________________
१९६
सूत्रकृताङ्ग सूत्रम् १/९/-/४५६
संयमविराधकत्वेन ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया परिहरेदिति ।। तथाआसंदी पलियंके य, निसिज्जं च गिहंतरे । संपुच्छणं सरणं वा तं विज्जं परिजाणिया ॥
मू. (४५७)
वृ. 'आसन्दी' त्यासनविशेषः, अस्य चोपलक्षणार्थत्वात्सर्वोऽप्यासनविधिर्गृहीतः, तथा 'पर्यंकः' शयनविशेषः, तथा गृहस्यान्तर्मध्ये गृहयोर्वा मध्ये निपद्यां वाऽऽ सनं वा संयमविराधनाभयात्परिहरेत्, तथा चोक्तम् -
119 11
"गंभीरझुसिरा एते, पाणा दुप्पडिलेहगा । अगुत्ती बंग्स्स, इत्थीओ वावि संकणा ।।
इत्यादि, तथा तत्र गृहस्थगृहे कुशलादिप्रच्छनं आत्मीयशरीरावयवप्रच्छ नं वा तथा पूर्वक्रीडितस्मरणं चेत्येतत्सर्वं 'विद्वान्' विदितवेद्यः सन्ननर्थायेति ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया परिहरेत् ॥ पू. (४५८)
जसं कित्तिं सलोयं च, जा य वंदणपूयणा । सव्वलोयंसि जे कामा, तं विज्जं परिजाणिया ।
दृ. अपिच बहुसमरसङ्घट्टनिर्वहण शौर्यलक्षणं यशः दानसाध्या कीर्तिः जातितपोबाहुश्रुत्यादिजनिता श्लाघा, तथा या च सुराराधिपतिचक्रवर्तिबलदेववासुदेवादिभिर्वन्दना तथा तैरेव सत्कारपूर्विका वादिना पूजना । तथा सर्वस्मिन्नपि लोके इच्छामदनरूपा ये केचन कामास्तदेतत्सर्वं यशः कीर्ति मपकारितया परिज्ञाय परिहरेदिति ।
मू. (४५९)
जेणेहं निव्वहे भिक्खू, अन्नपाणं तहाविहं । अनुप्पयाणमन्नेसिं, तं विज्जं परिजाणिया ।।
वृ. किञ्चान्यत्- 'येन' अन्नेन पानेन वा तथाविधेनेति सुपरिशुद्धेन कारणापेक्षया त्वशुद्धेन वा 'इह' अस्मिन् लोके इदं संयमपात्रादिकं दुर्भिक्षरोगातङ्कादिकं वा भिक्षु निर्वहेत् निर्वाहयेद्वा तदन्नं पानं वा 'तथाविधं' द्रव्यक्षेत्रकालभावापेक्षया 'शद्धं' कल्पं गृहीयात्ततैतेषाम् ।
अन्नादीनामनुप्रदानमन्यस्मै साधव संयमयात्रानिर्वहणसमर्थमनुतिष्ठेत्, यदिवा-येन केनचिदनुष्ठितेन 'इमं संयमं 'निर्वहेत्' निर्वाहयेद् असारतामापादयेत्तथाविधमशनं पानं वाऽन्यद्वा तथा विधमनुष्ठानं न कुर्यात्, तथैतेषामशनादीनाम् 'अनुप्रदानं' गृहस्थानां परतीर्थिकानां स्वयूथ्यानां वा संयमोपघातकं नानुशीलयेदिति, तदेतत्सर्वं ज्ञपरिज्ञया ज्ञात्वा सम्यक् परिहरेदिति । मू. (४६०) एवं उदाहु निग्गंथे, महावीरे महामुनी ।
Jain Education International
अनंतनाणदंसी से, धम्मं देसितवं सुतं ॥
वृ. यदुपदेशेनैतत्सर्वं कुर्यात्तं दर्शयितुमाह- 'एवम्' अनन्तरोक्तया नीत्या उद्देशकादेरारभ्य 'उदाहु' त्ति उदाहृतवानुक्तवान् निर्गतः सबाह्याभ्यन्तरो ग्रन्थो यस्मात्स निर्ग्रन्थो ।
'महावीर' इति श्रीमद्वर्धमानस्वामी महांश्चासौ मुनिश्च महामुनि अनन्तं ज्ञानं दर्शनं च यस्यासावनन्तज्ञानदर्शनी स भगवान् 'धर्म' चारित्रलक्षणं संसारोत्तारणसमर्थं तथा 'श्रुतं च' जीवादिपदार्थसंसूचकं 'देशितवान्' प्रकाशितवान् किञ्चान्यत्
मू. (४६१)
भासमाणो न भासेज्जा, नेव वंफेज मम्मयं ।
मातिट्ठाणं विवज्जेज्जा, अनुचिंतिय वियागरे ।।
For Private & Personal Use Only
www.jainelibrary.org