________________
श्रुतस्कन्धः- १, अध्ययनं-८,
१८९ यावत् ‘परिव्रजेरि'ति संयमानुष्ठानं कुर्यास्त्वमिति । इति परिसमाप्तयर्थे । ब्रवीमीति पूर्ववत् ।।
अध्ययन-८ समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता शीलाङ्काचार्यविरचिता प्रथम श्रुतस्कन्धस्य अष्टम अध्ययनटीका परिसमाप्ता ।
(अध्ययन-९ "धर्म") वृ.अष्टमानन्तरंनवमंसमारभ्यते, अस्यचायभिसम्बन्धः-इहानन्तराध्ययनेबालपण्डितभेदेन द्विरूपं वीर्यं प्रतिपादितं, अत्रापि तदेव पण्डितवीर्यं धर्म प्रति यदुधमं विधत्ते अतो धर्म प्रतिपाद्यत इत्यनेन सम्बन्धेनधर्माध्ययनमायातं, अस्य चत्वार्यनुयोगद्वाराणि उपक्रमादीनिप्राग्वत् व्यावर्णनीयानि, तत्राप्युपक्रमान्तर्गतोऽर्थाधिकारोऽयं, तद्यथा-धर्मोऽत्र प्रतिपादयत इति तमधिकृत्य नियुक्तिकृदाहनि. [९९] धम्मो पुब्बुद्दिवो भावधम्मेण एत्थ अहिगारो ।
___ एसेव होइ धम्मे एसेव समाहिमग्गोत्ति॥ वृ. दुर्गतिगमनधरणलक्षणोधर्म प्राक्दशवैकालिकश्रुतस्कन्धषष्ठाध्ययने धर्मार्थकामाख्ये उद्दिष्टः-प्रतिपादितः, इह तु भावधर्मेणाधिकारः, एष एव च भावधर्म परमार्थतो धर्मो भवति, अमुमेवार्थमुत्तरयोरप्यध्ययनयोरतिदिशन्नाह-एष एव चभावसमाधिर्भावमार्गश्च भवतीत्यवगन्तव्यमिति, यदिवैष एव च भावधर्म एष एव च भावसमाधिरेष एव च तथा भावमार्गो भवति, न तेषां परमार्थतः कश्चिद्भेदः।
तथाहि-धर्मश्रुतचारित्राख्यः क्षान्त्यादिलक्षणो वा दशप्रकार भवेत्, भावसमाधिरप्येवंभूत एव, तथाहि-सम्यगाधानम्-आरोपणं गुणानां क्षान्त्यादीनामिति समाधि, तदेवं मुक्तिमार्गोऽपि ज्ञानदर्शनचारित्राख्योभावधर्मतया व्याख्यानयितव्य इति॥साम्प्रतमतिदिष्टस्यापिस्थानाशून्यार्थं धर्मस्य नामादिनिक्षेपं दर्शयितुमाहनि. [१००] नामंठवणाधम्मो दव्वधम्मो य भावधम्मो य ।
सच्चित्ताचित्तमीसगगिहत्थदाने दवियधम्मे॥ वृ. नामस्थापनाद्रव्यभावभेदाच्चतुर्धा धर्मस्य निक्षेपः, तत्रापि नामस्थापने अनाहत्य ज्ञशरीरभव्यशरीरव्यतिरिक्तोद्रव्यधर्म सचित्ताचित्तमिश्रभेदात् त्रिधा, तत्रापि सचित्तस्यजीवच्छरीरस्योपयोगलक्षणो 'धर्म' स्वभावः, एवमचित्तानामपि धर्मास्तिकायादीनां यो यस्य स्वभावः स तस्य धर्म इति, तथाहि॥१॥ “गइलक्खणओ धम्मो, अहम्मो ठाणलक्खणो।
भायणं सव्वदव्वाणं, नहं अवगाहलक्खणं । पुद्गलास्तिकायोऽपि ग्रहणलक्षणइति, मिश्रद्रव्याणांच क्षीरोदकादीनांयोयस्यस्वभावः स तद्धर्मतयाऽवगन्तव्य इति, गृहस्थानां च यः कुलनगरग्रामादिधर्मो गृहस्थेभ्यो गृहस्थानां वा यो दानधर्म स द्रव्यधर्मोऽवगन्तव्य इति, तथा चोक्तम्
“अन्नं पानं च वस्त्रं च, आलयः शयनासनम् । शुश्रूषा वन्दनं तुष्टिः, पुण्यं नवविधं स्मृतम् ।।
For Private & Personal Use Only
॥१॥
Jain Education International
www.jainelibrary.org