________________
श्रुतस्कन्धः - १, अध्ययनं - ९,
१९७
119 11
वृ. यो हि भाषासमितः स भाषमाणोऽपि धर्मकथासम्बन्धमभाषक एव स्यात्, उक्तं च "वयणविहत्तीकुसलो वओगयं बहुविहं वियाणंतो । दिवसंपि भासमाणो साहू वयगुत्तयं पत्तो ॥
यदिवा-यत्रान्यः कश्चिद्रत्नाधिको भाषमाणस्तत्रान्तर एव सश्रुतिकोऽहमित्येवमभिमानवान्न भाषेत, तथा मर्म गच्छतीति मर्मगं वचो न 'वंफेज्ज' त्ति नाभिलषेत्, यद्वचनमुच्यमानं तथ्यमतथ्यं वा सद्यस्य कस्यचिन्मनः पीडामाधत्ते तद्विवेकी न भाषेतेति भावः, यदिवा 'मामकं' ममीकारः पक्षपातस्तं भाषमाणोऽन्यदा वा 'न वंफेज्जति' नाभिलषेत् ।
तथा 'मातृस्थानं' माया प्रधानं वचो विवर्जयेत्, इदमुक्तं भवति-परवञ्चनबुद्धया गूढाचारप्रधानो भाषमाणोऽ भाषमाणो वाऽन्यदा वा मातृस्थानं न कुर्यादिति, यदा तु वक्तुकामो भवति तदा नैतद्वचः परात्मनोरुभयोर्वा बाधकमित्येवं प्राग्विचिन्त्य वचनमुदाहरेत्, तदुक्तम्- “पुव्वि बुद्धीए पेहित्ता, पच्छा वक्कमुदाहरे" इत्यादि ।
पू. (४६२)
तत्थिमा तइया भासा, जं वदित्ताऽनुतप्पती । जं छन्नं तं न वत्तव्वं, एसा आणां नियंठिया ।।
वृ. अपिच-सत्या असत्या सत्यामृषा असत्यामृषेत्येवंरूपासु चतसृषु भाषासु मध्ये तत्रेयं सत्यामृषेत्येतदभिधाना तृतीया भाषा सा च किञ्चिन्मृषा किञ्चित्सत्या इत्येवंरूपा ।
तद्यथा-दश दारका अस्मिन्नगरे जाता मृता वा, तदत्र न्यूनाधिकसम्भवे सति सङ्ख्याया व्यभिचारात्सत्यामृषात्वमिति, यांचैवंरूपां भाषामुदित्वा अनु-पश्चाद्भाषणाज्जन्मानतरे वा तज्जनितेन दोषेण 'तप्यते' पीड्यते क्लेशभाग्भवति ।
यदिवा - अनुतप्यते किं ममैवम्भूतेन भाषितेनेत्येवं पश्चात्तापं विधत्ते, ततश्चेदमुक्तं भवतिमिश्रापि भाषा दोषाय किं पुनरसत्या द्वितीया भाषा समस्तार्थविसंवादिनी ?, तथा प्रथमापि भाषा सत्या या प्राण्युपतापेन दोषानुषङ्गिणीसा न वाच्या, चतुर्थ्यप्यसत्यामृषा भाषा या बुधैरनाचीर्णा सा न वक्तव्येति, सत्याया अपि दोषानुषङ्गित्वमधिकृत्याह ।
यद्वचः 'छन्न'न्ति प्रच्छन्नं यल्लोकैरपि यत्नतः प्रच्छाद्यते तत्सत्यमपि न वक्तव्यमिति, 'एषाऽऽज्ञा' अयमुपदेशो निर्ग्रन्थो भगवांस्तस्येति ।
मू. (४६३)
होलावायं सहीवायं, गोयावायं च नो वदे । तुमं तुमंति अमणुन्नं, सव्वसो तं न वत्तए ॥
वृ. किञ्च-होलेत्येवं वादो होलावादः, तथा सखेत्येवं वादः सखिवादः, तथा गोत्रो ध्घाटनेन वादो गोत्रवादो यथा काश्यपसगोत्रे वसिष्ठसगोत्रे वेति । इत्येवंरूपं वादं साधुर्नो वदेत्, तथा 'तुमं तुमं'ति तिरस्कारप्रधानमेकवचनान्तं बहुवच नोच्चारणयोग्ये 'अमनोज्ञं' मनः- प्रतिकूलरूपमन्यदप्येवम्भूतमपमानापादकं 'सर्वशः' सर्वथा तत्साधूनां वक्तुं न वर्तत इति ।
मू. (४६४) अकुसीले सया भिक्खू, नेव संसग्गियं भए ।
सुहरूवा तत्थुवस्सग्गा, पडिबुज्झेज्ज ते विऊ ॥
वृ. यदाश्रित्योक्तं नियुक्तिकारेण तद्यथा- “पासत्थोसण्णकुसील संथवोण किल वट्टए काउं" तदिदमित्याह-कुत्सितं शीलमस्येति कुशीलः स च पार्श्वस्थादीनामन्यतमः न कुशीलोऽ-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org