस्मिन् 'क्षेत्रे' ग्रामनगरादौ प्रदेशे वा शिलाक्षेत्रादिके वा क्षेत्रे यो याति मार्गो यस्मिन्वा क्षेत्रे व्याख्यायते स क्षेत्रमार्गः, एवं कालेऽप्यायोज्यं । भावे त्वालोच्यमाने द्विविधो भवति मार्ग, तद्यथा प्रशस्तोऽप्रशस्तश्चेति ।
नि. [११०] दुविहंमिवि तिगभेदो नेओ तस्स विणिच्छओ दुविहो । सुगतिफलदुग्गतिफलो पगयं सुगतीफलेणित्थं ॥
वृ. प्रशस्ताप्रशस्तभेदप्रतिपादनायाह- 'द्विविधेऽपि' प्रशस्ताप्रशस्तरूपे भावमार्गे प्रत्येकं त्रिविधो भेदो भवति, तत्राप्रशस्तो मिथ्यात्वमविरतिरज्ञानं चेति, प्रशस्तस्तु सम्यग्दर्शनज्ञानचारित्ररूप इति, 'तस्य' प्रशस्ताप्रशस्तरूपस्य भावमार्गस्य 'विनिश्चयो' निर्णयः फलं कार्यं निष्ठा द्वेधा, तद्यथा- प्रशस्तः सुगतिफलोऽप्रशस्तश्च दुर्गतिफल इति । इह तु पुनः 'प्रस्तावः' अधिकारः 'सुगतिफलेन' प्रशस्तमार्गेणेति । नि. [999]
दुग्गइफलवादीणं तिन्नि तिसट्टा सताइ वादीणं ।
खेमे य खेमरूवे चउक्कगं मग्गमादीसु ॥
वृ. तत्राप्रशस्तं दुर्गतिफलं मार्गं प्रतिपिपादयिषुस्तत्कर्तृन्निर्दिदिक्षुराह-दुर्गति फलं यस्य स दुर्गतिफलस्तद्वदनशीला दुर्गतिफलवादिनस्तेषां प्रावादुकानां त्रीणि त्रिष्ट्यधिकानि शतानि भवन्ति, दुर्गतिफलमार्गोपदेष्टृत्वं च तेषां मिथ्यात्वोपहतदृष्टतया विपरीतजीवादितत्त्वाभ्युपगमात्, तत्संख्या चैवमवगन्तव्या, तद्यथा
119 11
असियसयं किरियाणं अकिरियवाईण होइ चुलसी । अन्नाणिय सत्तट्ठी वेणइयाणं च बत्तीसं ॥ तेषां च स्वरूपं समवसरणाध्ययने वक्ष्यत इति ॥
साम्प्रतं मार्गं भङ्गद्वारेण निरूपयितुमाह, तद्यथा-एकः क्षेमो मार्गस्तस्करसिंहव्याघ्राद्युपद्रवरहितत्वात् तथा क्षेमरूपश्च समत्वात्तथा छायापुष्पफलवद्वृक्षोपेतजलाश्रयकुलत्वाच्च १ तथा परः क्षेमो निश्चीरः किंत्वक्षेमरूप उपलशकलाकुलगिरिनदिकण्टकगर्ताशताकुलत्वेन विषमत्वात्, तथाऽपरोक्षेमस्तकरादिभयोपेतत्वात्क्षेमरूपश्चोपलशकलाद्यभावतया समत्वात्, तथाऽन्योन क्षेमो नापि क्षेमरूपः सिंहव्याघ्रतस्करादिदोषदुष्वात्तथा गर्तापाषाणनिम्नोन्नतादिदोष- दुष्टत्वाच्चेति, एवं भावमार्गोऽप्यायोज्यः, तद्यथा - ज्ञानादिसमन्वितो द्रव्यलिङ्गोपेतश्च साधु क्षेमः क्षेमरूपश्च तथा क्षेमोऽक्षेमरूपस्तु स एव भावसाधुः कारणिकद्रव्यलिङ्गरहितः, तृतीयभङ्गकगता निह्ववाः, परतीर्थि का गृहस्थाश्चरमभङ्गकवर्तिनो द्रष्टव्याः । एवमनन्तरोक्तया प्रक्रियया 'चतुष्ककं' भङ्गक
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org