________________
श्रुतस्कन्धः-१, अध्ययनं-९,
१९९ कुप्येत्' न कोपवशगो भवेत्, तथा दुरवचनानि ‘उच्यमानः' आक्रुश्यमानो निर्भत्स्यमानो 'न संज्वलेत्' न प्रतीपं वदेत्, न मनागपि मनोऽन्यथात्वं विदध्यात्, किंतु सुमनाः सर्वं कोलाहलमकुर्वन्नाधिसहेतेति। मू. (४६८) लद्धे कामे न पत्थेजा, विवेगे एवमाहिए।
आयरियाई सिक्खेजा, बुद्धाणं अंतिए सया ।। वृ.किश्चान्यत्-‘लब्धान्' प्राप्तानपि 'कामान्' इच्छामदनरूपान्गन्धालङ्कारवादिरूपान्वा वैरस्वामिवत् ‘न प्रार्थयेत्' नानुमन्येत् न गृहीयादित्यर्थः, यदिवा।
यत्रकामावसायितया गमनादिलब्धिरूपान् कामस्तपोविशेषलब्धानपि नोपजीव्यात्, नाप्यनागतान् ब्रह्मदत्तवप्रार्थयेद्, एवं च कुर्वतो भावविवेकः आख्यात' आविर्भावितो भवति, तथा 'आर्याणि' आर्याणां कर्तव्यानि अनार्यकर्तव्यपरिहारेण यदिवा आचर्याणि ।
मुमुक्षुणा यान्याचरणीयानि ज्ञानदर्शनचारित्राणितानि 'बुद्धानाम् आचार्याणाम् ‘अन्तिके' समीपे सदा सर्वकालं शिक्षेत' अभ्यस्येदिति, अनेन हिशीलवता नित्यं गुरुकुलवास आसेवनीय इत्यावेदितं भवतीति । यदुक्तं बुद्धानामन्तिके शिक्षेत्तत्स्वरूपनिरूपणायाहमू. (४६९) सुस्सूसमाणो उवासेजा, सुप्पन्नं सुतवस्सियं ।
वीराजे अत्तपन्नेसी, धितिमन्ता जिइंदिया। वृ.गुरोरादेशंप्रति श्रोतुमिच्छाशुश्रूषा गुवदिईयावृत्त्यमित्यर्थः तांकुर्वाणोगुरुम् ‘उपासीत' सेवेत, तस्यैव प्रधानगुणद्वयद्वारेण विशेषणमाह-सुष्ठु शोभना वा प्रज्ञाऽस्येति सुप्रज्ञःस्वसमयपरसमयवेदी गीतार्थ इत्यथः, तथा सुष्टु शोभनं वा सबाह्याभ्यान्तरं ततोऽस्यास्तीति सुतपस्वी, तमेवम्भूतं ज्ञानिनं सम्यक्चारित्रवन्तं गुरुं परलोकार्थी सेवेत, तथा चोक्तम् - ॥१॥ "नाणस्स होइ भागी, थिरयरओ दंसणे चरित्ते य ।
धन्ना आवकहाए गुरुकुलवासंन मुंचंति ॥ य एवं कुर्वन्ति तान् दर्शयति-यदिवा के ज्ञानिनस्तपस्विनो वेत्याह- 'वीराः' कर्मविदारणसहिष्णवो धीरा वा परीषहोपसर्गाक्षोभ्याः, धिया-बुध्धा राजन्तीति वा धीरा ये केचनासन्नसिद्धिगमनाः, आप्तो-रागादिविप्रमुक्तस्तस्य प्रज्ञा-केवलज्ञानाख्या तामन्वेष्टु शीलं येषां ते आप्तप्रज्ञान्वेषिणः सर्वज्ञोक्तान्वेषिण इतियावत् ।
यदिवा-आत्मप्रज्ञान्वेषिण आत्मनः प्रज्ञा-ज्ञानमात्मप्रज्ञा तदन्वेषिणः आत्मज्ञत्वा(प्रज्ञा)न्वेषिण आत्महितान्वेषिण इत्यर्थः, तथा घृति-संयमे रति सा विद्यते येषां ते धृतिमन्तः संयमधृत्या हि पञ्चमहाव्रतभारोद्वहनं सुसाध्यं भवतीति, तपःसाध्याचसुगतिर्हस्तप्राप्तेति, तदुक्तम् ॥१॥ “जस्स धिई तस्स तवो जस्स तवो तस्स सुग्गई सुलहा।
जे अधिइमंत पुरिसा तवोऽवि खलु दुल्लहो तेसिं॥ तथा जितानी-वशीकृतानि स्वविषयरागद्वेषविजयेनेन्द्रियाणि-स्पर्शनादीनि यैस्ते जितेन्द्रियाः, शुश्रूषमणाः शिष्या गुरवो वाशुश्रूषमाणा यथोक्तविशेषणविशिष्टा भवन्तीत्यर्थः । मू. (४७०) गिहे दीवमपासंता, पुरिसादानिया नरा।
ते वीरा बंधणुम्मुक्का, नावकंखंति जीवियं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org