SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ २०२ सूत्रकृताङ्ग सूत्रम् १/१०/-/४७२/नि. [१०६] यस्मिन्वा काले समाधिख्यिायते स कालप्राधान्यात् कालसमाधिरिति । भावसमाधि त्वधिकृत्याह-भावसमाधिस्तु दर्शनज्ञानतपश्चारित्रभेदाचतुर्द्धा, तत्र चतुर्विधमपिभावसमाधिसमासतो गाथापश्चार्धेनाह-मुमुक्षुणाचर्यतइतिचरणंतत्रसम्यक्चरणेचारित्रेव्यवस्थितः-समुधुक्तः 'साधुः' मुनिश्चतुर्वपि भावसमाधिभेदेषुदर्शनज्ञानतपश्चारित्ररूपेषु सम्यगाहितो-व्यवस्थापित आत्मायेनससमाहितात्मा भवति, इदमुक्तं भवति-यः सम्यकचरणे व्यवस्थितःसचतुर्विधभावसमाधिसमाहितात्मा भवति, योवाभावसमाधिसमाहितात्माभवति, स सम्यकचरणे व्यवस्थितो द्रष्टव्य इति, तथाहि-दर्शनसमाधौ व्यवस्थितो जिनवचनभावितान्तःकरणो निवातशरणप्रदीपवन कुमतिवायुभिर्धाम्यते, ज्ञानसमाधिनातुयथा यथाऽपूर्वं श्रुतमधीते तथा तथाऽतीव भावसमाधावुधुक्तो भवति, तथा चोक्तम् - ॥१॥ “जह जह सुयमवगाहइ अइसयरसपसरसंजुयमउव्वं ।। तह तह पल्हाइ मुनी नवनवसंवेगसद्धाए। चारित्रसमाधावपि विषयसुखनिस्पृहतया निष्किञ्चनोऽपि परं समाधिमाप्नोति, तथा चोक्तम्॥१॥ "तणसंथारणिसन्नोऽविमुनिवरो भट्ठरागमयमोहो। जंपावइ मुत्तिसुहं कत्तोतं चक्कवट्टी वि?॥ ॥२॥ नैवास्ति राजराजस्य तत्सुखं नैव देवराजस्य। यत्सुखमिहैव साधोर्लोकव्यापाररहितस्य । इत्यादि, तपःसमाधिनापि विकृष्टतपसोऽपि नग्लानिर्भवति तथा क्षुत्तृ ष्णादिपरीषहेभ्यो नोद्विजते, तथा अभ्यस्ताभ्यन्तरतपोध्यानाश्रितमनाः सनिर्वाणस्थइव नसुखदुःखाभ्यांबाध्यत इत्येवं चतुर्विधभावसमाधिस्थः सम्यकचरणव्यवस्थितो भवति साधुरिति ।। गतो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्चेदंमू. (४७३) आघं मईमं मणुवीय धम्मं, अंजू समाहि तमिणं सुणेह । ___ अपडिन्न भिक्खू उ समाहिपत्ते, अनियाण भूतेसु परिव्वएज्जा॥ वृ.अस्यचायमनन्तरसूत्रेण सहसम्बन्धः, तद्यथा-अशेषगारवपरिहारेणमुनिर्निवाणमनुसन्धयेदित्येतद्भगवानुत्पन्नदिव्यज्ञानः समाख्यातवान् एतच्च वक्ष्यमाणमाख्यातवानिति, ‘आघंति आख्यातवान्कोऽसौ ? - मतिमान् मननं मति-समस्तपदार्थपरिज्ञानंतद्विद्यतेयस्यासौ मतिमान् केवलज्ञानीत्यर्थ, तत्रासाधारणविशेषणोपादानात्तीर्थकृद् गृह्यते, असावपि प्रत्यासत्तेर्वीरवर्धमानस्वामी गृह्यते, किमाख्यातवान् ?-'धर्म' श्रुतचारित्राख्यं,। कथम्? -'अनुविचिन्त्य' केवलज्ञानेन ज्ञात्वा प्रज्ञापनायोग्यान्पदार्थानाश्रित्य धर्मं भाषते, यदिवा-ग्राहकमनुविचिन्त्य कस्यार्थस्यायं ग्रहणसमर्थः? तथा कोऽयं पुरुषः? कञ्च नतः? किं वा दर्शनमापन्न? इत्येवंपर्यालोच्य, धर्मशुश्रूषवोवामन्यन्ते-यथाप्रत्येकमस्मदभिप्रायमनुविचिन्त्य भगवान् धर्म भाषते, युगपत्सर्वेषां स्वभाषापरिणत्या संशयापगमादिति, किंभूतं धर्म भाषते?। ___ 'ऋजुम्' अवक्रं यथावस्थितवस्तुस्वरूपनिरूपणतो, न यथा शाक्याः सर्वं क्षणिकमभ्युपगम्य कृतनाशाकृताभ्यागमदोषभयात्सन्तानाभ्युपगमं कृतवन्तः तथा वनस्पतिमचेतन Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy