________________
१९४
सूत्रकृताङ्ग सूत्रम् १/९/-/४४८
समुच्चयार्थ, एवकारोऽवधारणे, तथा बस्तिकर्म-अनुवासनारूपं तथा ।
'विरेचनं' निरूहात्मकमधोविरेको वा वमनम् ऊर्ध्वविरेकस्तथाऽञ्जनं नयनयोः, इत्येवमादिकमन्यदपि शरीरसंस्कारादिकं यत् 'संयमपलिमन्थकारि' संयमोपघातरूपं तदेतद्विद्वाम् स्वरूपतस्तद्विपाकतश्च परिज्ञाय प्रत्याचक्षीत अपिच
मू. (४४९)
गंधमल्लसिणाण च, दंतपक्खालणं तहा । परिग्गहित्थिकम्मं च तं विज्जं परिजाणिया ॥
वृ. 'गन्धाः' कोष्ठपुटादयः 'माल्यं' जात्यादिकं 'स्नानंच' शरीरप्रक्षालनं देशतः सर्वतश्च, तथा 'दन्तप्रक्षालनं' कदम्बकाष्ठादिना तथा 'परिग्रहः' सच्चित्तादेः स्वीकरणं तथा स्त्रियो- दिव्यमानुषतैरचयः तथा 'कर्म' हस्तकर्म सावद्यानुष्ठानं वा तदेतत्सर्व कर्मोपादानतया संसारकारणत्वेन परिज्ञाय विद्वान् परित्यजेदिति ॥ सू. (४५०)
उद्देसियं कीयगडं, पामिच्चं चेव आहडं । पूयं अनेसणिज्जं च, तं विज्जं परिजाणिया ॥
वृ. किञ्चान्यत्-साध्वाद्युद्देशेन यद्दानाय व्यवस्थाप्यते तदुद्देशिकं, तथा 'क्रीतं' क्रयस्तेन क्रीतं गृहीतं क्रीतक्रीतं 'पामिच्चं ति साध्वर्थमन्यत उद्यतकं यद्गृह्यते तत्तदुच्यते चकारः समुच्चयार्थः एवकारोऽवधारणार्थः । साध्वर्थं यद्गृहस्थेनानीयते तदाहृतं, तथा 'पूय' मिति आधाकर्मावयवसम्पृक्तं शुद्धमप्या- हारजातं पूति भवति, किं बहुनोक्तेन ?, यत् केनचिद्दोषेणानेषणीयम्अशुद्धं तत्सर्वं विद्वान् परिज्ञाय संसारकारणतया निस्पृहः सन् प्रत्याचक्षीतेति । आसूणिमक्खिरागं च, गिद्धुवघायकम्मगं ।
यू. (४५१)
उच्छोलणं च कक्कं च तं विज्जं परिजाणिया ॥
वृ. किञ्च-येन धृतपानादिना आहारविशेषेण रसानक्रियया वा अशूनः सन् आ-समन्तात् शूनीभवति-बलवानुपजायते तदाशूनीत्युच्यते, यदिवा आसूणित्ति - श्लाधा यतः श्लाधया क्रियमाणया आ-समन्तात् शूनवच्छूनो लघुप्रकृति कश्चिद्दर्पाध्मातत्वात् स्तब्धो भवति ।
तथा अक्ष्णां 'रागो' रञ्जनं सौवीरादिकमञ्जनमितियावत्, एवं रसेषु शब्दादिषु विषयेषु वा 'मृद्धि' गाद्धर्य तात्पर्यमासेवा, तथोपघातकर्म - अपरापकारक्रिया येन केनचित्कर्मणा परेषां जन्तूनामुपघातो भवति तदुपघातकर्मेत्युच्यते, तदेव लेशतो दर्शयति ।
'उच्छोलनं' ति अयतनया शीतोदकादिना हस्तपादादिप्रक्षालनं तथा 'कल्कं' लोघ्रादिद्रव्यसमुदायेन शरीरोद्वर्तनकं तदेतत्सर्वं कर्मबन्धनायेत्येवं 'विद्वान्' पण्डितो ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया परिहरेदिति ।
मू. (४५२)
Jain Education International
संपसारी कयकिरिए, पसिणायतणाणि य ।
सागारियं च पिंडं च तं विज्जं परिजाणिया ।।
वृ. अपिच - असंयतैः सार्धं सम्प्रसारणं-पर्यालोचनं परिहरेदिति वाक्यशेषः, एवमसंयमानुष्ठानं प्रत्युपदेशदानं, तथा 'कंयकिरिओ' नाम कृता शोभना गृहकरणादिका क्रिया येन स कृतक्रिय इत्येवमसंयमानुष्ठानप्रशंसनं ।
तथा प्रश्नस्य- आदर्शप्रश्नादेः 'आयतमनम्' आविष्करणं कथनं यथाविवक्षितप्रश्न
For Private & Personal Use Only
www.jainelibrary.org