________________
श्रुतस्कन्धः - १, अध्ययनं - १०,
२०३
त्वेनाभ्युपगम्य स्वयं न छिन्दन्ति तच्छेदनादावुपदेशं तु ददति तथा कार्षापणादिकं हिरण्यं स्वतो न स्पृशन्ति अपरेण तु तत्परिग्रहतः क्रयविक्रयं कारयन्ति तच्छेदनादावुपदेशं तु ददति तथा कार्षापणादिकं हिरण्यं स्वतो न स्पृशन्ति अपरेण तु तत्परिग्रहतः क्रयविक्रयं कारयन्ति, तथा साङ्ख्याः सर्वमप्रच्युतानुत्प- न्नस्थिरैकस्वभावं नित्यमभ्युपगम्य कर्मबन्धमोक्षाभावप्रसङ्गदोषभयादाविर्भावतिरोभावावाश्रितवन्त इत्यादिकौटिल्य भावपरिहारेणावक्रं तथ्यं धर्ममाख्यातवान्
तथा सम्यगाधीयते -मोक्षं तन्मार्गं वा प्रत्यात्मा योग्यः क्रियते व्यवस्थाप्यते येन धर्मेणासौ धर्म समाधिस्तं समाख्यातवान्, यदिवा-धर्ममाख्यातवांस्तत्समाधिं च धर्मध्यानादिकमिति ।
सुधर्मस्वाम्याह-तमिमं धर्म समाधिं वा भगवदुपदिष्टं शृणुत यूयं, तद्यथा- न विद्यते एहिकामुष्मिकरूपा प्रतिज्ञा-आकाङ्क्ष तपोऽनुष्ठानं कुर्वतो यस्यासावप्रतिज्ञो, भिक्षणशीलो भिक्षु तुर्विशेषणे भावभिक्षुः, असावेव परमार्थतः साधुः, धर्मे धर्मसमाधिं च प्राप्तोऽसावेवेति, तथा न विद्यते निदानमारम्भरूपं 'भूतेषु' जन्तुषु यस्यासावनिदानः ।
स एवम्भूतः सावधानुष्ठानरहितः परि-समन्तात्संयमानुष्ठाने 'व्रजेद्' गच्छेदिति, यदिवाअनिदानभूतः - अनाश्रवभूतः कर्मोपादानरहितः सुष्ठु परिव्रजेत् सुपरिव्रजेत्, यदिवा अनिदानभूतानि अनिदानकल्पानि ज्ञानादीनि तेषु परिव्रजेत्, अथवा निदानं हेतुः कारणं दुःखस्यातौऽनिदानभूतः कस्यचिद्दुखमनुपपादयन् संयमे पराक्रमेतेति ।
मू. (४७४) उडूढं अहे यं तिरियं दिसासु, तसा य जे थावर जे य पाणा । हत्थेहि पाएहि य संजमित्ता, अदिन्नमन्नेसु य नो गहेज्जा ।।
वृ. प्राणातिपातादीनि तु कर्मणो निदानानि वर्तन्ते, प्राणातिपातोऽपि द्रव्यक्षेत्रकालभावभेदाच्चतुर्घा, तत्र क्षेत्रप्राणातिपातमधिकृत्याह-सर्वोऽपि प्राणातिपातः क्रियमाणः प्रज्ञापकापेक्षयोर्ध्वमधस्तिर्यक् क्रियते, यदिवा - ऊर्ध्वाधस्तिर्यक्रूरूपेषु त्रिषु लोकेषु तथा प्राच्युदिषु दिक्षु विदिक्षु चेति, द्रव्यप्राणातिपातस्त्वयं ।
त्रस्यन्तीति त्रसा-द्वीन्द्रियादयो येच 'स्थावराः पृथिव्यादयः, चकारः स्वगतभेदसंसूचनार्थ, कालप्राणातिपातसंसूचनार्थो वा दिवा रात्रौ वा, 'प्राणाः' प्राणिनः, भावप्राणातिपातं त्वाह-एतान् प्रागुक्तान् प्राणिनो हस्तपादाभ्यां 'संयम्य' बद्धवा उपलक्षणार्थ त्वादस्यान्यथा वा कदर्थयित्वा यत्तेषां दुःखोत्पादनं तन्न कुर्यात् ।
यदिवैतान् प्राणिनो हस्तौ पादौ च संयम्य संयतकायः सन्न हिंस्यात्, चशब्दादुच्छ्वासनिश्वासकासितक्षुतवातनिसर्गादिषु सर्वत्र मनोवाक्कायकर्मसु संयतो भवन् भावसमाधिमनुपालयेत्, तथा परैरदत्तं न गृह्णीयादिति तृतीयव्रतोपन्यासः, अदत्तादाननिषेधाच्चार्थतः परिग्रहो निषिद्धो भवति । नापरिगृहीतमासेव्यत इति मैथुननिषेधोऽप्युक्तः समस्तव्रतसम्यकपालनोपदेशाच्च मृषावादोऽप्यर्थतो निरस्त इति ॥
,
मू. (४७५) सुयक्खायधम्मे वितिगिच्छतिन्ने, लाढे चरे आयतुले पयासु ।
आयं न कुज्जा इह जीवियट्ठी, चयं न कुज्जा सुतवस्सि भिक्खू ।।
वृ. ज्ञानदर्शनसमाधिमधिकृत्याह- सुष्ट्वाख्यातः श्रुतचारित्राख्यो धर्मो येन साधुनाऽसौ स्वाख्या- तधर्मा, अनेन ज्ञानसमाधिरुक्तो भवति, न हि विशिष्टपरिज्ञानमन्तरेण स्वाख्यातधर्मत्व
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org