SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ १९० सूत्रकृताङ्ग सूत्रम् १/९/-/४३६/नि. [१००] - भावधर्मस्वरूपनिरूपणायाह नि. [१०१] लोइयलोउत्तरिओ दुविहो पुण होति भावधम्मो उ । दुविहोवि दुविहतिविहो पंचविहो होति नायव्वो ॥ वृ. भावधर्मो नोआगमतो द्विविधः, तद्यथा-लौकिको लोकोत्तरश्च, तत्र लौकिको द्विविधःगृहस्थानां पाखण्डिकानांच, लोकोत्तरस्त्रिविधः - ज्ञानदर्शनचारित्रभेदात्, तत्राप्याभिनिबोधादिकं ज्ञानं पञ्चधा, दर्शनमप्यौपशमिकसास्वादनक्षायोपशमिकवेदकक्षायिकभेदात् पञ्चविधं, चारित्रमपि सामायिकादिभेदात् पञ्चधैव । गाथाऽक्षराणि त्वेयं नेयानि, तद्यथा भावधर्मो लौकिकलोकोत्तरभेदादिवधा, द्विविधोऽपि चायं यथासङ्घयेन द्विविधस्त्रिविधः, तत्रैव लौकिको गृहस्थपाखण्डिकभेदात् द्विविधः, लोकोत्तरो ऽपि ज्ञानदर्शनचारित्रभेदात्रिविधः, ज्ञानादीनि प्रत्येकं त्रीण्यति पंचधैवेति ॥ तत्र ज्ञानदर्शनचारित्रवतां साधूनां यो धर्मस्तं दर्शयितुमाहनि. [१०२ ] पासत्थोसण्णकुसील संथवो न किर वट्टती काउं । सूयगडे अज्झयणे धम्मंमि निकाइतं एयं ॥ वृ. साधुगुणानां पार्श्वे तिष्ठन्तीति पार्श्वस्थाः तथा संयमानुष्ठानेऽवसीदन्तीत्यवसन्नाः तथा कुत्सितं शीलं येषां ते कुशीलाः एतैः पार्श्वस्थादिभिः सह संस्तवः परिचयः सहसंवासरूपो न किल यतीनां वर्त्तते कर्त्तुम्, अतः सूत्रकृतेऽङ्गे धर्माख्येऽध्ययने एतत् 'निकाचितं' नियमितमिति गतो नामनिष्पन्नो निक्षेपः, अधुना सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुञ्चारयितव्यं, तच्चेदम्मू. (४३७) करे धम्मे अक्खा, माहणेण मतीमता ? । अंजु धम्मं जहातचं, जिणाणं तं सुणेह मे ॥ वृ. जम्बूस्वामी सुधर्मस्वामिनमुद्दिश्येदमाह-तद्यथा- 'कतरः' किम्भूतो दुर्गतिगमनधरणलक्षणोधर्मः‘आख्यातः’प्रतिपादितो 'माहणेणं' ति मा जन्तून् व्यापादयेत्येवं विनेयेषु वाक्प्रवृत्तिर्यस्यासौ ‘माहनो’ भगवान् वीरवर्धमानस्वामी तेन ?, तमेव विशिनष्टि-मनुते - अवगच्छति जगत्त्रयं कालत्रयोपेतं यया सा केवलज्ञानाख्या मति सा अस्यास्तीति मतिमान् तेन - उत्पन्नकेवलज्ञानेन भगवता इति पृष्टे सुधर्मस्वाम्याह रागद्वेषजितो जिनास्तेषां सम्बन्धिनं धर्म 'अंजुम्' इति 'ऋ जुं' मायाप्रपञ्चरहितत्वादवक्रं तथा-'जहातच्चं मे' इति यथावस्थितं मम कथयतः श्रृणुत यूयं, न तु यथाऽन्यैस्तीर्थिकैर्दम्भप्रधानो धर्मोऽभिहितस्तथा भगवताऽपीति, पाठान्तरं वा 'जणगा तं सुणेह मे' जायन्त इति जना -लोकास्त एव जनकास्तेषामामन्त्रणं हे जनकाः ! तं धर्मं श्रृणुत यूयमिति । मू. (४३८) माहणा खत्तिया वेस्सा, चंडाला अदु बोक्क सा । एसिया वेसिया सुद्दा, जे य आरंभनिस्सिया ।। वृ. अन्यवव्यतिरेकाभ्यामुक्तोऽर्थः सूक्तो भवतीत्यतो यथोद्दिष्टधर्मप्रतिपक्षभूतोऽधर्मस्तदाश्रितांस्तावद्दर्शयितुमाह-ब्राह्मणाः क्षत्रिया वैश्यास्तथा चाण्डालाः अथ बोक्कसाअवान्तरजातीयाः, तद्यथा-ब्राह्मणेन शूयं जातो निषादो ब्राह्मणेनैव वैश्यायां जातोऽम्बष्ठः तथा निषादेनाम्बष्टयां जातो बोक्कसः, तथा एषितुं शीलमेषामिति एषिका मृगलुब्धका हस्तितापसाश्च मांसहेतोर्मृगान् हस्तिनश्च एषन्ति, तथा कन्दमूलफलादिकं च तथा ये चान्ये पाखण्डिका Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy