SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ १९२ सूत्रकृताङ्ग सूत्रम् १/९/-/४४२ मू. (४४२) एयम8 सपेहाए, परमट्ठानुगामियं । निम्ममो निरहंकारो, चरे भिक्खू जिणाहियं ।। वृ.किञ्चान्यत्-धर्मरहितानांस्वकृतकर्मविलुप्यमानानौमहिकामुष्मिकयो कश्चित्राणायेति एनं पूर्वोक्तमर्थं स प्रेक्षापूर्वकारी 'प्रत्युपेक्ष्य' विचार्यावगम्य च परमः-प्रधानभूतो (ऽर्थो) मोक्षः संयमो वा तमनुगच्छतीति तच्छीलश्च परमार्थानुगामुकः-सम्यगदर्शनादिस्तं च प्रत्युपेक्ष्य, क्त्वाप्रत्ययान्तस्य पूर्वकालवाचितया क्रियान्तरसव्यपेक्षत्वात् तदाह । निर्गतं ममत्वंबाह्याभ्यन्तरेषुवस्तुषुयस्मादसौ निर्ममः तथा निर्गतोऽहङ्कारः-अभिमानः पूर्वैश्वर्यजात्यादिमदजनितस्तथा तपःस्वाध्यायलाभादिजनितो वा यस्मादसौ निरहङ्कारोरागद्वेषरहित इत्यर्थः, स एवम्भूतो भिक्षुर्जिनैराहितः-प्रतिपादितोऽनुष्ठितो वा यो मार्गो जिनानां वा सम्बन्धी योऽभिहितो मार्गस्तं 'चरेद्' अनुतिष्ठेदिति ।। मू. (४४३) चिच्चा वित्तं च पुत्ते य, नाइओ य परिग्गहं। चिच्चा ण अंतगं सोयं, निरवेक्खो परिव्वए। वृ.अपिच-संसारस्वभावपरिज्ञानपरिकमूर्मितमतिर्विदितवेद्यः सम्यक् त्यक्त्वा परित्यज्य किं तद् ? -'वित्तं' द्रव्यजातं पुत्रांश्च त्यक्त्वा, पुत्रेष्वधिकः स्नेहो भवतीतिपुत्रग्रहणं, तथा 'ज्ञातीन्' स्वजनांश्च त्यक्त्वा तथा ‘परिग्रह' चान्तरममत्वरूपंणकारो वाक्यालङ्कारे अन्तं गच्छतीत्यन्तगो दुष्परित्यज इत्यर्थः। अन्तको वा विनाशकारीत्यर्थः आत्मनि वा गच्छतीत्यात्मग आन्तर इत्यर्थः तं तथा भूतं 'शोकं संतापं त्यक्त्वा परित्यज्य श्रोतो वा-मिथ्यात्वाविरतिप्रमादकषायात्मकं कर्माश्रवद्वारभूतं परित्यज्य, पाठान्तरं वा-'चिच्चा णऽणंतगं सोयं' अन्तं गच्छतीत्यन्तगंन अन्तगमनन्तगं श्रोतः शोकं वा परित्यज्य 'निरपेक्षः' पुत्रदारधनधान्यहिरण्यादिकमनपेक्षमाणः सन् आमोक्षाय परिसमन्तात् संयमानुष्ठाने 'व्रजेत्' परिव्रजेदिति, तथा चोक्तम् - ॥१॥ "छलिया अवयक्खंता निरावयक्खा गया अविग्घेणं। तम्हा पवयणसारे निरावयक्खेण होयव्वं ॥ भोगे अवयक्खंता पडंति संसार सागरे धोरे। भोगेहि निरवयक्खा तरंति संसारकंतारं ॥ (इति) मू. (०४४) पुढवी उ अगणी वाऊ, तणरुक्ख सबीयगा। अंडया पोयजराउ, रससंसेयउब्भिया॥ वृ.सएवं प्रव्रजितः सुव्रतावस्थितात्माऽहिंसादिषुव्रतेषुप्रयतेत, तत्राहिंसाप्रसिद्धयर्थमाह'पुढवी उ' इत्यादि श्लोकद्वयं, तत्र पृथिवीकायिकाः सूक्ष्मबादरपर्याप्तकापर्याप्तकभेदभिन्नाः तथाऽप्कायिका अग्निकायिका वायुकायिकाश्चैवम्भूता एव, वनस्पतिकायिकान् लेशतः सभेदानाह-'तृणानि' कुशवञ्चकादीनि 'वृक्षाः' चूताशोकादिकाः सह बीजैर्वर्तन्त इति सबीजाः, बीजानि तु शालिगोधूमयवादीनि । एते एकेन्द्रियाः पञ्चापि कायाः षष्ठत्रसकायनिरूपणायाह-अण्डाजाता अण्डजाःशकुनिगृहकोकिलकसरीसृपादयः तथा पोता एव जाताः पोतजा-स्तिशरभादयः तथा जरायुजा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy