SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः-१, अध्ययनं-१०, २०१ - (अध्ययन-१० “समाधि") वृ. नवमानन्तरंदशममारभ्यते-अस्य चायमभिसम्बन्धः, इहानन्तराध्ययने धर्मोऽभिहितः, स चाविकलः समाधौ सति भवतीत्यतोऽधुना समाधि प्रतिपाद्यते, इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्युपक्रमादीन्यनुयोगद्वाराणि वाच्यानि, तत्रोपक्रमद्वारान्तर्गतोऽधिकारोऽयं । तद्यथा-धर्मे समाधि कर्तव्यः, सम्यगाधीयते-व्यवस्थाप्यते मोक्षं तन्मार्ग वाप्रति येनात्माधर्मध्यानादिना स समाधि-धर्मध्यानादिकः, सच सम्यग्ज्ञात्वा स्पर्शनीयः, नामनिष्पन्नं तु निक्षेपमधिकृत्य नियुक्तिकृदाहनि. [१०३] आयाणपदेणाऽऽघं गोणं नामं पुणो समाहित्ति । निक्खिविऊण समाहिं भावसमाहीइ पगयं तु॥ नि. [१०४] नामंठवणादविए खेत्ते काले तहेव भावे य । एसो उ समाहीए निक्खेवो छव्विहो होइ॥ नि. [१०५] पञ्चसु विसएसु सुभेसु दव्वंभित्ता भवे समाहित्ति । खेत्तं तुजम्मि खेत्ते काले कालो जहिं जो ऊ ।। नि. [१०६] भावसमाहि चउब्विह दंसणनाणे तवे चरित्ते य। चउसुवि समाहियप्पा संमंचरणट्ठिओ साहू ॥ वृ.आदीयते-सह्यते प्रथममादौ यत्तदादाम् आदानंचतत्पदंचसुबन्तं तिङ्न्तवातदादान पदं तेन ‘आध' ति नामास्याध्ययनस्य यस्मादध्ययनादाविदं सूत्रम् –'आघमईमं मणुवीइ धम्म' मित्यादि यथोत्तराध्ययनेषु चतुर्थमध्ययनं प्रभादाप्रमादाभिघायकमप्यादानपदेन 'असंखय मित्युच्यते, गुण निष्पन्नं पुनरस्याध्ययनस्य नाम समाधिरीति, यस्मात्स एवात्र प्रतिपाद्यते तेच समाधि'- नामादिना निक्षिप्य भावसमाधिनेह 'प्रकृतम्' अधिकार इति । समाधिनिक्षेपार्थमाह-नामस्थापनाद्रव्यक्षेत्रकालभावभेदात् एषतुसमाधिनिक्षेपः षड्विधो भवति, तुशब्दो गुणनिष्पन्नस्यैव नाम्नो निक्षेपोभवतीत्यस्यार्थस्याविर्भावनार्थ इति, नामस्थापने सुगमत्वादनाध्त्य द्रव्यादिकमधिकृत्याह। पञ्चस्वपिशब्दादिषुमनोज्ञेषु विषयेषु श्रोत्रादीन्द्रियाणं यथास्वंप्राप्ती सत्यां यस्तुष्टि विशेषः स द्रव्यसमाधिः, तदन्यथा त्वसमाधिरिति, यदिवा द्रव्ययोर्द्रव्याणां वा सम्मिश्राणामविरोधिनां सतांनरसोपघातोभवतिअपितुरसपुष्टिस द्रव्यसमाधिः, तद्यथा-क्षीरशर्करयोदधिगुडचातुर्जातकादीनां चेति, येन वा द्रव्येणोपभुक्तेन समाधिपानकादिना समाधिर्भवति तद्रव्यं द्रव्यसमाधिः, तुलादावारोपितंवायत्द्रव्यंसमतामुपैतीत्यादिको द्रव्यसमाधिरिति, क्षेत्रसमाधिस्तुयस्य यस्मिन् क्षेत्रेव्यवस्थितस्यसमाधिरुत्पद्यते स क्षेत्रप्राधान्यात्क्षेत्रसमाधि यस्मिन्वा क्षेत्रे समाधिव्यार्वर्ण्यत इति, कालसमाधिरपियस्ययंकालमवाप्यसमाधिरुत्पद्यते, तद्यथा-शरदि गवांनक्तमुलूकानामहनि बलिभुजां, यस्य वा यावन्तंकालंसमाधिर्भवति यस्मिन्वाकाले समाधियाख्यायतेस कालप्राधान्यात् क्षेत्रसमाधियस्मिन्वा क्षेत्रे समाधिविण्येत इति, कालसमाधिरपियस्ययंकालमवाप्यसमाधिरुत्पद्यते, तद्यथा-शरदि गवां नक्तमुलूकानामहनि बलिभूजा, यस्य वा यावन्तं कालं समाधिर्भवति . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy