________________
श्रुतस्कन्धः - १, अध्ययनं- ९,
१९३ ये जम्बालवेष्टिताः समुत्पद्यन्ते गोमनुष्यादयः तथा रसात्-दधिसौवीरकादेर्जाता रसजास्तथा संस्वेदाज्जाताः संस्वेदजा-यूकामत्कुणादयः ‘उद्भिज्जाः' खञ्जरीटकदर्दुरादय इति, अज्ञातभेदा हि दुःखेन रक्ष्यन्त इत्यतो भेदेनोपन्यास इति। मू. (४४५) एतेहिं छहिं काएहिं, तं विजं परिजाणिया।
मणसा कायवक्केणं, नारंभी न परिग्गही। वृ. 'एभिः' पूर्वोक्तैः षड्भिरपि 'कायैः' त्रसस्थावररूपैः सूक्ष्मबादरपर्याप्तकापर्याप्तकभेदभिन्नैारम्भीनापि परिग्रही स्यादिति सम्बन्धः, तदेतद् ‘विद्वान् सश्रुतिको ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया मनोवाक्कायकर्मभिज्जीवोपमर्दकारिणमारम्भं परिग्रहं च परिहरेदिति। मू. (४४६) मुसावायं बहिध्धं च, उग्गहं च अजाइया।
सत्थादाणाइं लोगंसि, तं विजं परिजाणिया ।। वृ.शेषव्रतान्यधिकृत्याह-मृषा-असद्भूतोवादो मृषावादस्तं विद्वान् प्रत्याख्यानपरिज्ञया परिहरेत्तथा । 'बहिद्धं'तिमैथुनं अवग्रहं परिग्रहमयाचितम्-अदत्तादानं, यदिवाबहिद्धमितिमैथुनपरिग्रहौ अवग्रहमयाचितमित्यनेनादत्तादानं गृहीतं, एतानि च मृषावादादीनि प्राण्युपतापकारित्वात् शस्त्राणीव शस्त्राणि वर्तन्ते।
तथाऽऽदीयते-गृह्यतेऽष्टप्रकारकमैभिरितिकर्मोपादानकरणान्यस्मिन् लोके, तदेवतसर्वं विद्वान् ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया परिहरेदिति। मू. (४४७) पलिउंचण च भयणंच, थंडिल्लुस्सयणाणि या।
धूणादाणाई लोगंसि, तं विजं परिजाणिया। वृ. किञ्चान्यत्-पञ्चमहाव्रतधारणमपि कषायिणो निष्फलं स्यादतस्तस्साफल्यापादनार्थं कषायनिरोधो विधेय इति दर्शयति-परि-समन्तात् कुञ्चयन्ते-वक्रतामापाद्यन्ते क्रिया येन मायानुष्ठानेन तत्पलिकुञ्चनंमायेति भण्यते, तथा भज्यतेसर्वत्रात्मा प्रहीक्रियतेयेन सभजनोलोभस्तं।
तथा यदुदयेन ह्यात्मा सदसद्विवेकविकलात्वात् स्थण्डिलवद्भवति सस्थण्डिलः-क्रोधः, यस्मिश्च सत्यवंश्रयति जात्यादिनादध्मातः पुरुष उत्तानीभवतिसउच्छ्रायो-मानः,छान्दसत्वान्नपुंसफलिङ्गता, जात्यादिमदस्थानानां बहुत्वात्तत्कार्यस्यापिमानसयबहुत्वमतोबहुवचनं, चकाराः स्वगतभेदसंसूचनार्था समुञ्चयार्था वा, धूनयेति प्रत्येक क्रिया योजनीया।
तद्यथा-पलिकुञ्चनं-मायां धूनय धूनीहि वा, तथा भजन-लोभं, तथा स्थण्डिलं-क्रोधं, तथा उच्छ्रायं-मानं, विचित्रत्वात् सूत्रस्य क्रमोल्लङ्घनेन निर्देशो न दोषायेति, यदिवा-रागस्य दुस्त्यजत्वात् लोभस्य च मायापूर्वकत्वादित्यादावेव मायालोभयोरुपन्यास इति, कषायपरित्यागे विधेयेपुनरपरंकारणमाह। एतानि पलिकुञ्चनादीनि अस्मिन् लोके आदानानिवर्तन्ते, तदेतद्विद्वान् ज्ञएरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया प्रत्याचक्षी । मू. (४४८) धोयणं रयणंचेव, बत्थीकम्मं विरेयणं ।
वमणंजण पलीमथं, तं विजं परिजाणिया॥ वृ.पुनरप्युत्तरगुणानधिकृत्याह-घावनं-प्रक्षालनंहस्तपादवनादेरञ्जनमपितस्यैव, चकारः (2[11
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org