SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः-१, अध्ययनं-९, १९५ निर्णयनानि, यदिवा-प्रश्नायतनानि लौकिकानांपरस्परव्यवहारे मिथ्याशास्त्रगतसंशयेवाप्रश्ने सति यथावस्थितार्थकथनद्वारेणायतनानि-निर्णयनानीति । तथा 'सागारिकः' शय्यातरस्तस्य पिण्डम्-आहारं, यदिवा-सागारिकपिण्डमितिसूतकगृहपिण्डं जुगुप्सितं वापसदपिण्डं वा, चशब्दः समुच्चये। तदेतत्सर्वं विद्वान् ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया परिहरेदिति । किञ्चान्यत्मू. (४५३) अट्ठावयं न सिक्खिज्जा, वेहाईयं च नो वए। हत्थकम्मं विवायंच, तं विजं परिजाणिया॥ वृ.अर्यते इत्यर्थोधनधान्यहिरण्यादिकः पद्यते-गम्यते येनार्थस्तत्पदं-शास्त्रंअर्थार्थपदमर्थपदं चाणक्यादिकमर्थशास्त्रं तन्न 'शिक्षेत्' नाभ्यस्येत् नाप्यपरं प्राण्युपमर्दकारि शास्त्रं शिक्षयेत्, यदिवा-'अष्टापदं' द्यूतक्रीडाविशेषस्तंन शिक्षेत्, नापि पूर्वशिक्षितमनुशीलयेदिति, तथा 'वेधो' धर्मानुवेधस्तस्मादतीतं सद्धर्मानुवेधातीतम्-अधर्मप्रधानं वचो नो वदेत् यदिवा । वेध इति वस्त्रवेधो द्यूतविशेषस्तद्गतं वचनमपि नो वदेद् आस्तां तावक्रीडनमिति, हस्तकर्मप्रतीतं, यदिवा 'हस्तकम हस्तक्रियापरस्परंहस्तव्यापारप्रधानः कलहस्तं, तथाविरुद्धवादं विवादं शुष्कवादमित्यर्थ, चः समुच्चये, तदेतत्सर्वं संसारभ्रमणकारणं ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया प्रत्याचक्षीत । मू (४५४) पाणहाओ य छत्तं च, नालीयं वालवीयणं । परकिरियं अन्नमन्नं च, तं विजं परिजाणिया ॥ वृ.किञ्च उपानहौ-काष्ठपादुकेचतथाआतपादिनिवारणायछत्रंतथा 'नालिका' द्यूतक्रीडाविशेषस्तथा वालैः मयूरपिच्छैर्वा व्यजनकं । तथा परेषां सम्बन्धिनी क्रियामन्योऽन्यंपरस्परतोऽन्यनिष्पाद्यामन्यः करोत्यपरनिष्पाद्यांचापर इति, चः समुच्चये, तदेतत्सर्वं 'विद्वान्' पण्डितः कर्मोपादानकारणत्वेन ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यान परिज्ञया परिहरेदिति । मू. (४५५) उञ्चारं पासवणं, हरिएसुन करे मुणी। वियडेण वावि साहटु, नावमजे कयाइवि।। वृ. तथा उच्चारप्रस्रवणादिकां क्रिया हरितेषूपरि बीजेषु वा अस्थण्डिले वा 'मुनि' साधुर्न कुर्यात्, तथा 'विकटेन' विगतजीवेनाप्युदकेन ‘संहृत्य' अपनीय बीजानि हरितानि वा 'नाचमेत' न निर्लेपनं कुर्यात्, किमुताविकटेनेतिभावः। मू. (४५६) परमत्ते अन्नपाणं, न भुंजेज कयाइवि। परवत्थं अचेलोऽवि, तं विजं परिजाणिया ।। वृ. किञ्च परस्य-गृहस्थस्यामत्रं-भाजनं परामत्रं तत्र पुरःकर्मपश्चात्कर्मभयात् हृतनष्टादिदोषसम्भवाच्चअन्नंपानंच मुनिन कदाचिदपि भुञ्जीत, यदिवा-पतद्ग्रहधारिश्छिद्रपाणे: पाणिपात्रं परपात्रं । यदिवा-पाणिपात्रस्या च्छिद्रपाणेर्जिनकल्पिकादैः पतद्ग्रहः परपात्रं तत्र संयमविराधनाभ- यान भुञ्जीत तथा परस्य-गृहस्थस्य वस्त्रं परवस्त्रं तत्साधुरचेलोऽपि सन् पश्चात्कर्मादिदोषभयात् हृतनष्टादिदोषसम्मावाच्च नबिभृयात्, यदिवा-जिनकल्पिकादिकोऽचेलो भूत्वा सर्वमपि वस्त्रं परवस्नमिति कृत्वा न बिभृयाद्, तदेवत्सर्वं परपात्रभोजनादिकं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy