________________
१९८
सूत्रकृताङ्ग सूत्रम् १/९/-/४६४
कुशीलः ‘सदा' सर्वकालं भिक्षणशीलो भिक्षु कुशीलो न भवेत्, न चापि कुशीलैः सार्धं 'संसर्ग' साङ्गत्यं भजेत' सेवेत, तत्संसर्गदोषोद्विभावविषयाऽऽह ।
'सुखरूपाः' सातगौरवस्वभावाः तत्र' तस्मिन् कुशीलसंसर्गेसंयमोपघातकारिणउपसर्गा प्रादुष्यन्ति, तथाहि-ते कुशीला वक्तारो भवन्ति-कः किल प्रासुकोदकेन हस्तपाददन्तादिके प्रक्षाल्यमाने दोषः स्यात् ?, तथा नाशरीरो धर्मो भवति इत्यतो येन केनचित्प्रकारेणाधाकर्मसन्निध्यादिना तथा उपानच्छत्रादिना च शरीरं धर्माधारं वर्तयेत्, उक्तंच॥१॥ “अप्पेण बहुमेसेजा, एयं पंडियलक्खणं" इति,
तथा-"शरीरं धर्मसंयुक्तं, रक्षणीयं प्रयत्नतः ।
शरीरात् स्वते धर्म, पर्वतात्सलिलं यथा ।। तथा साम्प्रतमल्पानि संहनानि अल्पधृतयश्च संयमेजन्तव इत्येवमादि कुशीलोक्तं श्रुत्वा अल्पसत्त्वास्तत्रानुषजन्तीति 'विद्वान्' विवेकी 'प्रतिबुध्येत' जानीयात् बुद्धा चापायरूपं कुशीलसंसर्गपरिहरेदिति । किञ्चान्यत्मू. (४६५) नन्नत्य अंतराएणं, परगेहे न निसीयए।
गामकुमारियं किडं, नातिवेलं हसे मुनी। वृ. तत्र साधुर्भिक्षादिनिमित्तं ग्रामादौ प्रविष्टः सन् परो-गृहस्थस्तस्य गृहं परगृहं तत्र ‘न निषीदेत्' नोपवशेत् उत्सर्गतः, अस्यापवादंदर्शयति-नान्यत्र 'अन्तरायेणे'तिअन्तरायः शक्यभावः, सच जरसा रोगातङ्काभ्यां स्यात्, तस्मिंश्चान्तराये सत्युपविशेत् यदिवा।
उपशमलब्धिमान कश्चित्सुसहायो गुर्वनुज्ञातः कस्यचित्तथाविधस्य धर्मदेशनानिमित्तमुपविशेदपि, तता ग्रामे कुमारका ग्रामकुमारकास्तेषामियं ग्रामकुमारिका काऽसौ ?-'क्रीडा' हास्यकन्दर्पहस्तसंस्पर्शनालिङ्गनादिका यदिवा वट्टकन्दुकादिका तां मुनिन कुर्यात्।
तथा वेला-मर्यादा तामतिक्रान्तमतिवेलं न हसेत्, मर्यादामतिक्रम्य 'मुनिः' साधुः ज्ञानावरणीयाद्यष्टविधकर्मबन्धनभयान्न हसेत्, तथाचागमः-“जीवेणंभंते! हसमाणे उस्सूयमाणे वा कइ कम्मपगडीओ बंधइ?, गोयमा!, सत्तविहबंधए वा अट्टविहबंधए वा" इत्यादि। मू. (४६६) अनुस्सुओ उरालेसु, जयमाणो परिव्वए।
चरियाए अप्पमत्तो, पुट्ठो तत्थऽहियासए। वृ.किञ्च-'उराला' उदाराःशोभनामनोज्ञा ये चक्रवत्यार्दीनांशब्दादिषुविषयेषुकामभोगा वस्त्राभरणगीतगन्धर्वयानवाहनादयस्तथाआज्ञैश्वर्यादयश्च एतेषूदारेषुद्दष्टेषुश्रुतेषुवानोत्सुकः स्यात्, पाठान्तरं वा न निश्रितोऽनिश्रितः-अप्रतिबद्धः स्यात्।।
यतमानश्च-संयमानुष्ठाने परि-समन्तान्मूलोत्तरगुणेषु उद्यमं कुर्वन् ‘व्रजेत्' संयमं गच्छेत् तथा 'चर्यायां भिक्षादिकायाम् ‘अप्रत्तमः स्यात्' नाहारादिषुरसगार्थ्यविदध्यादिति, तथा स्पृष्टश्च' परीषहोपसर्गस्तत्रादीनमनस्कः कर्मनिर्जरां मन्यमानो 'विषहेत्' सम्यक् सह्यादिति। मू. (४६७) हम्ममाणो न कुप्पेज, वुश्चमाणो न संजले ।
सुमणे अहियासिज्जा, न य कोलाहलं करे ॥ वृ.परीषहोपसर्गाधिसहनमेवाधिकृत्याह-'हन्यमानो' यष्टिमुष्टिलकुटादिभिरपिहतश्च ‘न
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org